प्रमाणपरीक्षा १९१४
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Pramāṇaparīkṣā
Digital representation of Gajādharalāl Jaina's 1914 edition
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-viracitā ... Āptamīmāṃsā Vidyānandasvāmi-viracitā Pramāṇaparīkṣā ca. Gajādharalālajaina-sampādite. (Sanātanajainagranthamālā 9-10). Kāśī 1914.
Digital text resource:
dcv/text/resources/PrP
,
February 21, 2022
The file at hand, "
PrP-GL-p
", is a transformation of the file "
PrP
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work.
"
PrP-GL-p
" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc.
Main steps in the preparation:
Diplomatic capture of Gajādharalāl 1914 edition by H. Trikha, May 2012.
Transliteration with Lasic' programme „dev2trans“ September 2012.
Creation of the xml resource, September 2017.
Application of the conventions of the Text Encoding Initiative, March 2020.
Integration into DCV, February 2022
Meaningful transformations:
PrP-GL-p
: Digitized print edition
PrP-HT-d
: Digital edition
Excluded in attestation GL:
resp
=
HT
,
type
=
HT
Excluded in attestation HT:
resp
=
GL
,
type
=
GL
,
pb
,
lb
Excluded in transformation plain-text and skipped in text searches:
type
=
note-block-page-foot
type
=
note-block-container
type
=
inline
ref
५१
सनातनजैनग्रंथमाला
९
स्याद्वादपतिश्रीविद्यानंदस्वामिविरचिता
प्रमाणपरीक्षा ।
०५
जयंति निर्जिताशेषसर्वथैकांतनीतयः ।
सत्यवाक्याधिपाः शश्वद्विद्यानंदा जिनेश्वराः ॥ १ ॥
अथ प्रमाण
-
परीक्षा — तत्र प्रमाणलक्षणं परीक्ष्यते —
"सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः । सन्निकर्षादिरज्ञानमपि प्रमाणं स्वार्थप्रमितौ साधकतम
-
त्वात् ? इति नाशंकनीयं । तस्य स्वप्रमितौ साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणं पटा
-
१०
दिवत् । सोऽर्थप्रमितौ करणमित्यप्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमितौ
साधकतमत्वानुपपत्तेः । तथाहि — न सन्निकर्षादिरर्थप्रमितौ साधकतमः स्वप्रमितावसाधकतमत्वात्पट
-
वत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ? इति न मंतव्यं । तेषामर्थपरिच्छित्तावकरणत्वात् । तत्र नयनम
-
नसोरेव करणतया स्वयमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचारतः करणव्यवहारानुसरणात् ।
न चोपचारतोऽर्थप्रकाशन एव प्रदीपादिः करणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः,
१५
अनुमन्यते । नयानादेः
-
अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात् ।
तेषामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिना
-
अनेकांत इत्यपि न मननीयं
तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्तौ करणतोपचारात् । परमार्थतो भावेंद्रियस्यैव
-
अर्थग्रहणश
-
क्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया परिवर्त
-
मानत्वात् । तथाहि —
२०
"यदसन्निधाने कारकांतरसन्निधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने काष्टछेदनम
-
नुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रि
-
यकरणकं । बहिःकरणसन्निकर्षाधीनतायां हि पदार्थसंवेदनस्य, नयनसन्निकर्षात् कलश इव नभसि नायन
-
संवेदनोदयः कुतो न भवेत् ? । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं
सकलमूर्तिमद्द्रव्यसंयोगान्नभसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ? तस्य परैर्भौतिकतयो
-
२५
पगतत्वात् । पौद्गलिकतयास्माभिरुपकरणस्याभिमतत्वात् । ननु नभसि नयनसन्निकर्षस्य योग्यताविरहान्न
संवेदननिमित्तता? इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्य
-
ता नाम ? विशिष्टा शक्तिरिति चेत् ? सा तर्हि सहकारिसन्निधिलक्षणा अनुमंतव्या ।
५२
"सहकारिसांनिध्यं शक्तिः"
इत्युद्द्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मा
-
दि वा स्यात् ? न तावदात्मद्रव्यं सहकारि तत्सन्निधानस्य नयननभःसन्निकर्षेऽपि समानत्वात् । एते
-
न कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतं तत्सान्निध्यस्यापि सर्वसाधरणत्वात् । मनोद्रव्यं सहकारि
इत्यपि न संगतं तत्सन्निधेरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् ।
०५
एतेन आत्मा मनसा युज्यते, मन इंद्रियेण, इंद्रियमर्थेनेति चतुष्टयसन्निकर्षोऽर्थप्रमितौ साधकतम इति
सामिग्रींप्रमाणवादो दूषितः — तत्सामिग्र्याश्च नभसि सद्भावात् । कालादिनिमित्तकारणसामिग्रीवत् । यदि
पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात् चाक्षुषादिज्ञानप्रभवादिति मतं तदापि न विशेषः घटादाविव
गगनेऽपि लोचनसन्निकर्षस्यालोकसन्निधिप्रसिद्धेः संवेदनानुषंगस्य दुर्निवारत्वात् । अथादृष्टविशेषो
गुणः सहकारी तत्सान्निध्यं संयुक्तसमवायेन, चक्षुषा संयुक्ते पुरुषे त्वदृष्टविशेषस्य समवायात् इति मन्यध्वं
१०
तर्हि कदाचिन्नभसि नायनंसवेदनोदयः कुतो न भवेत् ? । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽस
-
न्निधानात् इति चेत्? कथमेवमीश्वरस्य नभसि चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटते ? समाधिविशेषोपजनि
-
तधर्मविशेषानुगृहीतेन मनसा गगनाद्यशेषपदार्थसंवेदनोदये तु महेश्वरस्य बहिःकरणमनर्थकतामियात् ।
फलासंभवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्येत परनिर्वृत्तात्मवत् । ततः कथमंतःकरणेन धर्मा
-
दिग्रहणं मनसोऽसंभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामटाट्यते तस्यात्मांतःकरणसं
-
१५
योगनिबंधनात् ।
स्यान्मतं शिशिररश्मिशेखरस्य समाधिविशेषसंततिर्धर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरना
-
द्यपर्यवसाना, सततमेनोमलैरस्पृष्टत्वात् । तस्य संसारिसादि मुक्तिविलक्षणत्वात् सर्वथा मुक्ततयैव प्रसिद्ध
-
त्वात् इति तदप्यसमीचीनं एवमीश्वरस्यापि एनोमलविलयादेरेवार्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमला
-
भावो हि यथा सततमर्थज्ञानसंतानहेतुरुररीक्रियते तथा कादचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्त
-
२०
युक्तमुत्पश्यामः तस्यैव सन्निकर्षसहकारितोपपत्तेः । तत्सान्निध्यस्यैव च सन्निकर्षशक्तिरूपत्वसिद्धेः । तद्भावादेव
च नयनसन्निकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः
प्रतिपद्यते भावांतरस्वभावत्वादभावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्य
-
त्वात् इति पुरुषगुणविशेषसद्भाव एव पापमलाभावो विभाव्यते । स चात्मविशुद्धिविशेशो ज्ञानावरणवीर्यांतराय
-
क्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्त
-
२५
तापि नातोर्थांतरभावमनुभवति पुंसः संवेदनावरणवीर्यांतरायलक्षणपापमलापगमविरहे क्वचिदुपलब्धिलक्षण
-
प्राप्ततानुपलब्धेः, नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन
नयनोन्मीलनादिकर्मसान्निकर्षसहकारिविषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्य
-
पि क्वचित्कस्यचित् प्रमित्यनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसंभाव्यं योगिनो
-
ऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगीश्वरापेक्षादुपलभ्यतासामान्यादिति
-
३०
चेत् ? तत्किमन्यत् ? अन्यत्र योग्यताविशेषात् । प्रतिपुरुषं भेदमास्तिघ्नुवानादिति
[? ]
स एव प्रमातुः प्रमित्यु
-
ताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलरूपत्वात् स्वार्थज्ञानात्कथंचिदभिन्नत्वात्
सर्वथापि ततो भेदे नात्मस्वभावत्वोपत्तेः । न चैवमुपगंतुं युक्तं ? आत्मन एवोभयनिमित्तवशात्तथापरिणा
-
मात् । आत्मनो हि जानात्यनेनेति करणसाधनात् भेदोपवर्णनं कथं चिदभिन्नकर्तृकस्य करणस्य प्रसिद्धेः
अग्निरौष्ण्येन दहतींधनमिति यथा । स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कर्तृसाधनत्वात्तदात्मज्ञा
-
३५
नयोरभेदप्राधान्यात् आत्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः औष्ण्यपरिणाममाप
-
न्नस्याग्नेरौष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च
५३
ज्ञानात्मैव प्रमाता स्यात्, अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणं स्वार्थप्रमितौ ज्ञान
-
क्रियात्मिकायां करणात्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनान्नाज्ञाने प्रमाणं, अन्यत्रोपचारतः । ततो
-
नाज्ञानेन इंद्रियसन्निकर्षलिंगशब्दादिना साधनस्य व्यभिचारः । नापि व्यतिरेकासिद्धिः सम्यग्ज्ञानत्वस्य
साध्यस्य निवृत्तौ प्रमाणत्वस्य साधनस्य पटादौ विनिवृत्तिविनिश्चयात् । केवलव्यतिरेकिणोऽपि साधनस्य
०५
समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवदिति ।
किं पुनः सम्यग्ज्ञानं ? अभिधीयते–स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसाया
-
त्मकं तन्न सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः । सम्यग्ज्ञानं च विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति
सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधादीनां साध्यधर्मिणि सद्भावात् । स्व
-
संवेदनेंद्रियमनोयोगिप्रत्यक्षैः सम्यग्ज्ञानैः–अव्यवसायात्मकैर्व्यभिचारी हेतुः ? इति स्वमनोरथमात्रं सौगतस्य तेषां
१०
सम्यग्ज्ञानत्वविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्तं
तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विषयज्ञानवत् । तदपि प्रवर्त
-
कत्वेन व्याप्तं अप्रवर्तकस्यार्थाप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वविषयमु
-
पदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत्
प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाणं तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशय
-
१५
वदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते तस्य
स्वविषयोपदर्शकत्वाऽसिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यद
-
व्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमव्यवसायात्मकं
च सौगताभिमतदर्शनमिति व्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकस्य व्यापकस्याभावे तद्व्याप्यत्वस्य
स्वविषयोपदर्शकत्वस्याननुभवात् ।
२०
स्यादाकुतं — तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसा
-
यजनकत्वेन व्याप्तत्वात् । नीलधवलादौ व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः । क्षणक्षयस्वर्ग
-
प्रापणशक्त्यादौ व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव
स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ? तदेतदवि
-
चारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा ?
२५
इति विचार्यते– यद्युपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् ।
न तु तन्निमित्तं दर्शनं सन्निकर्षादिवत् । अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविषयोपदर्शकं ?
अतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्वि
-
कल्पतज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षण
-
स्यावस्तुत्वात् । तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूप
-
३०
दर्शक एव व्यवसाय इत्यपि मिथ्या तयोरेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो
-
व्यवसायो वा ज्ञानांतरं वा ? न तावद्दर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः तस्य
दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकं वा ? न तावन्निर्विकल्पकं तस्य दृश्य
विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तद् द्वयाविषयं संवेदनं तदुभयैकत्वमध्यव
-
सातुं समर्थं । तथाहि– यद्यन्न विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा रससंवेदनं स्पर्शरूपोभयं । न
३५
विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिद्दृश्यविकल्प्ययोरेकत्वाध्यवसायः सिद्ध्येत्
ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननाद्दर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधू
-
तकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप
-
५४
दर्शकं तद्विकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत? । किं च दर्शनपृष्ठभाविनो
विकल्पस्य स्वसंवेदनवलात्सिद्धौ तत्स्वसंवेदनं कुतः प्रमाणं स्यात् ? । तद्यदि स्वरूपोपदर्शनादेव प्रमाणमा
-
स्थीयते ? तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एव प्रमाणं तद्व्यवसाय
जननात्–न पुनरन्यत्रेति परिकल्पनायां तद्व्यवसायस्वसंवेदनस्यापि व्यवसायांतरोपजननात् स्वरूपोपदर्श
-
०५
नेन भवितव्यमित्यनवस्थानात्, नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसाय
-
सिद्धिः । तदसिद्धौ च न तज्जननाद्दर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अप्रवर्त
-
कस्य नार्थप्राप्तिनिमित्तत्वं । तदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनेंद्रियमनो
योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति ।
स्यान्मतं — अर्थसामर्थ्यादुत्पत्ति–अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेद
-
१०
नानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीची
-
नैर्ज्ञानैर्व्यभिचार एव हेतोरिति ? तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकत्वप्रसंगात् । तत्राक्षणिक
-
त्वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादा
-
वपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमद्धृतिकरं नीलादावप्ययोगिनस्तद्विपरीतसमारोपप्रसक्तेः ।
कथमन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदो न भावेत्? न हि –अभिन्नमेकदर्शनं क्वचित्समारोपाक्रांतं क्वचिन्नेति
१५
वक्तुं युक्तं । ततो यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्चायात्मकं यथानुमेयेऽर्थेऽनुमानज्ञानं । विपरीतसमारो
-
पविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादौ विपरीतसमा
-
रोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामंस्थाः योगिप्रत्यक्षेऽस्य
विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव ।
तथा निश्चयहेतुना दर्शनेन विरुद्धं प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति
२०
धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोर्विरोधाभावसिद्धेः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षवि
-
रोधः संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं —
संहृत्य सर्वतश्चिंतां स्तिमितेनांतरात्मना ।
स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १ ॥ इति ।
तथानुमानविरोधोऽपि व्युच्छित्तचिंतावस्थायां–इंद्रियादर्थगतौ कल्पनानुपलब्धेः । तत्र कल्पनास
-
२५
द्भावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत् — तदप्युक्तं —
पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेदृशी ।
इति वेत्ति न पूर्वोक्तावस्थायामिंद्रियाद्गतौ ॥ १ ॥ – इति
तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहृतसकलविकल्पा
-
वस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् ।
३०
तस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य
च संभवात् अन्यतस्तदनुपपत्तेः । ददुक्तं —
व्यवसायात्मनो दृष्टेः संस्कारः स्मृतिरेव वा ।
दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ १ ॥
अथ मतं — अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि दर्शनान्नीलादौ संस्कारः स्मरणं
३५
चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः ।
तेषामभावे निश्चिते ऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो
-
५५
भ्युपगमनीयत्वात् इति ? तदपि फल्गुप्रायं भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादौ सुतरां सद्भावात् ।
पुनपुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् तत्रैव विवदात् । क्षणिकाक्षणिकविचारणायां क्षणि
-
कप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादौ क्षणक्षयादौ च समानं तद्दर्शनस्यानंशत्वात् । तत्र पाटवा
-
पाटवयोर्भेदे तद्बुद्धेरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाद्बुद्धेः पटवापाटवे स्यातां,
०५
इत्यप्यनेनापास्तं तत्कर्मसद्भावयोरपि विरुद्धधर्मयोरनंशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिज्ञासितत्वं
तत्क्षणिकवादिनः क्षणिकत्वेऽस्त्येव नीलादिवत् । यत्पुनरभिलषितृत्वमर्थित्वं तन्न व्यवसायजनननिबंधनं
क्वचिदनभिलषितेऽपि वस्तुनि कस्य चिदुदासीनस्य स्मरणप्रतीतेः — इति नाभ्यासादिभ्यः क्वचिदेव संस्कार
-
जननं — अनंशज्ञानज्ञेयवादिनो घटते । परस्य तु बहिरंतरनेकात्मकतत्त्ववादिनो न किंचिदनुपपन्नं सर्वथै
-
कत्र व्यवसायाव्यवसाययोः, अवायानवायाख्ययोः, संस्कारासंस्कारयोः, धारणेतराभिधानयोः, स्मरणास्मरण
-
१०
योश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययोर्भेदप्रसिद्धेः ।
सौगतस्यापि व्यावृत्तिभेदाद्भेदोपगमाददोषोयं तथाहि–नीलत्वमनीलत्वव्यावृत्तिः, क्षाणिकत्वमक्षणिकत्वव्या
-
वृत्तिरुच्यते तत्रानीलव्यावृत्तौ नीलव्यवसायस्तद्वासनाप्रबोधादुत्पन्नो न पुनरक्षणिकव्यावृत्तौ क्षणिकव्यवसाय
-
स्तत्र तद्वासनाप्रबोधाभावात् । न चानयोर्व्यावृत्त्योरभेदः संभवति व्यावर्त्यमानयोरभेदप्रसंगात् । न च तद्भेदाद्व
-
स्तुनो भेदः तस्य निरंशत्वात् अन्यथा अनवस्थाप्रसंगात् इति परे मन्यंते तेपि न सत्यवादिनः स्वभावभेदाभाबवे
१५
वस्तुनो व्यावृत्तिभेदासंभवात् । नीलस्वलक्षणं हि येन स्वभावेनानीलाद्व्यावृत्तं तैनैव यद्यक्षणिकाद्व्यावर्तेत
तदा नीलाक्षणिकयोरेकत्वापत्तेस्तद्व्यावृत्त्योरेकत्वप्रसंगः । स्वभावांतरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः
स्वलक्षस्य स्वभावभेदः कथं निराक्रियते ? । यदि पुनः स्वभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्त्या
कल्पित एवेति मतं ? तदा परिकल्पितस्वभावांतरकल्पनायामनवस्थानुषज्येत । तथाहि–अनीलस्वभावा
-
न्यव्यावृत्तिरपि स्वभावांतरेण अन्यव्यावृत्तिरूपेण वक्तव्या । सापि तदन्यव्यावृत्तिस्वभावांतरेण तथाविधे
-
२०
नेति न क्वचिद् व्यवतिष्ठते ।
कश्चिदाह — तत एव सकलविकल्पवाग्गोचरातीतं वस्तु विकल्पशब्दानां विषयस्यान्यव्यावृत्ति
-
रूपस्य अनाद्यविद्योपकल्पितस्य सर्वथा विचारा ऽसहत्वात् । विचारसहत्वे वा तदवस्तुत्वविरोधात् इति
सोपि न सम्यग्वादी दर्शनविषयस्याप्यवस्तुत्वप्रसंगात् तस्यापि शब्दविकल्पविषयवत् विचारासहत्वाविरो
-
धात् । तथाहि — नीलस्वलक्षणं सुगतेतरंजनदर्शनविषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन
२५
वा दृश्यं स्यात् ? तद्यद्येकेन स्वभावेन तदा यदेव सुगतदृश्यत्वं तदेवेतरजनदृश्यत्वमित्यायातं अशेषस्य
जगतः सुगतत्वं । यच्चेतरजनदृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगत
-
रहितमखिलं स्यात् । अथैतस्माद्दोषाद्विभ्यता नानास्वभावेन सुगतेतरजनदृश्यत्वं प्रतिपाद्यते तदा नील
-
स्वलक्षणस्य दृश्यस्वभावभेदः कथमपह्नुयेत ? न च दृश्यं रूपमनेकं कल्पितमिति शक्यं वक्तुं दृश्यस्य
कल्पितत्वविरोधात् । अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारार्पकत्वव्यावृत्तिरूपं नानादृष्टॄव्यपेक्षयाऽनेकं
३०
घटामटत्येव तदभावे नानादृष्टदर्शनविषयतां स्वलक्षणं नास्कंदेत् । न च परमार्थतो दर्शनं दृश्यविषयं
सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति तदप्यसत् वस्तुनः स्वा
-
कारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारम
-
र्पयति तेनैवेतरजनदर्शनाय स्वभावांतरेण वा ? यदि तेनैव तदा तदेव सुगतेतरजनदर्शनैकत्वमापनीप
-
द्यते तथा च सर्वस्य सुगतत्वं इतरजनत्वं वा दुर्निवारतामाचनीस्कंद्यते । स्वभावांतरेण स्वाकारार्पकत्वे
३५
स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षुण्ण्तया कथं प्रतिक्षिप्यते ? । यत्पुनः स्वाकारार्पकत्वमपि न
वस्तुनः परमार्थपथप्रस्थांयि समवस्थाप्यते स्वरूपमात्रविषयत्वात् सकलसंवेदनानामिति मतं तदपि
५६
दुरुपपादमेव तेषां वैयर्थ्यप्रसगांत् । ज्ञानं हि ज्ञेयप्रसिद्ध्यर्थं प्रेक्षावतामन्विष्यते प्रकाश्यप्रसिद्ध्यर्थं प्रदीपा
-
दिवत् । न पुनः स्वरूपप्रसिद्ध्यर्थं प्रदीपवदेवेति । बहिरर्थाविषयत्वे सकलसंवेदनानां कथमिव वैयर्थ्यं
न स्यात् ? निर्विषयस्वप्नादिसंवेदनानामपि सार्थकत्वप्रसंगात् स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र
भावात् । किं च सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमिव सुगतः सर्वदर्शीष्यते पृथग्जनवत् ।
०५
पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत ? स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् ।
यदि पुनर्वास्तवत्वं सकलवेदित्वं ताथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः संव्यवहरणात्
तदव्यहरणे तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलज्ञानरहितपुरुषोपदेशाद्विप्रलंभनशंकनप्रसंगात् ।
तदुक्तं —
ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये ।
१०
अज्ञोपदेशकरणे विप्रलंभनशांकिभिः ॥ १ ॥ इति
प्रतिपद्येत तथापि सुगतेतरव्यवहारसिद्धिः सुगतवदितरजनस्यापि संवृत्त्या सकलवेदित्वकल्प
-
नानुषंगात् । सकलपदार्थेभ्यः सुगतस्य संवेदनोदयात् सकलार्थज्ञता युक्ता कल्पयितुं न पुनरितर
-
जनस्य प्रतिनियतपदार्थादेव तद्वेदनोत्पत्तेरिति चेत् ? न सुगतज्ञानस्यांपि सकलपदार्थजन्यत्वासिद्धेः ।
समसमयवर्तिपदार्थजन्यत्वासंभवात् । यदि पुनरनाद्यतीतपदार्थेभ्यो भविष्यदनंतार्थेभ्यः सांप्रतिकार्थे
-
१५
भ्यश्च सकलेभ्यः सुगतसंवेदनस्योत्पत्तिः अखिलाविद्यातृष्णाविनाशादुपपद्यत एव अस्मदादिसंवेद
-
नाद्विशिष्टत्वात्तस्येति मतं ? तदा किमेकेन स्वभावेन कालत्रयवर्तिपदार्थैः सुगतविज्ञानमुत्पद्यते
नानास्वभावैर्वा ? यद्येकेन स्वभावेन, एकेनार्थेन सुगतज्ञानमुपजन्यते तेनैव सकलपदार्थैः तदा
सकलपदार्थानामेकरूपतापत्तिः । सुगतविज्ञानस्य वा तदेकपदार्थजन्यत्वसिद्धिरिति नेतरजन
-
संवेदनात्तस्य विशेषः सिद्ध्येत् । अथान्येन स्वभावेनैकार्थः सुगतज्ञानमुपजनयति पदार्थांतराणि तु स्वभावां
-
२०
तरैस्तदुपजनयंति इति मतिर्भवतां तर्हि सुगतज्ञानमनंतस्वभावमेकमायातं । तद्वत्सकलं वस्तु कथमनंतात्म
-
कतां न स्वीकुर्यादिति चिंतनीयं । एकस्यनेकस्वभावत्वविरोधान्नैकमनेकात्मकमिति चेत् ? कथमिदानीं
सुगतविज्ञानमेकपदार्थजन्यं नानारूपतां विभर्ति ? । यदि पुनरतज्जन्यरूपव्यावृत्त्या तज्जन्यरूपपरिकल्पनान्न
तत्त्वतः सुगतसंवेदनमनेकरूपताक्रांतमित्याकूतं ? तदा न परमार्थतः सुद्धोदनितनयविज्ञानमखिलपदार्थ
-
जन्यं, इति कुतः पृथग्जनसंवेदनादस्य विशेषः समवतिष्ठते ? । ततः सुगतविज्ञानदृश्यतामितरजनविज्ञानविष
-
२५
यतां च एकस्य नीलादिस्वलक्षणस्यानेकाकारामपि स्वयमुररीकुर्वता नीलस्वलक्षणकादिरूपतापि दृश्यादृश्य
-
त्वलक्षणा स्वीकर्तव्या, तथा च नीलादौ दर्शनमन्यद्व्यवसायात्मकं संस्कारस्मरणकारणं तद्विपरीदर्शनादव
-
बोद्धव्यं, इति न प्रत्यक्षप्रसिद्धं निर्व्यवसायात्मकत्वमध्यक्षज्ञानस्य । नाप्यनुमानप्रसिद्धं गोदर्शनसमयेऽश्वक
-
ल्पनावत् गोदर्शनस्यापि व्यवसायात्मकत्वोपपत्तेः । पुनर्विकल्पयतः तदनुस्मरणस्यान्यथानुपपत्तेः ।
तथा हि यन्निर्व्यवसायात्मकं ज्ञानं तन्नोत्तरकालमनुस्मरणजननसमर्थं यथा पराभिमतं स्वर्गप्रापणशक्त्यादि
-
३०
दर्शनं तथा चाश्वविकल्पकाले गोदर्शनमिति तदनुस्मरणजननसमर्थं न स्यात् भवति च पुनर्विकल्पयत
-
स्तदनुस्मरणं तस्माद्व्यवसायात्मकमिति निश्चयः । तदेवं व्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानं साधनं
न व्यभिचरति कस्य चिदपि सम्यग्ज्ञानस्याव्यवसायात्मकत्वप्रमाणबाधितत्वादिति स्थितं ।
ये त्वाहुः — स्वार्थव्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानस्य हेतोर्न प्रयोजकत्वं सर्वस्य सम्यग्ज्ञानस्या
-
र्थव्यवसाययमंतरणैव सम्यग्ज्ञानत्वसिद्धेः । तथा हि — विवादाध्यासितं सम्यग्ज्ञानं नार्थव्यवसायात्मकं
३५
ज्ञानत्वात्, स्वव्यवसायात्मकत्वात् । यद्ज्ञानं स्वव्यवसायात्मकं वा तन्नार्थव्यवसायात्मकं यथा स्वप्नादिज्ञानं तथा
च विपदावन्नं ज्ञानं जिनपतिमतानुसारिभः, अभ्यनुज्ञातं तस्मान्नार्थव्यवसायात्मकमिति तेपि न प्रातीति
-
५७
कावदिनः जागृद्दशाभाविनः समीचीनविज्ञानस्यार्थव्यवसायात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्वे
-
ततोऽर्थे प्रवृत्त्यभावप्रसंगात् । प्रतीयते च सम्यग्ज्ञानादर्थे प्रवृत्तिरविसंवादिनी तस्मादर्थव्यवसायात्मकं
तदर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिथ्याज्ञानादप्यर्थे प्रवृत्तिदर्शनादनेकांतः ? इति चेन्न तस्याः प्रवृत्त्याभास
-
त्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थं प्रापयितुं समर्था हि संयक् प्रवृत्तिः सा च मिथ्या
-
०५
ज्ञानान्नोपपद्यत इति न व्यभिचारः । यच्चार्थव्यवसायात्मकत्वनिराकरणप्रवणमनुमानं तत्स्वार्थं व्यवस्यति वा
न वा ? प्रथमविकल्पे तेनैवानैकांतिकं साधनमापद्येत तस्य ज्ञानत्वे स्वव्यवसायात्मकत्वेऽपि स्वसाध्यार्थ
-
व्यवसायात्मकत्वसिद्धेः । द्वितीयविकल्पेऽपि नातोऽनुमानादिष्टसिद्धिः स्वसाध्यार्थव्यवसायात्मकत्वात् अनु
-
मानाभासवत् । ततः किं बहुना सर्वस्य किंचिदिष्टं साधयतः स्वयमनिष्टं वा दूषयतः कुतश्चित्प्रमाणात्
तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यंभावि तस्यार्थाव्यवसायात्मकत्वे स्वेष्टानिष्टसाधनदूषणानुपपत्तेः । पर
-
१०
प्रसिद्ध्यार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत् ? तर्हि परं प्रतिपाद्यसे वा न वा? यदि न
प्रतिपाद्यसे कथं परप्रासिद्ध्या क्वचिदभ्युनुज्ञानं ? तं न प्रतिपाद्यसे तत्प्रसिद्ध्या च किंचिदभ्यनुजानासीति
कथमनुन्मत्तः ? । अथ परं प्रतिपाद्यसे तर्हि यतः प्रमाणात्तत्प्रतिपत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्धं
तस्याव्यवसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमांतरात्परप्रतिपत्तिरिति मतं तदाप्य
-
निवृत्तः पर्यनुयोगः तस्यापि पराभ्युपगमांतरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् ।
१५
स्यान्मतं न बहिरर्थाः परमार्थतः संति तत्प्रत्ययानां निरालंबनत्वात् स्वप्नप्रत्ययवत् सतानांतरवि
-
ज्ञानानामपि असत्त्वात् । तत्र स्वरूपमात्रव्यवसायात्मकमेव विज्ञानमिति तदप्यसारं तथाहि — सर्वप्रत्य
-
यानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्ध्यति तस्य तद्विषयत्वात् । विवादापन्नाः प्रत्यया निरालंबना एव
प्रत्ययत्वात् स्वप्नेंद्रिजालादिवदिति अनुमानान्निरालंवनत्वसिद्धिंरित्यपि मिथ्या स्वसंतानप्रत्ययेन व्यभिचारात् ।
तस्यापि संतानांतरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा ? प्रथमपक्षे तेनैवा
-
२०
नैकांतिकत्वं प्रत्ययत्वं । द्वितीयकल्पनायां नातो निरालंबनत्वसिद्धिः । परब्रह्मस्वरूपसिद्धिरेव सकलभेदप्रत्ययानां
निरालंबनत्वसिद्धिः? इत्यपि न व्यवतिष्ठते परब्रह्मण एवाप्रसिद्धेः । तद्धि स्वतो वा सिद्ध्येत् परतो वा ?
न तावत्स्वत एव विप्रतिपत्त्यभावप्रसंगात् । परतश्चेदनुमानादागमाद्वा ? यद्यनुमानात् किमत्रानुमानमित्यभि
-
धीयतां । विवादापन्नोऽर्थः प्रतिभासांतः प्रविष्ट एव प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रति
-
भासांतः प्रविष्ट एव दृष्टः यथा प्रतिभासस्यात्मा प्रतिभासमानश्च सकलोऽर्थश्चेतनाचेतनात्मको विवादापन्नः
२५
तस्मात्प्रतिभासांतःप्रविष्ठ एवेत्यनुमानं न सम्यक् धर्मि
-
हेतु
-
दृष्टांतानां प्रतिभासांतःप्रविष्टत्वे साध्यांतःपाति
-
त्वेन अनुमानोत्थानायोगात् । प्रतिभासांतः प्रविष्टत्वाभावे तैरेवेति हेतोर्व्यभिचारात् । यदि पुनरनाद्यवि
-
द्यावासनावलाद्धर्मि
-
हेतु
-
दृष्टांताः प्रतिभासबहिर्भूता इव निश्चीयंते प्रतिपाद्यप्रातिपादकसभ्यसभापतिजनवत् ।
ततोऽनुमानमपि संभवत्येव सकलानाद्यविद्याविलासविलये तु प्रतिभासांतःप्रविष्टमखिलं प्रतिभासमेवेति विप्र
-
तिपत्त्यसंभवात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेर्न किंचिदनुमानोपन्यासफलं । स्व
-
३०
यमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकारवच्छिन्नस्वरूपे निर्व्यभिचारे सकलकालावस्थाव्यापि
-
नि–अनुमानाप्रयोगात् इति समभिधीयते तदा साप्यनाद्यविद्या यदि प्रतिभासांतःप्रविष्टा तदाविद्यैवा कथमसंतं
धर्मिदृष्टांतादिभेदमुपदर्शयेत् । अथ प्रतिभासबहिर्भूतास्तदा साऽप्रतिभासमाना प्रतिभासमाना वा ? न ताव
-
दप्रतिभासमाना भेदे प्रतिभासरूपत्वात् तस्याः । प्रतिभासमाना चेत् तयैव हेतोर्व्यभिचारः प्रतिभास
-
बहिर्भूतत्वेऽपि तस्याः प्रतिभासमानत्वात् ।
३५
स्यादाकूतं — न प्रतिभासमाना नाप्रतिभासमाना न प्रतिभासबहिर्भूता नापि प्रतिभासांतःप्रविष्टा
नैक नचानेका न नित्या नाप्यनित्या न व्यभिचारिणी नाप्यव्यभिचारिणी सर्वथा विचार्यमाणायोगात् ।
सकलविचारातिक्रांतस्वरूपैव रूपांतराभावात् अविद्यया नीरूपतालक्षणत्वात् इति । तदेतदप्यविद्यावि
-
जृंभितमेव तथाविधनीरूपतास्वभावायाः केन चिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तेः ।
प्रतिमासमानायास्तु तथावचने कथमसौ सर्वथा नीरूपा स्यात् ? येन स्वरूपेण यः प्रतिभासते तस्यैव
५८
तद्रूपत्वात् । तथा सकलविचारातिक्रांततया किमसौ विचारगोचरा अविचारगोचरा वा स्यात् ? प्रथमकल्प
-
नायां सकलविचारातिक्रांततया विचारानतिक्रांतत्वाभ्गुपगमव्याघातः । द्वितीयकल्पनायां न सकलविचारा
-
तिक्रांतता व्यवतिष्ठते सकलविचारातिक्रांततायामपि तस्यास्तया व्यवस्थाने सर्वथैकानेकरूपताया अपि
व्यवसथानप्रसंगात् । तस्मात्सत्स्वभावैवाविद्याभ्युपगंतव्या विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धेः
०५
कुतः परमब्रह्मणोऽनुमानात्सिद्धिः ? । एतेनोपनिषद्वाक्यात्परमपुरुषसिद्धिः प्रत्याख्याता । सर्वं वै खल्विदं
ब्रह्मेत्यादिवाक्यस्य परमात्मनोंऽर्थांतरभावे द्वैतप्रसक्तेरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूषण
-
प्रसंगात् ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा येन सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्य
-
वसायात्मकं–अर्थाभावादिति वदन् अवधेयवचनः स्यात् ।
यत्तु स्वप्नज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतं तस्य साक्षात्परंपरया वार्थव्यवसायात्म
-
१०
कत्वाघटनात् । द्विविधो हि स्वाप्नः सत्योऽसत्यश्च तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित्सा
-
क्षाद्व्यवसायात्मकः प्रसिद्धः स्वप्नदशायां यद्देशकालाकारतयार्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देश
-
कालाकारतयैव तस्य व्यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परंपरयार्थ–व्यवसायी स्वप्नाध्यायनिगदि
-
तार्थप्रापकत्वात् । तदुक्तं —
यस्तु पश्यति
१
रात्र्यंते
१
राजानं कुजरं हयं ।
१५
सुवर्णं वृषभं गां च कुटंबं तस्य वर्धते ॥ १ ॥
इति कुटुंबवर्धनाविनाभाविनः स्वप्ने राजादिदर्शनस्य कथमर्थनिश्चायकता न स्यात् ? पावकाविना
-
भाविधूमदर्शनवत् । दृष्टार्थाव्यवसायात्मकत्वान्न स्वप्नबोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि बोधोऽर्थ
-
व्यवसायी माभूत । तत तद्वत् । अनुमानबाधोऽनुमितार्थव्यवसायी संभवतीति वचने स्वप्नागमगम्या
-
र्थव्यवसायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते ? । कदाचिद्व्यभिचारदर्शनान्नैवमभ्युपगमः कर्तुं सुशक्य
२०
इति चेन्न देशकालाकारविशेषं यथार्थागमोदितमपेक्ष्यमाणस्य क्वचित्कदाचित्कथंचिद्व्यभिचाराभावात् ।
तदपेक्षाविकलस्तु न समीचीनः स्वप्नः तस्य स्वप्नाभासत्वात् । प्रतिपत्तुरपराधाच्च व्यभिचारः संभाव्यते न
पुनरनपराधात् यथा चाधूमः धूमबुद्ध्या प्रतिपद्यमानस्य ततः पावकानुमानं व्यभिचारीति प्रतिपत्तुरेवापराधो
न धूमस्य धीमद्भिरभिधीयते । तथैवास्वप्नं स्वप्नबुद्ध्याध्यवस्य ततस्तद्विषयाध्यवसायो न व्यभिचरतीति न
स्वप्नागमस्यापराधः प्रतिपत्तेरेवापराधात् । यः पुनरसत्यः स्वप्नः पित्ताद्युद्रेकजनितः स किमर्थसामान्यं
२५
व्यभिचरति अर्थविशेषं वा ? न तावदर्थसामान्यं देशकालाकारविशेषाणामेव व्यभिचारात् सर्वत्र सर्वदा
सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थविशेषेषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुत्पत्तेः न हि किंचिद्
ज्ञानं सत्तामात्रं व्यभिचरति तस्यानुत्पत्तिप्रसक्तेः ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेः न
किंचिद् ज्ञानमर्थाव्यवसायात्मकं । विशेषं तु यत एव व्यभिचरति तत एव असत्यः कथमन्यथा सत्येतरव्य
-
वस्थितिः स्यात् ? तस्याः स्वार्थविशेषप्राप्त्यप्राप्तिनिमित्तत्वादित्यलं प्रसंगेन स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञान
-
३०
स्यार्थव्यवसायात्मकत्वप्रसिद्धेः ।
अत्रापरः प्राह — सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यवसायात्मकं स्वात्मनि क्रियाविरोधात् एकस्य
ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं व्यवस्यति कर्मात्मनाकारेणेति वक्तुं युक्तं
ताभ्यं कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम अतिप्रसंगात् ।
तयोर्वाकारयोर्ज्ञानादभेदे भेदप्रसंगात् नह्यभिन्नादभिन्नयोर्भेदःसंभाव्यते अतिप्रसंगात् । एवं ताभ्यां विज्ञानस्य
३५
भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति परात्मना परात्मन एव व्यवसायात् तौ चाकारौ यदि ज्ञानस्या
-
त्मानौ तदा ज्ञानं व्यवस्यति वा न वा ? प्रथमपक्षे किमेकेनाकारांतरेण द्वाभ्यं वाऽकारांतराभ्यां तत्तौ व्यवस्येत ।
न तावदेकेनाकारांतरेण विरोधात् । द्वाम्यां व्यवस्यति इति चेत् तयोरप्याकारांतरयोर्ज्ञानादभेदो भेदो वा स्यात्
१ स्वप्नोते इति पाठांतरं २ अर्थव्यवसायः पाठान्तरः
५९
इत्यनिवृत्तः पर्यनुयोगः — अनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेदः कथंचिदभेदः इत्युभयपक्षालंबनमपि अने
-
नैवापास्तं पक्षद्वयनिक्षिप्तदोषानुषंगात् पक्षांतराऽसंभवाच्चेति सोऽपि न न्यायकुशलः प्रतीत्यतिलंघनात् ।
लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यवसायित्वेन प्रतीतिः सिद्धा । नचेयं मिथ्या बाधकाभावात् ।
स्वात्मानि क्रियाविरोधो बाधक इति चेत् का पुनःक्रिया ? किमुत्पत्तिर्ज्ञाप्तिर्वा ? यद्युत्पत्तिः सा स्वात्मनि विरु
-
०५
ध्यतां । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयति इति ।
नैकं स्वस्मात्प्रजायते
इति समंतभद्रस्वामिभिरभिधानात् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा तदात्मनैव ज्ञानस्य स्वका
-
रणकलापादुत्पादात् । प्रकाशात्मनैव प्रकाशस्य प्रदीपादेः । न हि स्वकारणसामिग्रीतः प्रदीपादिप्रकाशः समुप
-
जायमानः स्वप्रकाशात्मना नोत्पाद्यत इति प्रातीतिकं तत्स्वरूपप्रकाशेन प्रकाशांतरापेक्षाप्रसंगात् । नचायं
१०
प्रदीपाद्यालोकः कलशादिज्ञानं स्वरूपज्ञानं च चक्षुषोजनयतः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको
न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशत्वं तच्च कलशादाविव स्वात्मन्यपि दीपादेर्विद्यत एवेति
सिद्धा स्वात्मनि प्रकाशनक्रिया । तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुध्यतां । एतेन "ज्ञानं
न स्वप्रकाशकं, अर्थप्रकाशकत्वादित्यनुमाममापस्तं प्रदीपादिना हेतोरनेकांतात् । प्रदीपादिः–उपचारात्
प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाऽप्रकाशकत्वात् साधनशून्यो दृष्टांतः
१५
ज्ञानस्यैव परमार्थतोऽर्थप्रकाशत्वोपपत्तेः । ततो "ज्ञानं स्वप्रकाशकं, अर्थप्रकाशकत्वात् यत्तु न स्वप्रकाशकं
तन्नार्थप्रकाशकं दृष्टं यथा कुड्यादिकं । अर्थप्रकाशकं च ज्ञानं तस्मात्स्वप्रकाशकमिति केवलव्यतिरेक्यनुमान
मविनाभावनियमनिश्चयलक्षणाद्धेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादिभिः परमार्थतोऽर्थप्रकाश
-
कत्वासिद्धेस्तेन साधनस्यानेकांतिकतानुपपत्तेः । कुड्यादेरपि स्वाविनाभाविपदार्थांतरप्रकाशकत्वाद्धूमादिवत्
साधनाव्यतिरेको दृष्टांत इत्यपि समुत्सारितमनेन तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः अन्यथा तज्जनितवि
-
२०
ज्ञानवैयर्थ्यापत्तेः । यत्पुर्ज्ञानमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषा
नुषंगो बाधकं इति मतं तदपि न सुंदरतरं तथाप्रतीतिसिद्धत्वात् । जात्यंतरत्वादाकारवतोर्भेदाभेदं प्रत्यने
-
कांतात् । कर्मकरणाकारयोर्ज्ञानांत् कथंचिदभेदः कथंचिद्भेदः इति नैकांतेन भेदाभेदपक्षोपक्षिप्तदो
-
षोपनिपातः स्याद्वादिनां संलक्ष्यते । नच कथंचिदित्यंधपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिदभेदशब्दे
-
नाभिधानात् । कर्मकरणात्मना च भेद इति कथंचिद्भेदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तद
-
२५
भेद इति ज्ञानभेदाभेदस्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः । कर्मकरणाकारतया च भेद इति कर्मकरणा
-
कारावेव भेदस्य द्रव्यव्यतिरिक्तस्याकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो
येन च भेदस्तौ ज्ञानात्किमभिन्नौ भिन्नौ वा इति न पर्यनुयोगस्यावकाशोऽस्ति ययाऽनवस्था महीयसी संप्र
-
सज्येत । नच भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति करणस्य भिन्नकर्तृकस्यापि दर्शनात्
भिन्नकर्तृकरणवत् । यथैव हि देवदत्तः परशुना छिनत्ति काष्टमित्यत्र देवदत्तात्कर्तुर्भिन्नं परशुलक्षणं करण
-
३०
मुपलभ्यते । तथाग्निर्दहति दहनात्मनेत्यत्राग्नेः कर्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एवं दहनात्मा
-
प्युष्णलक्षणः स चाग्नेर्गुणिनो भिन्न एवेति न मंतव्यं सर्वथा तयोर्विरोधे गुणगुणीभावविरोधात् सह्यविं
-
ध्यवत् । गुणिनि गुणस्य समवायात् तयोस्तद्भाव इत्यपि न सत्यं समवायस्य कथंचिदविश्वग्भावात् अन्यत्य
विचारासहत्वात् । समित्येकीभावेनावायनमवगमनं हि समवायः तच्च समवायनं कर्मस्थं समवेयमानत्वं
समवायितादात्म्यं प्रतीयते, कर्तृस्थं पुनः समवायनं समवायकत्वं प्रमातुस्तादात्म्येन समवायिनोर्ग्राहकत्वं
३५
न चान्या गतिरस्ति क्रियायाः कर्तृकर्मस्थतयैव प्रतिपादनात् तत्र —
कर्मस्था क्रिया कर्मणोऽनन्या कर्तृस्था कर्तुरनन्या
इति वचनात् । ततो नाभिन्नकर्तृकं करणमप्रसिद्धं । नापि कर्म तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्तृ
-
कस्यापि प्रतीतेः । यथैव हि कटं करोतीत्यत्र कर्तुर्भिन्न कर्मानुमन्यते । तथा प्रदीपः प्रकाशयत्यात्मानमि
-
६०
त्यत्र कर्तुरभिन्नं कर्म संप्रतीयत एव । न हि प्रदीपात्मा प्रदीपाद्भिन्न एव प्रदीपस्याप्रदीपत्वप्रसंगात् घटवत् ।
प्रदीपे प्रदीपात्मनोभिन्नस्यापि समवायात् प्रदीपत्वसिद्धिरितिचेत्, न अप्रदीपेऽपि घटादौ तत्समवायप्रसं
-
गात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत् ? स प्रत्यासत्तिविशेषोऽत्र कोऽ
-
न्यत्र कथंचित्तादात्म्यात् ? ततः प्रदीपादभिन्न एव प्रदीपात्मा कर्मेति सिद्धमभिन्नकर्तृकं कर्म । तथा च
०५
ज्ञानात्मात्मानमात्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसाया
-
त्मकं ज्ञानं न स्यात् ।
स्यान्मतं — अर्थज्ञानं ज्ञानांतरवेद्यं प्रमेयत्वात् घटादिवदित्यनुमानं स्वार्थव्यवसायात्मकत्वप्रतीतेर्बा
-
धकमिति तदपि फल्गुप्रायं महेश्वरार्थज्ञानेन हेतोर्व्यभिचारात् । तस्य ज्ञानांतरावेद्यत्वेऽपि प्रमेयत्वात् ।
यदि पुनरीश्वरार्थज्ञानमपि ज्ञानांतरप्रत्यक्षं–असंवेद्यत्वात् इति मितिस्तदा तदप्यर्थज्ञानज्ञानमीश्वरस्य प्रत्य
-
१०
क्षमप्रत्यक्षं वा ? यदि प्रत्यक्षं तदा स्वतो ज्ञानांतराद्वा ? । स्वतश्चेत् प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु
किं विज्ञानांतरेण ? । यदि तु ज्ञानांतरात्प्रत्यक्षं तदपीष्यते तदा तदपि ज्ञानांतरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्षं
वेति स एव पर्यनुयोगो ऽनवस्थानं च दुःशक्यं परिहर्तुं । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य
सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षं स्वयमप्रत्यक्षेण
ज्ञानांतरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मांतरज्ञानेनापि कस्यचित्साक्षात्करणं
१५
न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्क
-
रणं संगच्छेत ततः सर्वस्य सर्वार्थवेदित्वासिद्धेः–ईश्वरानीश्वरविभागाभावो भूयते । यदा चार्थज्ञानमपि प्रथम
मीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सकलोऽर्थः प्रत्यक्षं कथं समर्थ्येत
तेन सकलप्राणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिज्ज्ञ
-
त्वं सर्वस्य वा सर्वज्ञत्वमनुज्ञातव्यं न्यायवलायातत्वात् । तथाभ्यनुज्ञाने वा नैयायिकस्य नैयायिकत्व
-
२०
विरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षात्कुरुते नित्यैकरूपत्वत्,
क्रमभाव्यनेकानित्यज्ञानोपगमे महेश्वरस्य सकृत्सर्वार्थसाक्षात्करणविधानात् सर्वज्ञत्वाव्यवस्थितेरिति मतं
तदा कथमनेनैवानैकांतिको हेतुर्न स्यात् । स्यान्मतिरेषा युष्माकमस्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानांतरवेद्यत्वं
प्रमेयत्वेन हेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः तस्यास्मदादिज्ञानाद्विशिष्टत्वात् । न हि विशिष्टे दृष्टं धर्म
-
मविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते इति सापि न परीक्षासहा ज्ञानांतरस्यापि प्रज्ञानेन वेद्यत्वेऽनवस्था
-
२५
नुषंगात् । तस्य ज्ञानांतरेण वेद्यत्वे तेनैव हेतोर्व्यभिचारः । न च तदप्रमेयमेव सर्वस्येति वक्तुं शक्यं
प्रतिपत्तुः प्रमाणवलात्तद्व्यवस्थानविरोधात् । सर्वज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् ।
ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानांतरप्रत्यक्षं प्रमेयत्वाद्धेतोः साधयितुं शक्यं, ज्ञानस्य स्वार्थव्यवसा
-
यात्मनः प्रत्यक्षसिद्धत्वाच्च । प्रत्यक्षबधितपक्षतया हेतोः कालात्ययापदिष्टत्वप्रसंगाच्च । एतेनार्थज्ञानेन
ज्ञानांतरवेद्ये साध्ये कालत्रयत्रिलोकवर्तिपुरुषपरिषत्संप्रयुक्तसकलहेतुनिकरस्य कालात्ययापदिष्टत्वं व्यख्यातं ।
३०
तदनेन यदुक्तमेकात्मसमवेतानंतरविज्ञानग्राह्यमर्थज्ञानमिति तत्समुत्सारितं ।
योऽप्याह न स्वार्थव्यवसायात्मकं ज्ञानं परोक्षत्वात् अर्थस्यैव प्रत्यक्षत्वात् । अप्रत्यक्षा नो बुद्धिः
प्रत्यक्षोऽर्थः । स हि बहिर्देशसंबद्धः प्रत्यक्षमनुभूयते । ज्ञाते त्वर्थे अनुमानादवगच्छति बुद्धिरिति सावरभाष्ये
श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्षत्वे कर्मत्वप्रसंगात् ज्ञानांतरस्य करणस्यावश्यं परिकल्पनीयत्वात् ।
तस्य चाप्रत्यक्षत्वे प्रथमे कोऽपरितोषः ? । प्रत्यक्षत्वे तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्यविज्ञानस्य
३५
परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञानं
प्रत्यक्षं परीक्षकैरनुमंतव्यमिति सोऽपि न यथार्थमीमांसकतामनुसर्तुमुत्सहते ज्ञानस्याप्रत्यक्षत्वे सर्वार्थस्य
प्रत्यक्षत्वविरोधात् । संतानांतरज्ञानेनापि सर्वस्यार्थस्य प्रत्यक्षत्वप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थ
-
प्रत्यक्षः स्यात् ।
६१
स्यादाकूतं भवतां यस्यात्मनोऽर्थे परिच्छित्तिः प्रदुर्भवति तस्य ज्ञानेन सोऽर्थः प्रतीयते न सर्वस्य
ज्ञानेन सर्वोऽर्थ प्रत्यक्षः सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तेरसंभवात् इति तदपि स्वगृहमान्यं मीमांस
-
कानां क्वचिदर्थपरिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा ज्ञानधर्मकत्वात् ।
कर्मत्वेनाप्रतीतिश्च करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः । प्रत्यक्षत्वे करण
०५
ज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् । प्रत्यक्षत्वमस्तु करणत्वेन प्रतीयमानं करण
-
ज्ञानं करणमेव स्यात् । न प्रत्यक्षं कर्मलक्षणमिति चेत् तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना
क्रियेव स्यात् न प्रत्यक्षा कर्मत्वाभादादिति प्रतिपत्तव्यं । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते
तदा सार्थप्राकट्यमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे
ऽर्थज्ञाने संतानांतरवर्तिनिकरस्य चिदर्थस्य प्राकट्यं घटते प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थ
१०
परिच्छेदकस्य प्राकाट्यादर्थे प्राकट्यं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकस्वरूपायाः कर्तृस्थ
-
याः क्रियाया कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः
क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धेः । करणज्ञानधर्मतानुच्छित्तेर्नेष्यते एव चक्षुषा रूपं पश्यति
देवदत्त इत्यत्र चक्षुषः प्राकट्याभावेऽपि अर्थप्राकट्यं सुघटमेव लोकेऽतींद्रियस्यापि करणत्वसिद्धेः इति
केचित् समभ्यमंसत मीमांसकाः तेऽप्यंधसर्पविलप्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशंति, स्याद्वादिभिरपि
१५
स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव
स्वतंत्रस्य ज्ञानत्वोपपत्तेः, स हि जानातीति ज्ञानमिति व्यपदिश्यते । तद्धर्मस्तु परिच्छित्तिः फलज्ञानं कथंचि
-
त्प्रमाणाद्भिन्नमभिधीयते । यत्तु परोक्षमतींद्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेंद्रियतया
करणमुपपयोगलक्षणं प्रोच्यते
"लब्ध्युपयोगौ भावेंद्रियं"
इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः ।
अर्थग्रहणव्यापार उपयोगः इति व्याख्यानात् केवलं तस्य कथंचिदात्मनोंऽनर्थांतरभावादात्मतया प्रत्यक्ष
-
२०
त्वोपपत्तेः अप्रत्यक्षतैकांतो निरस्यते इति प्रातीतिकं परीक्षकैरनुमंताव्यं । ये तु मन्यंते नात्मा प्रत्यक्षः कर्म
-
त्वेनाप्रतीयमानत्वात् करणज्ञानवदिति तेषां फलज्ञानहेतोर्व्यभिचारः कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य
प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासमानात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रति
भासमानत्वात् प्रत्यक्षत्वमस्तु । तच्च फलज्ञानं–आत्मनोऽर्थांतरभूतमनर्थांतरभूतमुभयं वा ? न तावत्स
वर्थार्थांतरभूतमनर्थांतरभूतं वा मतांतरप्रवेशानुषंगात् । नाप्युभयं पक्षद्वयनिगदितदूषणानुषक्ते । कथं
-
२५
चिदनर्थांतरत्वे तु फलज्ञानादात्मनः कथंचिप्रत्यक्षत्वमनिवार्यं प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकांतविरो
-
धात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तं । यस्य तु करणज्ञानवत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष
इति मतं तस्यापि पुरुषात्प्रत्यक्षात् कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्क
-
थमपक्रियते ? ततो न भट्टमतमपि विचारणां प्रांचति इति स्वव्यावसायात्मकं सम्यग्ज्ञानं, अर्थपरिच्छित्तिनि
-
मित्तत्वात् आत्मवदिति व्यवतिष्टते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मंतव्यं तेषामुपचारतोऽर्थ
३०
परिच्छित्तिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् ।
अत्रापरः कपिलमतानुसारी प्राह–न सम्यग्ज्ञानं स्वव्यवसायात्मकं, अचेतनत्वात् घटादिवनत् न तच्चेत
नमनित्यत्वात् । तद्वदनित्यं चोत्पत्तिनिमित्तत्वात् विद्युदादिवत् । यत्तु स्वसंवेद्यं तच्चेतनं नित्यमनुत्पत्तिधर्मकं
च सिद्धं यथा पुरुषतत्त्वमिति सोऽपि न न्यायवेदी व्यभिचारिसाधनाभिधानात् । उत्पत्तिमत्त्वं हि तावद
-
नित्यतां व्यभिचरति निर्वाणस्यानंतस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनत्वं व्यभिचरति पुरुषभोगस्य
३५
कादाचित्कत्वस्य बुद्ध्यध्यवसितार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्वं तु सम्यग्ज्ञानस्याशुद्धमेव
तस्मादचेतनाद्विवेकख्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वार्तं शारीरादेरपि चेतनत्वसंगात् ।
ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत् स कोऽन्यः कथंचित्तादात्म्यात् । ततश्चेतनात्मकमेव ज्ञानमनुमंतव्य
-
मित्यचेतनमसिद्धं ।
६२
यदप्यभ्यधायि सांख्यैः–ज्ञानमचेतं प्रधानपरिणामत्वात् महाभूतवदिति तदपि न श्रेयः पक्षस्य स्वसं
-
वेदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितः पक्षः
परं प्रति चेतनं ज्ञानं स्वसंवेद्यत्वात् पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यं यथा कलशादीति व्यति
-
रेकनिश्चयात् नेदमनुमानमगमकं । ज्ञानस्य स्वसंवेद्यत्वमसिद्धं ? इति चेन्न तस्यास्वसंवेद्यत्वे अर्थसंवेदनवि
-
०५
रोधादित्युक्तप्रायं । एतेन न स्वसंवेद्यं विज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पित्तादिवदिति वदंश्चा
-
र्वाकः प्रतिक्षिप्तः । न चेदं साधनं सिद्धं भूतविशेषपरिणामत्वासिद्धेः संवेदनस्य बाह्येंद्रियप्रत्यक्षत्वप्रसंगात्
गंधादिवत् । सूक्ष्मभूतविशेषपरिणामत्वात् न बाह्येंद्रिपप्रत्यक्षं ज्ञानमिति चेत् स तर्हि सूक्ष्मविशेषः
स्पर्शादिभिः परिवर्जितः स्वयमस्पर्शादिमान् संवेदनोपादानहेतुः सर्वदा बाह्येंद्रियाविषयः कथमात्मैव नामां
-
तरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भूतचतुष्टयविलक्षणत्वात् तत्त्वांतरापत्तिरदृष्टपरिकल्पना च
१०
प्रसज्येत तथात्मनः प्रमाणसिद्धत्वात् तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्टते स्वव्यवसा
-
यात्मकं सम्यग्ज्ञानं चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात् यत्तु न स्वव्यवसायात्मकं न तत्तथा यथा
घटः तथा च सम्यग्ज्ञानं तस्मात्स्वव्यवसायात्मकं इति सम्यग्ज्ञानलक्षणं प्रमाणसिद्धं ।
ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वात् न तत्त्वतः किंचित्प्रमाणं संभवति इति कस्य लक्षणमभि
-
धीयते लक्ष्यानुवादपूर्वकत्वाल्लक्षणाभिधानस्य । प्रसिद्धं लक्ष्यमनूद्य लक्षणं विधीयत इति लक्ष्यलक्षणभाववादि
-
१५
भिरभ्युपगमात् इति केचिदमंसत तेषां तत्त्वोपप्लवमात्रमिष्टं साधयितुं तदा साधनमभ्युपगंतव्यं । तच्च प्रमा
-
णमेव भवति तथा चेदमभिधीयते–तत्त्वोपप्लववादिनोऽप्यस्ति प्रमाणं, इष्टसाधनान्यथानुपपत्तेः । प्रमाणा
-
भावेऽपीष्टसिद्धौ सर्वं सर्वस्य यथेष्टं सिद्ध्येत् इत्यनुपप्लुततत्त्वसिद्धिरपि किं न स्यात् सर्वथा विशेषाभावात् ।
स्यादाकूतं न स्वेष्टं विधिप्राधान्येन साध्यते येन तत्त्वोपप्लवं साधयतः प्रमाणसिद्धिः प्रसज्येत । किं
तर्हि ? पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात् परीक्षकजनयतस्तत्त्वोपप्लवमनुसरति गत्यंतराभावात् ।
२०
तथाहि — प्रमाणत्वं कस्य चित्किमदुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामर्थ्येन वा अर्थक्रिया
-
प्राप्तिनिमित्तत्वेन वा व्यवतिष्टते ? न तावददुष्टजन्यत्वेन तस्य प्रत्यक्षतो गृहीतुमशक्तेः करणकुशलादेरपि
प्रमाणकारणत्वात् । तस्य चातींद्रियत्वोपगमात् । न चानुमानमदुष्टं कारणमुन्नेतुं समर्थं तदविनाभाविलिं
-
गाभावात् । सत्यज्ञानं लिंगमिति चेत् न परस्पराश्रयणात् । सति ज्ञानस्य सत्यत्वे तत्कारणस्यादुष्टत्व
-
निश्चयात् । तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः । यदि पुनर्बाधारहितत्वेन संवेदनस्य प्रामाण्यं साध्यते
२५
तदा किं कदाचित्क्वचिद्बाधकानुत्पत्त्या तत्सिद्धिराहोस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुर्बाधकानुत्प
-
त्तेरिति पक्षद्वयमवतरति । प्रथमपक्षे मरीचिकाचक्रे सलिलसंवेदनमपि प्रमाणमसज्यते दूरस्थितस्य त
-
त्संवेदनकाले कस्य चित्प्रतिपत्तुर्बाधकानुत्पत्तेः । द्वितीयपक्षे तु सकलदेशकालपुरुषाणां बोधकानुत्पत्तिः —
कथमसर्वविदोऽवबोद्धुं शक्येत तत्तत्प्रतिपत्तुः सर्ववेदित्वप्रसंगात् । यदि पुनः प्रवृत्तिसामर्थ्येन ज्ञानस्य
प्रामाण्यमुन्नीयते तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थे प्रवृत्तिर्यदीष्यते तद्देशोपसर्पणलक्षणा तस्याः
३०
सामर्थ्यं च फलेनाभिसंबंधः सजातीयज्ञानोत्पत्तिर्वा तदेतराश्रयदोषो दुरुत्तरः स्यात् । सति संवेदनप्रमा
-
णत्वनिश्चये तेनार्थप्रतिपत्तौ प्रवृत्तेः । तत्सामर्थ्यस्य च घटनात् प्रवृत्तिसामर्थ्यस्य निश्चये च तेनार्थसंवे
-
दनस्य प्रमाणत्वनिर्णीतेः प्रकारांतरासंभवात् । अथार्थक्रियानिमित्तत्वेन संवेदनं प्रमाणतामास्कंदति तदा
कुतस्तस्य तन्निश्चयः स्यात् ? । प्रतिपत्तुरर्थक्रियाज्ञानादिति चेत् कुतस्तस्य प्रमाणत्वसिद्धिः ? । परमार्थ
-
क्रियाज्ञानांतराच्चेत् कथमनवस्था न भवेत् । अथाद्यसंवेदनादेवार्थक्रियाज्ञानस्य माण्यं मन्यते तदा
३५
परस्पराश्रयदोषः । सत्यर्थक्रियाज्ञानस्य प्रमाणत्वनिश्चये तद्बलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तत्वेन
प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्चयाच्च अर्थक्रियासंवेदनस्य प्रमाणतासिद्धिः कारणांतराभावात् । ततो न
प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते तदवस्थानाभावे च न प्रमेयत्वसिद्धिः इति तदेतत्सकलं प्रलापमात्रं
पराभिमतप्रमाणतत्त्वनिराकरणस्य स्वयमिष्टस्य प्रमाणमंतरेण सिद्ध्ययोगात् तस्य स्वयमिष्टत्वे साधनानुपपत्ते
परपर्यनुयोगमात्रस्य करणाददोषोऽयं ।
६३
परपर्यनुयोगपराणि हि बृहस्पतेः सूत्राणि
इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भाषणमेव । किमदुष्टकारणजन्यत्वेन प्रा
-
माण्यं साध्यते बाधारहितत्वेनेवेत्यादि पक्षाणां क्वचिन्निर्णयाभावे संदेहाभावात् परपर्यनुयोगायोगात् ।
स्यादाकूतं पराभ्युपगमात् तन्निश्चयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः, तथाहि–मीमांसकाभ्युपगमात्
०५
तावददुष्टकारणजन्यत्वं बाधावर्जितत्वं च निर्णीतं निश्चितत्वापूर्वार्थत्वलोकसम्मतत्ववत् । तदुक्तं —
तत्रापूर्वार्थविज्ञानं निश्चितं बाधववर्जितं ।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १ ॥ इति
तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमान्निर्णीतं —
प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं
१०
इति वचनात् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमान्निर्णीतमेव प्रमाण
-
मविसंवादिज्ञानं अर्थक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनात् । तदिदानीं चार्वाक
-
मतानुसारेण संदिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्थां प्रतिपद्यते पराभ्यु
-
पगमस्य प्रमाणाप्रमाणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेषामभ्युपगमः प्रमाणपूर्वकः तदा कथं संदेहः ?
प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रवर्तते तस्य
१५
क्वचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभावे प्रमाण्यनिश्चयात्
तन्निश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्येष्टस्य संसिद्धेः
प्रमाणप्रसिद्धेरबाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतेन सर्वथा शून्यं संविदद्वैतं पुरुषद्वैतं शब्दाद्वैतं
वा समाश्रित्य प्रमाणप्रमेयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा
कथंचिदिष्टत्वे प्रमाणसंसिद्धेर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेः
२०
परीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिर्णीतौ प्रमेयतत्त्वसिद्धिर्निर्बाधा व्यवतिष्ठत एव ।
ननु चैव प्रमाणसिद्धमपि किं स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा ? न तावत्स्वतः सर्वत्र सर्वदा
सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः–अनवस्थानुषगात् परापरप्रमाणान्वेषणात् क्वचिदवस्थितेरयो
-
गात् । प्रथमप्रमाणाद्द्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति
केचित्तेऽप्यसमीक्षितवचसः संलक्ष्यंते स्वयमभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्ती
-
२५
नामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथानभ्यस्तविषये परतः प्रमाणस्य
प्रामाण्यनिश्चयात् तन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धेः अनवस्थाप
-
रस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविषयत्वे परतः प्रमाणादभ्यस्तविषयात् स्वतःसिद्धप्रामाण्यात्
प्रमाणत्वनिश्चयात् सूदरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्यावश्यंभावित्वात् अन्यथा प्रमाणतदा
-
भासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तुः क्वचिद्विषयेऽभ्यासः क्वचिदन
-
३०
भ्यासः स्यात् ? इति चेत् तत्प्रतिबंधकदशाविशेषविगमाभ्यां क्वचिदभ्यासानभ्यासौ स्यातां इति ब्रूमहे
परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्य सिद्धेः तन्नः कर्म ज्ञानावरणवीर्यांतरायाख्यं सिद्धं तस्य क्षयोपशमा
-
त्कस्य चित् क्वचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थितं प्रमाणस्य प्रमाण्यं
सुनिश्चितासंभवद्बाधकप्रमाणत्वात् स्वयमिष्टवस्तुवत् सर्वत्रेष्टसिद्धेस्तन्मात्रनिबंधनत्वादन्यथा सर्वस्य तत्त्व
-
परीक्षायामनधिकारादिति स्थितमेतत् —
३५
प्रामाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः ।
प्रामाण्यं तु स्वतःसिद्धमभ्यासात्परतोऽन्यथा ॥ १ ॥ इति
एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपादू द्वितयमेव व्यवतिष्ठते
६४
सकलप्रमाणानामत्रैवांतर्भावादिति विभावनात् । परपरिकल्पितैकद्वित्र्यादिप्रमाणसंखानियमे तदघटनात् ।
तथाहि–येषां प्रत्यक्षमेकमेव प्रमाणं न तेषामनुमानादिप्रमाणांतरस्यांतर्भावः संभवति तद्विलक्षणत्वात् ।
प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षभावः इत्ययुक्तं प्रत्यक्षस्यापि क्वचिदनुमानपूर्वकत्वादनुमानादिश्वंतर्भावप्रसं
-
गात् । यथैव हि धर्मिहेतुदृष्टांतप्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्ययपूर्वकं च शाब्दं । सादृश्यानन्यथाभावनिषेध्याधार
-
०५
वस्तुग्राहि प्रत्यक्षपूर्वकाणि चोपमानार्थापत्त्यभावप्रमाणानि तथा–अनुमानेन कृशानुं निश्चित्य तत्र प्रवर्त
-
मानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं संप्रतिपद्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्तौ
प्रत्यक्षं शाब्दपूर्वकं । क्षीरस्य संतर्पणशक्तिमर्थापत्त्याधिगम्य क्षीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमर्थापत्तिपूर्वकं ।
गोसादृश्याद्गवयमवसाय तं व्यवहरतः प्रत्यक्षनुमानपूर्वकं । गृहे सर्पाभावमभावप्रमाणाद्विभाव्य प्रविशतः
प्रत्यक्षमभावपूर्वकं प्रतीयते एव ततः प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकं तस्यागौणत्वादिति
१०
शुष्के पतिष्यामि इति जातः पातः कर्दमे ।
स्यादाकूतं न प्रत्यक्षं–अनुमानागमार्थापत्त्युपमानाभावसामग्रीपूर्वंक्वं तदभावेऽपि चक्षुरादिसामग्रीमात्रा
-
त्तस्य प्रसूतेः प्रसिद्धत्वात् । तदभाव एव अभावनियमादिति तदप्यसत् लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वाभा
-
वात् । लिंगशब्दानन्यथाभावसादृश्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामि
-
ग्र्यभावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमाने
१५
प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमंतव्यं प्रतिनियतस्वविषयव्यवस्थायां परापेक्षाविरहात् । यथैव हि
प्रत्यक्षं साक्षात्स्वार्थं परिच्छित्तौ नानुमानाद्यपेक्षं तथानुमानमनुमेयनिर्णीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते प्रत्यक्षस्य
धर्मिहेतुदृष्टांतग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थे प्रत्यक्षमनुमानं चोपेक्षते तयोः शब्द
-
श्रवणमात्रे शब्दार्थसंबंधानुमात्रे व्यापारात् । नत्वर्थापत्तिः प्रत्यक्षमनुमानमागमं चापेक्षते अभावोपमानवत् ।
तस्याश्च प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबंधनत्वात् । प्रत्यक्षादीनामर्थापत्त्युत्थापक
२०
पदार्थनिश्चयमात्रे व्यावृत्तत्वात् । नचोपमानं प्रत्यक्षादीन्यपेक्षते तस्योपमेयेऽर्थे निश्चयकारणे प्रत्यक्षादि
निरपेक्षत्वात् । प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रे ऽनधिकारात् । नचाभावप्रमाणं प्रत्यक्षादिसापेक्षं निषेध्या
-
धारवस्तुग्रहणे तस्य सामर्थ्यात् । परंपरयानुमानादीनां प्रत्यक्षपूर्वकत्वं प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं
परिहर्तुं । कथं चायं प्रत्यक्षं प्रमाणं व्यवस्थापयेत् स्वत एवेति चेत् किमात्मसबंधि सर्वसंबंधि वा ?
प्रथमकल्पनायां न सकलदेशकालपुरुषपरिषत्प्रत्यक्षं प्रमाणं सिद्ध्येत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षा
-
२५
त्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः तेषामनींद्रियत्वात् वादिप्रत्यक्षागोचरत्वात् । यदि पुनः सक
-
लपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवंति इति मतं तदा कुतस्तत्सिद्धिः ? ।
विवादाध्यासितानि सकलदेशकालवर्तिपुरुषप्रत्यक्षाणि स्वतः प्रामाण्यमापद्यंते प्रत्यक्षत्वात् यद्यत्प्रत्यक्षं
तत्तत्स्वतः प्रामाण्यमापद्यमानं सिद्धं यथा मत्प्रत्यक्षं प्रत्यक्षाणि च विवादाध्यासितानि तस्मात्स्वतः प्रामा
-
ण्यमापद्यंते सकलप्रत्यक्षाणां स्वतःप्रामाण्यसाधने सिद्धमनुमानं प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः
३०
प्रामाण्यसाधनात् । शिंशुपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपद्यबुद्ध्या तथानुमानवचनाददोष इति
चेत् ? प्रतिपाद्यबुद्धिं प्रतिपद्य अप्रतिपद्य वा तयानुमानप्रयोगः स्यात् ? न तावदप्रतिपद्य अतिप्रसंगात् ।
प्रतिपद्य तद्बुद्धितयानुमानप्रयोगे कुतस्तत्प्रपित्तिः ? व्यवहारादिकार्यविशेषादिति चेत् सिद्धं कार्यात्का
-
रणानुमानं धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारात् प्रतिपद्यत एवानुमानं लौकायतिकैः परलोका
-
देवानुमानस्य निराकरणात् तस्याभावादिति मतं तदापि कुतः परलोकाद्यभावप्रतिपत्तिः न तावत्प्रत्यक्षात्
३५
तस्य तदगोचरत्वात् नास्ति परलोकादिः अनुपलब्धेः खपुष्पवदिति तदभावसाधनेऽनुपलबधिलक्षणमनु
-
मानमायातं । तदुक्तं धर्मकीर्तिना — ।
प्रमाणेतरसामान्यस्थितेरन्यधियोगतेः ।
प्रमाणांतरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ १ ॥ इति
६५
ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे प्रमेयद्वैविध्यात् । न ह्याभ्यामर्थं परिछिद्य प्रवर्तमानोऽर्थ
क्रियायां विसंवाद्यत इति प्रमाणसंख्यानियमं सौगताः प्रतिपद्यंते तेषामागमोपमानादीनां प्रमाणभेदानाम
-
संग्रह एव तेषां प्रत्यक्षानुमानयोरंतर्भावयितुमशक्तेः ।
स्यान्मतिरेषा भवतां तदर्थस्य द्वैविध्यात् द्वयोरंतर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र
०५
प्रत्यक्षविषयः साक्षात्क्रियमाणः प्रत्यक्षः । परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः स हि
पदार्थांतरात्साक्षात्क्रियमाणात् प्रतिपद्यते तच्च पदार्थांतरं तेन परोक्षेणार्थेन सबद्धं प्रत्याययितुं समर्थं नासं
-
बद्धं गवादेरप्यश्वादेः प्रतीतिप्रसंगात् । संबद्धं चार्थांतरं लिंगमेव शब्दादि तज्जनितं च ज्ञानमनुमानमेव
ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति शब्दोपमानादीनामपि तथानुमानत्वसिद्धेः । अन्यथा ततो
-
ऽर्थप्रतिपत्तौ अतिप्रसंगात् इति तदेतदपि न परीक्षाक्षमं प्रत्यक्षस्यापि तथानुमानत्वप्रसंगात् । प्रत्यक्षमपि
१०
हि स्वविषये संबद्धं तत्प्रत्यायनसमर्थं । तत्रासंबद्धस्यापि तत्प्रत्यायनसामर्थ्ये सर्वप्रत्यक्षं सर्वस्य नुः सर्वार्थ
-
प्रत्यायनसमर्थं स्यादिति कथमतिप्रसंगो न स्यात् ? । यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थ
प्रतिपत्तेः साक्षादसाक्षात्प्रतिभासभेदात् भेदोऽभ्युपगम्यते प्रमाणांतरत्वेन तदेंद्रियस्वसंवेदनमानसयोगि
-
प्रत्यक्षाणामपि प्रमाणांतरत्वानुषंगः प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य
विशदतमस्तादृशोऽक्षज्ञानस्यास्ति स्वसंवेदनस्य मनोविज्ञानस्य वा ? यथाभूतश्च स्वसंवेदनप्रत्यक्षांतर्मुखो वि
-
१५
शदतरः न तथाभूतोऽक्षज्ञानस्य । यादृशश्चाक्षज्ञानस्य बहिर्मुखः स्फुटः प्रतिभासो न तादृशो मनोवि
-
ज्ञानस्येति कथं प्रमाणांतरता न भवेत् ? अथ प्रतिभासविशेषेऽपि तच्चतुर्विधमपि प्रत्यक्षमेव न
प्रमाणांतरं तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेपि स्वविषयसंबंधाविशेषात्व प्रमाणांतरत्वं माभूत् । यदि
पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात् प्रमाणांतरत्वमुररीक्रियते तदा शाब्दो
-
पमानादीनामपि तत एव प्रमाणांतरत्वमुररीक्रियतां । यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं, लिंग
-
२०
सामग्रीतोऽनुमानं प्रभवतीति तयोः सामिग्रीभेदः । तथागमः शब्दसामिग्रीतः प्रभवति । उपमानं सा
-
दृश्यसामग्रीतः । अर्थापत्तिश्च परोक्षार्थाविनाभूतार्थमात्रसामग्र्याः । प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मर
-
णसामग्र्यश्चाभाव इति प्रसिद्धः शाब्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य
प्रभेदप्रसिद्धेः नहि तस्यार्थभेदोऽस्ति साक्षात्क्रियमाणस्यार्थस्याविशेषात् तद्वल्लिंगशब्दादिसामग्रीभेदा
-
त्परोक्षार्थविषयत्वाविशेषेप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽṃतर्भावः संभवति । तथा साध्य
-
२५
साधनसंबंधव्याप्तिप्रतिपत्तौ न प्रत्यक्षं समर्थं । यावान् कश्चिद्धूमः स सर्वः कालांतरे देशांतरे च पावक
-
जन्मा, अन्यजन्मा वा न भवति इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात् । सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वात्
योगिप्रत्यक्षं तत्र समर्थमिति चेत् न देशकालयोगिप्रत्यक्षद्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्ति
-
प्रतिपत्तौ समर्थमित्ययुक्तं तत्रानुमनवैयर्थ्यात् । न हि योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषेषु
अशेषेषु फलवदनुमानं । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेन्न उक्तदोषस्यात्रापि तद्
-
३०
वस्थत्वात् । परार्थफलवदनुमानमिति चेत् ? न तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः
कथं परार्थानुमानं नाम । यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात् परानुग्रहस्य च शब्दात्मक
-
परार्थानुमानमंतरेण कर्तुमशक्तेः परार्थानुमानसिद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुत्पद्यमानत्वात्
स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतं तदा स योगी स्वार्थानुमाने चतुरार्य
-
सत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् ग्रहीतव्याप्तिकमगृहीतव्याप्तिकं वा प्रतिपादयेत् ? यदि
३५
गृहीतव्याप्तिकं तदा कुतस्तेन गृहीता व्याप्तिः ? न तावादिंद्रियस्वसंवेदनमनोविज्ञानैस्तेषां तदविषय
-
त्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण तस्यापि देशयोगित्वात् इति चेत् तर्हि यावतसु साध्यसाधन
-
भेदेषु योगिप्रत्यक्षं देशयोगिनस्तावत्सु व्यर्थमनुमानं स्पष्टं प्रतिभातेश्वपि अनुमाने सकलयोगिनः सर्वत्रा
-
नुमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमानं योगिप्रत्यक्षविषये समारोपानवकाशात् सुगत
-
प्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकं
६६
अतिप्रसंगात् इति परप्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमानं संभवति तदसंभवे चा न स्वार्था
-
नुमानमवतिष्ठते सकलयोगिनस्तदव्यवस्थाने च न सकलयोगिप्रत्यक्षेण व्याप्तिग्रहणं युक्तिमधिवसति ।
प्रत्यक्षानुपलंभाभ्यां साध्यसाधनयोर्व्याप्तिप्रतिपत्तिरित्यप्यनेनापास्तं प्रत्यक्षेण व्याप्तिप्रतिपत्तिनिराकृतौ
प्रत्यक्षांतरलक्षणेनानुपलंभेन तत्प्रतिपत्तिनिराकृतिसिद्धेः ।
०५
योप्याह कारणानुपलंभात् कार्यकारणभावव्याप्तिः । व्यापकानुपलंभाद् व्याप्यव्यापकभावः साक
-
ल्येन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः । तथाहि यावान् कश्चिद्धूमः स सर्वोप्यग्निजन्मा महा
-
हृदादिष्वग्नेरनुपलंभाद्धूमाभावसिद्धेरिति कारणानुपलंभानुमानं । यावंती शिंशपा सा सर्वा वृक्षस्वभावा ।
वृक्षानुपलब्धौ शिंशपात्वाभावसिद्धे इति व्यापकानुपलंभो लिंगं, एतावता साकल्येन साध्यसाधनव्याप्ति
-
सिद्धिः इति सोऽपि न युक्तवादी तथानवस्थानुषंगात् । कारणानुपलंभव्यापकानुपलंभयोरपि हि स्वसा
-
१०
ध्येन व्याप्तिर्न प्रत्यक्षतः सिद्ध्येत् पूर्वोदितदोषासक्तेः । परस्मादनुमानात्तत्सिद्धौ कथमनवस्था न स्यात् ? प्रत्य
-
क्षानुपलंभपृष्टभाविनो विकल्पात् स्वयमप्रमाणकात् साध्यसधानव्याप्तिसिद्धौ किमकारणं प्रत्यक्षानुमानप्रमा
-
णपोषणं क्रियते ? मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेर्व्याप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्षं प्रमाणमिच्छता
सामस्त्येन तत्प्रामाण्यसाधनमनुमानमंतरेण नोपपद्यते इत्यनुमानमिष्टं । तथा साध्यसाधनव्याप्तिज्ञातप्रमा
-
णमंतरेण नानुमानोत्थानमस्ति इति तदप्यनुज्ञातव्यं तच्चोहाख्यमविसंवादकं प्रमाणांतरं सिद्धमिति, न प्रत्य
-
१५
क्षानुमाने एव प्रमाणे इति प्रमाणसंख्यानियमो व्यवतिष्ठते । एतेन वैशेषिकप्रमाणसंख्यानियमो प्रत्याख्यातः ।
स्यान्मतं साध्यसाधनसामान्ययोः क्वचिद्व्यक्तिविशेषे प्रत्यक्षत एव संबंधसिद्धेर्न प्रमाणांतरमन्वे
-
षणीयं यावान् कश्चिद्धूमः स सर्वोऽपि अग्निजन्मानग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य प्रमाणां
तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । क्वचिदनुमितानुमाने साध्यसाधने आदित्यगमनशक्तिरस्ति
गतिमत्त्वात् । आदित्यो गतिमान् देशाद्देशांतरप्राप्तेः देवदत्तवत् संबंधबोधनिबंधनानुमानं फलवत् ततः
२०
प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति तदप्यसारं सवि
-
कल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधगृहीतुमशक्तेः । साध्यं हि किमग्निसामान्यं, अग्निवि
-
शेषोग्निसामान्यविशेषो वा ? न तावदग्निसामान्यं सिद्धसाध्यतापत्तेः । नाप्यग्निविशेषस्तस्यानन्वयात् ।
बन्हिसामान्यविशेषस्य हि साध्यत्वे तेन धूमस्य संबंधः सकलेदेशकालव्याप्यध्यक्षतः कथं सिद्ध्येत् ?
तथा तत्संबंधासिद्धौ च यत्र यत्र यदा यदा धूमोपलंभः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनु
-
२५
मानं नोदयमासादयेत् । न ह्यन्यथा संबंधग्रह्णमन्यथानुमानोत्थानं नामातिप्रसंगात् ततः संबंधज्ञानं प्रमा
-
णांतरमेव प्रत्यक्षानुमानयोस्तदविषयत्वात् । यच्चोक्तं प्रत्यक्षफलत्वादूहापोहविज्ञानस्याप्रमाणत्वमिति तदप्य
-
सम्यक् विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् हानोपादानोपेक्षाबुद्धिफलकारणत्वाद्विशेष्य
-
ज्ञानस्य प्रमाणत्वे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । प्रमाणविषयत्वपरिशोधकत्वा
-
न्नोहः प्रमाणमित्यपि वार्तं प्रमाणविषयस्याप्रमाणेन परिषोधनविरोधात् । तथा तर्कः प्रमाणं प्रमाणविषयप
-
३०
रिशोधकत्वात् यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधको दृष्टो यथा प्रमेयोऽर्थः प्रमाणविषयपरिशोधकश्च
तर्कस्तस्मात्प्रमाणमिति केवलव्यतिरेकिणानुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धेः,
न वैशेषिकाणां प्रमाणद्वयसंख्यानियमः सिद्ध्येत् । एतेन द्वित्रिचतुःपंचषट्प्रमाणवादिनां प्रमाणसंख्या
-
नियमः प्रतिध्वस्तः संख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्सिद्धिनि
-
बंधनस्य प्रमाणांतरत्वोपपत्तेः । नैयायिकानां च प्रत्यक्षानुमानागमैरिवोपमानेनापि लिंगलिंगिग्रहणासंभ
-
३५
वात् । प्रभाकराणां च प्रत्यक्षानुमानोपमानागमैरिव अर्थापत्त्यापि हेतुहेतुमत्संबंधसिद्धेरसंभवात् । भट्टमता
-
नुसारिणामपि प्रत्यक्षानुमानोपमानागमार्थापत्तिभिरिव अभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तन्निश्चयनि
-
बंधनस्योहज्ञानस्य प्रमाणांतरस्य सिद्धिरवश्यंभाविनी दुःशक्या निराकर्तुं ।
ननूहः स्वविषये संबद्धेऽसंबद्धो वा न तावदसंबद्धस्तं प्रत्याययितुमीशोऽतिप्रसंगात् । संबद्धश्चेत् कुत
-
स्तत्प्रतिपत्तिः । न तावत्प्रत्यक्षात् तस्य तदविषयत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनरूहांतरात्त
-
६७
त्संबंधसिद्धिः तदोहांतरस्यापि स्वविषयसबंधसिद्भिपूर्वकत्वात् तस्याश्चापरोहनिबंधनत्वात् सैवानवस्था । प्रमा
-
णांतरात्तत्सिद्धौ च स एव पर्यनुयोगः परापरप्रमाणांतरपरिकल्पनानुषंगात् क्वेयं प्रमाणसंख्या व्यवतिष्ठेतेति
केचित् तेषामपि प्रत्यक्षं स्वविषयं प्रतिबोधयत् तत्संबंधश्च नानुमानादेः सिद्ध्यति तस्य तदविषयत्वात् ।
प्रत्यक्षांतरात्तत्सिद्धौ तत्रापि प्रकृतपर्यनुयोंगानिवृत्तेः कथमनवस्था न स्यात् यतः प्रत्यक्षं प्रमाणमभ्युपगम
-
०५
नीयमिति प्रतिपद्यामहे ।
स्यान्मतिरेषा प्रत्यक्षं स्वविषयसंबंधावबोधनिबंधनं प्रामाण्यमात्मसात्कुरुते तस्य स्वविषये स्वयोग्यता
-
बलादेव प्रमाणत्वव्यवस्थितेः अन्यथा क्वचिदपूर्वार्थग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुषंगात् इति सापि न
साधीयसी तथोहस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषयप्रत्यायनसिद्धेर्भवदुद्भावितदूषणवैयर्थ्यव्यव
-
स्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यांतरायक्षयोपशमविशेष एवोहस्यापि प्रति
-
१०
पद्यते सकलबाधकवैधुर्यात् । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादिसामिग्री योग्यतायाः सहकारिणी बहि
-
रंगनिमित्तत्वात् तथोहस्यापि समुद्भूतौ भूयः प्रत्यक्षानुपलंभसामिग्रीबहिरंगनिमितभूतानुमन्यते तदन्वय
-
व्यतिरेकानुविधायित्वादूहस्येति सर्वनिरवद्यसिद्धे चानुमानप्रमाणान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे–प्रत्यभि
-
ज्ञानं प्रमाणं तर्कप्रमाणत्वान्यथानुपपत्तेः न ह्यप्रत्यभिज्ञाने विषये तर्कः प्रवर्तते अतिप्रसंगात् । नच गृहीत
-
ग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्वं शकनीयं तद्विषयस्यास्मर्यमाणदृश्यमानपर्यायव्याप्येकद्रव्यस्य स्मरणप्रत्य
-
१५
क्षागोचरत्वात् अपूर्वार्थग्राहित्वासिद्धेः । नचेदं प्रत्यक्षेऽṃतर्भवति प्रत्यक्षस्य वर्तमानपर्यायविषयत्वात् ।
नाप्यनुमाने लिंगानपेक्षत्वात् । न शाब्दे शब्दनिरपेक्षत्वात् । नोपमाने सादृश्यमंतरेणापि भावात् । नार्थ
-
पत्तौ प्रत्यक्षादिप्रमाणषट्कविज्ञातार्थप्रतिपत्तिमंतरेणापि प्रादुर्भावात् । नाभावे निषेध्याधारवस्तुग्रहणेन
निषेध्यस्मरणेन च विनैवोत्पादादिति सर्वेषामेकद्वित्रिचतुःपंचषट्प्रमाणसंख्यानियमं विघटयति । एतेन
स्मृतिः प्रमानांतरमुक्तं तस्याश्च प्रत्यक्षादिष्वंतर्भावयितुमशक्तेः । न चासावप्रमाणमेव संवादकत्वात् कथं
-
२०
चिदपूर्वार्थग्राहित्वात् बाधाबर्जितत्वाच्चानुमानवदिति । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य सा
-
ध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवास्थितेः कुतोऽनुमानं शाब्दं वा प्रमाणं
सिद्ध्येत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति सकलप्रमाण
-
विलोपापत्तिः ततः प्रमाणव्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्या
-
नियमः सिद्ध्येत् । स्याद्वादिनां तु संक्षेपात्प्रत्यक्षपरोक्षविकल्पात् प्रमाणद्वयं सिद्धत्येव तत्र सकलप्रमाण
-
२५
भेदानां संग्रहादिति सूक्तं ।
किं पुनः प्रत्यक्षमित्युच्यते विशदज्ञानात्मकं प्रत्यक्षं प्रत्यक्षत्वात् यत्तु न विशदज्ञानात्मकं तन्न
प्रत्यक्षं यथानुमानादिज्ञानं प्रत्यक्षं च विवादाध्यासितं तस्माद्विशदज्ञानात्मकं । न तावदत्राप्रसिद्धो धर्मी
प्रत्यक्षधर्मिणि केवलप्रत्यक्षवादिनामविप्रतिपत्तेः । शून्यसंवेदनाद्वैतवादिनामपि स्वरूपप्रतिभासनस्य
प्रत्यक्षस्याभीष्टेः । प्रत्यक्षत्वस्य हेतोरसिद्धतापि अनेन समुत्सारिता प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य
३०
स्वयमिष्टत्वात् । प्रतिज्ञार्थैकदेशासिद्धत्वं साधनस्य स्यादिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा यस्या
-
सिद्धत्वं शंक्येत ? धर्मधर्मिससुदायः प्रतिज्ञा तदेकदेशो धर्मी हेतुर्यथा नश्वरः शब्दो शब्दत्वादिति
तथा साध्यधर्मः प्रतिज्ञैकदेशो यथा नश्वरः शब्दो नश्वरत्वात् सोयं द्विविधो प्रतिज्ञार्थैकदेशासिद्धौ हेतुः
स्यादिति चेत् । न धर्मिणो हेतुत्वे कस्य चिदसिद्धतानुपपत्तेः । यथैव हि प्रत्यक्षप्रयोगकाले वादिप्रतिवादि
प्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञातार्थैक
-
३५
देशत्वेनासिद्धो धर्मिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि ? स्वरूपेण वासिद्ध इति न प्रतिज्ञार्थैकदेशासिद्धो
नाम हेत्वाभासः संभवतीति कथं प्रकृतहेतौ प्रतिज्ञार्थैकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः ? ।
धर्मिणो हेतुत्वेऽनन्वयप्रसंग इति चेत् न विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतां दोषासंभवात् । प्रत्यक्षं
-
हि विशेषरूपं धर्मी प्रत्यक्षसामान्यं हेतुः स कथमनन्वयः स्यात् सकलप्रत्यक्षविशेषस्य व्यापित्वात् । दृष्टांते
क्वचिदभावात् अनन्वय इति चेत् न सर्वे भावाः क्षणिकाः सत्त्वात् इत्यादेरपि हेतोरनन्वयत्वप्रसक्तेः ।
६८
अथास्य दृष्टांतेन अन्वयस्यापि साध्यधर्मिणि सर्वत्रान्वयसिद्धेर्विक्षे बाधकप्रमाणसद्भावाच्च निर्दोषतानु
-
मन्यते तत एव प्रत्यक्षत्वस्य हेतोर्निदोषतास्तु सर्वथा विशेषाभावात् केवलव्यतिरेकिणोऽपि हेतोरविना
-
भावनिर्णयात् साध्यसाधनसामर्थ्यान्न कश्चिदुपालंभस्ततो निरवद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं
साधयत्येव । नचैतदसंभवि साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य
०५
कार्त्स्न्येन एकदेशेन वा वैशद्यसिद्धेर्बाधकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि — आत्मानमेव
क्षीणावरणं क्षीणोपशांतावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथंचिदपि वैशद्यं सभा
-
व्यमिति सूक्तं विशदज्ञानात्मकं प्रत्यक्षं ।
तत्त्रिविधं — इंद्रियानिंद्रियातींद्रियप्रत्यक्षविकल्पनात् । तत्रेंद्रियप्रत्यक्षं सांव्यवहारिकं देशतोविशद
-
त्वात् । तद्वदनिंद्रियप्रत्यक्षं तस्यांतर्मुखाकारस्य कथं चिद्वैशद्यसिद्धेः । अतींद्रियप्रत्यक्षं तु द्विविधं विकल
-
१०
प्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविधं — अवधिज्ञानं मनःपर्ययज्ञानं चेति सकलप्रत्यक्षं
तु केवलज्ञानं तदेतत्त्रितयमपि मुख्यं प्रत्यक्षं मनोऽक्षानपेक्षत्वात् अतीतव्यवभिचारित्वात् साकारवस्तु
-
ग्राहित्वात् सर्वथा स्वविषयेषु वैशद्याच्च । तथा चोक्तं तत्त्वार्थवार्तिककारैः ।
इंद्रियानिंद्रियानपेक्षम् अतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् इति
तत्रेंद्रियानिंद्रियानपेक्षमिति वचनात् सांव्यवहारिकस्येंद्रियप्रत्यक्षस्यानिंद्रियस्य च देशतो विश
-
१५
दस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तेः ।
साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वव्यावर्तनात् ।
सूक्तं मुख्यं प्रत्यक्षत्रयं ननु स्वसंदेनप्रत्यक्षं चतुर्थं स्यादिति न मंतव्यं तस्य सकलज्ञानसाधर
-
णस्वरूपत्वात् । यथैव हींद्रियप्रत्यक्षस्य स्वरूपसंवेदनमिंद्रियप्रत्यक्षमेव अन्यथा तस्य स्वपरस्वरूपसंवेदकत्व
-
विरोधात् संवेदनद्वयप्रसंगाच्च । तथानींद्रियप्रत्यक्षस्य मानसस्य स्वरूपसंवेदनमनिंद्रियप्रत्यक्षमेव तत एव
२०
तद्वदतींद्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थांतरं स्वसंवेदनप्रत्यक्षं । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनिं
-
द्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यं तस्यानिंद्रियनिमित्तत्वात् विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकलं
ज्ञानं स्वरूपसंवेदनापेक्षया प्रमाणं सिद्धं भावप्रमेयापेक्षायां प्रमाणाभासनिन्हवः ।
किं पुनरिंद्रियप्रत्यक्षं ? इंद्रियप्रधान्यादिंद्रियवलाधानादुपजायमानं मतिज्ञानं —
तदिंद्रियानिंद्रियनिमित्तं ।
२५
इति वचनात् । तच्चतुर्विधं — अवग्रहेहावायधारणाविकल्पात् । तत्र
विषयविषयिसन्निपातानं
-
तरमाद्यग्रहणमवग्रहः । तद्गृहीतवस्तुविशेषाकांक्षणमीहा । भवितव्यताप्रत्ययरूपात्तदीहितवि
-
शेषनिश्चयोऽवायः । सावधारणं ज्ञ नं कालांतराविस्मरणकारणं धारणाज्ञानं
। तदेतच्चतुष्टयमपि
अक्षव्यापारापेक्षं अक्षव्यापाराभावे तदनुद्भवनात् । मनोऽपेक्षं च प्रतिहतमनसस्तदनुत्पत्तेः । तत एवेंद्रिय
-
प्रत्यक्षं देशतो विशदमविसंवादकं प्रतिपत्तव्यं स्पर्शनादीन्द्रियनिमित्तस्य बहुबहुविधक्षिप्रानिसृतानुक्तध्रुवेषु
३०
तदितरेष्वर्थेषु वर्तमानस्य प्रतींद्रियमष्टचत्वारिंशद्भेदस्य व्यंजनावग्रहभेदैरष्टचत्वारिंशता सहितस्य संख्याष्टा
-
शीत्युत्तरद्विशती प्रतिपत्तव्या । तथा अनिंद्रियप्रत्यक्षं बह्वादिद्वादशप्रकारार्थविषयमवग्रहादिविकल्पमष्टच
-
त्वारिंशत्संख्यं प्रतिपत्तव्यं । यत्पुनरतींद्रियप्रत्यक्षविकल्पमवधिज्ञानं तत् षड्विधं अनुगामि
-
अननुगामि
-
वर्धमान
-
हीयमान
-
अवस्थित
-
अनवस्थितविकल्पात् । सप्रतिपाताप्रतिपातयोरत्रैवांतर्भावात् । संक्षेपतस्तु
त्रिविधं देशावधि
-
परमावधि
-
सर्वावधिभेदात् । तत्र देशावधिज्ञानं षड्विकल्पमपि संभवति परमावधिज्ञानं तु
३५
संयमविशेषैकार्थसमवायिभवांतरापेक्षयाननुगामि प्रतिपातं च प्रत्येयं । तद्भवापेक्षया च तदनुगाम्येव ना
-
ननुगामि । वर्धमानमेव न हीयमानं । अवस्थितमेव नानवस्थितं । अप्रतिपातमेव नप्रतिपातं तथाविध
-
विशुद्धिनिबंधनत्वात् । एतेन सर्वावभधिज्ञानं व्याख्यातं । केवलं तद्वर्धमानमपि न भवति परमप्रकर्षप्राप्तत्वात्
सकलावधिज्ञानावरणवीर्यांतरायक्षयोपशमवशात्प्रसूतत्वात् । अतिसंक्षेपस्तु द्विविधमवधिज्ञानं भवप्रत्ययं
६९
गुणप्रत्ययं चेति । तत्र भवप्रत्ययं बहिरंगदेवभवनारकभवप्रत्ययनिमित्तत्वात् । तद्भावे भावात् तदभावेऽ
-
भावात् तत्तु देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतसम्यग्दृष्टेः । संयमासंयमगुण
-
हेतुकं संयतासंयतस्य । संयमगुणनिबंधनं संयतस्य । सत्यंतरंगहेतौ बहिरंगस्य गुणप्रत्ययस्य भावे भावात् ।
तदभावे चाभावात् । तथा मनःपर्ययज्ञानं विकलमतींद्रियप्रत्यक्षं द्वेधा ऋजुमतिविकल्पात् । तत्रर्जुमति
-
०५
मनःपर्ययज्ञानं निर्वर्तितप्रगुणवाक्कायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्त्रिविधं । विपुलमतिमनः
पर्ययज्ञानं तु निर्वर्तितानिर्वर्तितप्रगुणाप्रगुणवाक्कायमनस्कृतार्थस्य परमनसि स्थितस्य स्फुटतरमवबोधकत्वात्
षट्प्रकारं, तथाविधमनःपर्ययज्ञानावरणवीर्यांतरायक्षयोपशमविशेषवलात् प्रादुर्भूतत्वात् । सकलमतींद्रिय
-
प्रत्यक्षं केवलज्ञानं सकलमोहक्षयात् सकलज्ञानदर्शनावरणवीर्यांतरायक्षयाच्च समुद्भूतत्वात् सकलवैशद्य
सद्भावात् सकलविषयत्वाच्च । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासंभद्बाधकप्रमाणत्वात् । तथा
१०
शास्त्रज्ञानेन तद्वानुभयवादिप्रसिद्धः । नचात्रासिद्धं साधनं सर्वातींद्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमा
-
णैरबाध्यमानस्य सकलदेशकालपुरुषपरिषदपेक्षयापि सिद्धत्वात् सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः ।
अन्यथा कस्यचिदिष्टसिद्धेरसंभवात् । इति संक्षेपतो विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितं विस्त
-
रतस्तु तत्त्वार्थालंकारे परीक्षितमिह दृष्टव्यं ।
संप्रति परोक्षमुच्यते — परोक्षमविशदज्ञानात्मकं परोक्षत्वात् यन्नाविशदज्ञानात्मकं तन्न परोक्षं यथा
-
१५
तींद्रियप्रत्यक्षं परोक्षं च विवादाध्यासितं ज्ञानं तस्मादविशदज्ञानात्मकं । नचास्य परोक्षत्वमसिद्धं–अक्षेभ्यः
परावृत्तत्वात् ।
तथोपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षमिति
तत्त्वार्थवार्तिककारैरभिधानात् । उपात्तो
हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः । ततोऽन्यः पुनर्बहिरंगः सहकारी प्रत्ययोऽनु
-
पात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते । तदपि संक्षेपतो द्वेधा मतिज्ञानं श्रुतज्ञानं चेति
आद्ये परोक्षं
इति वचनात् । मतिश्रुतावधिमनःपर्ययकेवलानि हि ज्ञानं । तत्राद्ये मतिश्रुते सूत्रपाठापे
-
२०
क्षया लक्ष्येते ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपर्ययकेवलानि यथा प्रत्यक्षा
-
णीति । तत्रावग्रहादिधारणापर्यंतं मतिज्ञानमपि देशतोवैशद्यसद्भावात्सांव्यवहारिकं, इंद्रियप्रत्यक्षमतींद्रियप्र
-
त्यक्षं चाभिधीयमानं न विरुध्यते ततः शेषस्य मतिज्ञानस्य स्मृतिसंज्ञाचिंताभिनिबोधलक्षणस्य श्रुतस्य च
परोक्षत्वव्यवस्थितेः । तदुक्तमकलंकदेवैः —
प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः ।
२५
परोक्षं शेषविज्ञानं प्रमाणमिति संग्रहः ॥ १ ॥
तत्र तदित्याकारानुभूतार्थविषया स्मृतिः अनिंद्रियप्रत्यक्षं विशदत्वात् सुखादिसंवेदनवदित्येके
१
तद
-
सत् । तस्मात्तत्र वैशद्यासिद्धेः पुनर्भावयतो वैषद्यप्रतीतेर्भावनाज्ञानत्वात् तस्य च भ्रांतत्वात स्वप्नज्ञा
-
नवत् । पूर्वानुभूतेऽतीतेऽर्थे वैशद्यासंभवात् स्मृतिः परोक्षमेव श्रुतानुमितस्मृतिवत् इत्यपरे
२
तदित्युल्लेखस्य
सर्वस्यां स्मृतौ सद्भावात् । सा च प्रमाणमविसंवादकत्वात् प्रत्यक्षवत् यत्र तु विसंवादः सा स्मृत्याभासा
३०
प्रत्यक्षाभासवत् । तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा तादृशमेवेदमित्याकारं वा विज्ञानं
संज्ञोच्यते । तस्या एकत्वसादृश्यविषयत्वाद्द्वैविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानं तदेवेदमित्येकत्वनि
-
बंधनं । तादृशमेवेदति सादृश्यनिबंधनं च । ननु च तदेवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात् इद
-
मिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत् तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत्
ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं संभवतीति कश्चित् सोऽपि न संवेदनविशेषविपश्चित्
३५
स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवर्त्येकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि
तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकं तस्यातीतविवर्तमात्रगोचरत्वात् । नापीदमिति संवेदनं तस्य व
-
र्तमानविवर्तमात्रविषयत्वात् । ताभ्यामुपजन्यं तु सकलज्ञानं तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततो
-
१ मीमांसकाः २ स्याद्वादिनः
७०
ऽन्यदेव प्रत्यभिज्ञानमेकत्वविषयं तदपह्नवे क्वचिदेकान्वयाव्यवस्थानात् संतानैकत्वसिद्धिरपि न स्यात् । नचै
-
तदगृहीतप्रमाणादप्रमाणमिति शंकनीयं तस्य कथंचिदपूर्वार्थत्वात् । न हि तद्विषयभूतमेकं द्रव्यं स्मृति
-
प्रत्यक्षग्राह्यं येन तत्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्येत तद्गृहीतातीतवर्तमानविवर्ततादात्म्यात् ।
द्रव्यस्य कथंचिदपूर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वं लैंगिकादेरप्यप्रमाणत्वप्रसंगात् तस्यापि
०५
सर्वथैवापूर्वार्थत्वासिद्धेः । संबंधग्राहिविज्ञानविषयात् साध्यादिसामान्यात् कथंचिदभिन्नस्यानुमेयस्य देश
-
कालविशिष्टस्य तद्विषयत्वात् कथंचिदपूर्वार्थत्वसिद्धेः बाधकप्रमाणान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तं तद्बा
-
धकस्यासंभवात् । नहि प्रत्यक्षं तद्बाधकं तस्य तद्विषये प्रवृत्त्यसंभवात् । साधकत्ववद्बाधकत्वविरोधात् । यथा
हि यद्यत्र विषये न प्रवर्तते न तत्तस्य साधकं बाधकं वा यथा रूपज्ञानस्य रसज्ञानं न प्रवर्तते च प्रत्यभिज्ञा
-
नस्य विषये प्रत्यक्षं तस्मान्न तद्बाधकं । प्रत्यक्षं हि न प्रत्यभिज्ञानविषये पूर्वदृष्टदृश्यमानपर्यायव्यापिनि द्रव्ये
१०
प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्धं साधनं । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यातं
तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात्, क्वचिदनुमेयमात्रे प्रवृत्तिसिद्धेः । तस्य तद्विषये प्रवृत्तौ वा सर्वथा
बाधकत्वविरोधात् । ततः प्रत्यभिज्ञानं स्वविषये द्रव्ये प्रमाणं सकलबाधारहितत्वात् प्रत्यक्षवत् स्मृतिवद्वा
एतेन सादृश्यनिबंधनं प्रत्यभिज्ञानं प्रमाणमावेदितं बोद्धव्यं तस्यापि स्वविषये बोधाकाररहितत्वसिद्धेः ।
यथैव हि प्रत्यक्षं स्वविषये साक्षात्क्रियमाणे स्मरणं च स्मर्यमाणेऽर्थे बाधाविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये
१५
सादृश्ये च स्वविषये न संभवद्बाधकमिति कथमप्रमाणमनुमन्येमहि । यत्पुनः स्वविषये बाध्यमानं तत्प्रत्यभि
-
ज्ञानाभासं यथा प्रत्यक्षाभासं स्मरणाभासं वा न च तस्याप्रमाणत्वे सर्वथा प्रमाणत्वं युक्तं प्रत्यक्षस्याप्यप्रमा
-
णत्वप्रसंगात् । तस्माद्यथा शुक्ले शंखे पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासेन प्रत्यक्षांतरेण बाध्यमानत्वात्
अप्रमाणं न पुनः पीते कनकादौ पीताभासं प्रत्यक्षं । तथा तस्मिन्नेव स्वपुत्रादौ तादृशोयमिति प्रत्यभिज्ञानं
सादृश्यनिबंधः स एवायमित्येकत्वनिबंधनेन प्रत्यभिज्ञानेन बोध्यमानमप्रमाणं सिद्धं न पुनः सादृश्य एव प्रव
-
२०
र्तमानं स्वपुत्रादिना सादृश्येऽन्यपुत्रादौ तादृशोऽयमिति प्रत्यभिज्ञानं तस्याबाध्यत्वेन प्रमाणत्वात् । एवं लूनपु
नर्जातनखकेशादिरिति सादृश्यप्रत्यवमर्शिप्रत्यभिज्ञानं तत्र तस्याबाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वा
-
नुभूते हि हिरण्यादौ प्रदेशविशेषविशिष्टे स्मरणं विपरीतदेशतया तत्स्मरणस्य बाधकमिति न तत्तत्र प्रमाणं ।
यथानुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यं । तत इदमभिधीयते यतो यतोर्थं परिच्छिद्य प्रवर्त
-
मानोऽर्थक्रियायां न विसंवाद्यते तत्तत्प्रमाणं यथा प्रत्यक्षमनुमानं वा । स्मरणात् प्रत्यभिज्ञानाच्च अर्थं परि
-
२५
च्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्प्रमाणं स्मरणं प्रत्यभिज्ञानं चेति । तथा परोक्षमेतदवि
-
संवादित्वात् । अनुमानवत् । साध्यसाधनसंबंधग्राहितर्कवद्वा विशदस्य भावनाज्ञानत्वात् । यावान् कश्चिद्धूमः
स सर्वः पावकजन्मैव अपावकजन्मा वा न भवतीति सकलदेशकालव्याप्तसाध्यसाधनसंबद्धोहापोहलक्षणो
हि तर्कः प्रमाणयितव्यः तस्य कथंचिदपूर्वार्थत्वात् । प्रत्यक्षानुपलंभगृहीतप्रतिनियतदेशकालसाध्यसा
-
धनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणसंभवात् बाधकवर्जितत्वाच्च । नहि तर्कस्य प्रत्यक्षं बाधकं तद्वि
-
३०
षये तस्याप्रवृत्तेरनुमानवत् प्रवृत्तौ वा सर्वथा तद्बाधकत्वविरोधात् क्वचिदेव तद्बाधकोपपत्तेः । यस्य तु तद्बाधकं
स तर्काभासो न प्रमाणमितीष्टं शिष्टैः स्मरणप्रत्यभिज्ञानाभासवत् । प्रत्यक्षानुमानाभासवद्वा तथा प्रमाणं
तर्कस्ततोऽर्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रियायां विसंवादाभावात् प्रत्यक्षानुमानवदिति प्रतिपत्तव्यं । परोक्षं
चेदं तर्कज्ञानं अविसंवादकत्वात् अनुमानवत् । किं पुनरनुमानं नाम ?
साधनात्साध्यविज्ञानम् अनुमानं ।
३५
तत्र साधनं साध्याविनाभाविनियमनिश्चयैकलक्षणं लक्षणांतरस्य साधनाभासेऽपि भावात् । स्वलक्ष
णस्य साधनस्य साधनानुपपत्तेः पंचादिलक्षणवत् । नच सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधन
-
लक्षणं पश्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य
साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धं । विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्म
-
त्वं । विपक्षे वा श्यामे क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च । नच तावता साध्यसाध
-
७१
नत्वं साधनस्य । ननु साकाल्येन साध्यनिवृत्तौ साधननिवृत्तेरसंभवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावात्
न सम्यक् साधनमेतत् इति चेत् तर्हि कार्त्स्न्येन साध्यनिवृत्तौ साधननिवृत्तेर्निश्चयएवैकं साधनलक्षणं सएवा
-
न्यथानुपपत्तिनियमनिश्चयः स्याद्वादिभिः साधनलक्षणमभिधीयते तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधन
-
स्य सम्यक्त्वप्रतीतेः उदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः ।
०५
न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्ष
धर्मत्वं । यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्त्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति
मतं तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महा
-
नसधूमो महोदधावग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । अथेत्थमेतस्य साधनस्य पक्षधर्मत्व
-
सिद्धावपि न साध्यसाधनसामर्थ्यमविनाभाविनियमनिश्चयस्याभावादित्यभिधीयते तर्हि स एव साधनलक्ष
-
१०
णमक्षूणं परीक्षादक्षैरुपलक्ष्यते ।
योप्याह शकटोदयो भाविकारणं कृत्तिकोदयस्य तदन्वयव्यतिरेकानुविधानात् सति हि स्वकाले
भविष्यति शकटोदये कृतिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकृत्ति
-
कोदययोः कार्यकारणभावं साधयति विनष्टवर्तमानवदेव । यथैवोदगाद्भरणिः कृत्तिकोदादित्यत्रातीतो भर
-
ण्युदयः कारणं, कृत्तिकोदयस्तत्कार्यं स्वकालेऽतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच्च तद
-
१५
न्वयव्यतिरेकानुविधानात् कार्यकारणभावः । तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोर्न्यायस्य
समानत्वात् । नचैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितियं विरुध्यते भिन्नदेशयोरिव भिन्नकालयो
-
रपि सहकारित्वविरोधात् । सहैकस्य कार्यस्य कारणं हि सहकारित्वनिबंधनं नाभिन्नकालत्वमभिन्नदेशवत् ।
नचातीतानागतौ भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणं पूर्वकृत्तिकालक्षणस्यानुदयमापन्नस्य
तदुपादानकारणत्वसंप्रतिपत्तेः ? इति सोऽपि न प्रातीतिकवचनः तथा प्रतीत्यभावात् । कार्यकालमप्राप्नु
२०
वतोर्विनष्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्यं ? प्रत्यासत्तिविशेषा
-
भावादिति चेत् तर्हि स एव प्रत्यासत्तिविशेषः कारणत्वाभिमतयोरतीतानागतयोः कारणत्वे हेतुर्वक्तव्यः ।
स चातीतस्य कार्ये व्यापारस्तावन्न भवति सर्वथापि कार्यकाले तदसत्त्वादनागतवत् । तद्भावे भावप्रत्यास
-
त्तिविशेष इत्यप्यसारं अतीतस्यानागतस्य चाभाव एव कार्यस्य भावात् भावे चाभावात् अन्यथा कार्यकार
-
णयोरेककालतापत्तेः सकलसंतानानामेकक्षणवर्तित्वप्रसंगः । नैकक्षणसंतानो नाम तस्यापरामृष्टभेद
-
२५
नानाकार्यकारणलक्षणत्वात् ।
यदप्यभ्यधायि कारणस्यातीतस्यानागतस्य च स्वकाले भावे कार्यस्य भावात् अभावे चाभावात् तद
भावाभावोऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेषोऽस्त्येव इति तदप्यसंगतं कारणत्वानभिमता
-
तीतानागततमयोरपि तथा तद्भावप्रसंगात् । कार्यस्य भिन्नदेशस्य तु कारणत्वे युक्तस्तद्भावभावः कलशकुं
-
भकारादिवत् । कुंभकारादिषु हि भिन्नस्वदेशेषु सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् ।
३०
कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्ये तद्भावभावो तत्र तस्याव्यापारात् अतीतानागतवत् । सतो हि
कस्य चित्क्वचिद्व्यापारः श्रेयान् न पुनरसतः खरविषाणादेरिवेति युक्तं ततो भिन्नदेशस्यापि कस्यचिदेकस्य
कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुनर्भिन्नकालस्य प्रतीत्यतिलंघनात् ततो न
कृत्तिकोदयशकटोदययोः कार्यकारणभावः समवतिष्टते व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे
न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्ममंतरेणापि हेतोर्गमकत्वसिद्धेर्न तल्लक्षणमुत्प्रेक्ष्यते । तथा न सपक्ष
३५
एव सत्त्वं निश्चितं तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनात् ।
विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाविनियमनिश्चयरूपमेवेति तदेव हेतोः प्रधानलक्षणमस्तु किमत्र
लक्षणांतरेण ?
अथ मतमेतत्पक्षधर्मत्वमसिद्धत्वमसिद्धत्वव्यवच्छेदार्थं साधनस्य लक्षणं निश्चीयते । सपक्ष एव सत्त्वं
विरुद्धत्वव्यवच्छेदाय । विपक्षे चासत्त्वं–अनेकांतित्वव्यवच्छित्तये । तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारा
-
७२
संभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं —
हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः ।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ॥ १ ॥
तदप्यपरीक्षिताभिधानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः स्वयम
-
०५
सिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनैकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चय
-
रूपत्वात् । तस्य चासिद्धव्यभिचारिणि विरुद्धे च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनाभाव
-
नियमप्रपंचत्वात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्वान्वयव्य
-
तिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनाभावनियमप्रपंच एव बाधितविषयस्य सत्प्र
-
तिपक्षितस्य चाविनाभावनियमानिश्चयात् पक्षाव्यापकानन्वयाव्यतिरेकवत् । न पक्षधर्मत्वे सत्येव सा
-
१०
धनस्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे
सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभा
-
वात् परस्य सर्वानित्यत्वसाधनवत् । नच व्यतिरेकमात्रे सत्यपि व्यभिचारिविवेके श्यामत्वे साध्ये
-
तत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना
भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचत्वे कालाकाशादीनामपि तत्प्र
-
१५
पंचत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु समानं
तेषामपि साधारणत्वाद्धेत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं
हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं —
अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं
नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति
२०
एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यबाधितविषयत्वे सत्प्रतिपक्षे
चाविनाभावनियमानवलोकात् । पक्षव्यापकत्वान्ययव्यतिरेकवत् । स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत्
इत्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावात् अवाधितविषयत्वसिद्धावपि अविना
-
भावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यास
-
त्त्वात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं —
२५
अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं
नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति
तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानं तस्मिन्सति त्रिलक्षणस्य पंचल
-
क्षणस्य प्रयोगो निवार्यते एवेति प्रयोगपरिपाट्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चा
-
भ्यधायि
कुमारनंदि
भट्टारकैः —
३०
अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते
प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ १ ॥ इति
तच्च साधनं एकलक्षणं सामन्यादेकविधमपि विशेषतोऽतिसंक्षेपाद्द्विविधं विधिसाधनं संक्षेपास्त्रिविधं
-
मभिधीयते कार्यं कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति प्रकारांतरस्यात्रैवांतर्भावात् ।
तत्र कार्यं हेतुः, अग्निरत्र धूमात् इति कार्यकार्यादेरत्रैवांतर्गतत्वात् । कारणं हेतुः — अस्त्यत्र छाया छत्रात्
३५
इति कारणकारणादेरत्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन
प्रतिबंधवैकल्यसंभवाद्व्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकत्वं वा कार्याविना
-
भाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विधं —
व्याप्यं सहचरं पूर्वचरं, उत्तरचरं चेति । तत्र व्याप्यलिंगं व्यापकस्य यथा सर्वमनेकांतात्मकं सत्त्वादिति
सत्त्वं हि वस्तुत्वं —
७३
उत्पादव्ययध्रौव्ययुक्तं सत्
इति वचनात् । नच तदेकांतेन सुनयविषयेण व्यभिचारि तस्य वस्त्वंशत्वात् । सहचरं लिंगं यथा —
अस्ति तेजसि स्पर्शसामान्यं
(? )
न रूपसामान्यस्य कार्यं कारणं वा नापि रूपसामान्यं स्पर्शसामान्यस्य तयोः
सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धेः । एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य
०५
सहचरत्वं निवेदितमेकसामग्र्यधीनस्यैव प्रतिपत्तव्यं समवायिनः कारणत्ववत् । पूर्वचरं लिंगं यथोदेष्यति
शकटं कृत्तिकोदयात् इति पूर्वपूर्वचराद्यनेनैव संगृहीतं । उत्तरचरलिंगं यथा — उदगाद्भरणिः कृतिकोदयात्
इति, उत्तरोत्तरचरमेतेनैव संगृह्यते तदेतत्साध्यस्य विधौ साधनं षड्विधमुक्तं । प्रतिषेधे तु प्रतिषेध्यस्य विरुद्धं
कार्यं विरुद्धं कारणं विरुद्धाकार्यकारणं चेति । तत्र विरुद्धकार्यलिंगं
-
नास्त्यत्र शीतस्पर्शो धूमात् इति शीत
स्पर्शेन हि विरुद्धो वन्हिः तस्य कार्यं धूम इति विरुद्धकारणं । नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति विरुद्धं
१०
ह्यसत्येन सत्यं तस्य कारणं सम्यग्ज्ञानं यथार्थज्ञानं रागद्वेषरहितं तत्कुतश्चित्सुक्ताभिधानादेः प्रसिद्ध्यत्
सत्यं साधयति । तच्च सिद्ध्यदसत्यं प्रतिषेधयति इति । विरुद्धाकार्यकारणं चतुर्विधं–विरुद्धव्याप्यं विरुद्धसह
-
चरं विरुद्धपूर्वचरं विरुद्धोत्तरचरं चेति तत्र विरुद्धव्याप्यं नास्त्यत्र शीतस्पर्शः, औष्ण्यात् । औष्ण्यं हि
व्याप्यमग्नेः स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येनेति । विरुद्धसहचरं नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति
मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धं तत्सहचरं सम्यग्दर्शनमिति । विरुद्धपूर्वचरं नोदेष्यति मुहूर्तांते शंकटं
१५
रेवत्युदयात् । शकटोदयविरुद्धो ह्यश्वन्युदयः तत्पूर्वचरो रेवत्युदयः । विरुद्धोत्तरचरं–मुहूर्तात् प्राङ्गोदगाद्भरणिः
पुष्पोदयादिति । भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्पोदय इति । तान्येतानि साक्षात्प्रतिषेध्य
-
विरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनानि षडभिहितानि । परंपरया तु कारणविरुद्धकार्यं व्याप
-
कविरुद्धकार्यं कारणव्यापकविरुद्धकार्यं व्यापककारणविरुद्धकार्यं कारणविरुद्धकारणं व्यापकविरुद्धकारणं कार
-
णव्यापकविरुद्धकारणं व्यापककारणविरुद्धकारणं चेति तथा कारणविरुद्धव्याप्यादीनि कारणविरुद्धचहचरा
-
२०
दीनि च यथाप्रतीति वक्तव्यानि । तत्र कारणविरुद्धकार्यं–नास्त्यस्य हिमजनितरोमहर्षादिविशेशो धूमात्
इति प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निः तत्कार्यं धूम इति । व्यापकविरुद्धकार्यं
नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पर्शविशेषो धूमात् इति शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापकं शी
-
तसामान्यं तद्विरुद्धोऽग्निः तस्य कार्यं धूम इति । कारणव्यापकविरुद्धकार्यं नास्त्यत्र हिमत्वव्याप्तहिमविशे
-
षजनितरोमहर्षादिविशेषो धूमात् इति रोमहर्षादिविशेषस्य हि कारणं हिमविशेषस्तस्य व्यापकं हिमत्वं
२५
तद्विरुद्धोग्निः तत्कार्यं धूम इति । व्यापककारणविरुद्धकार्यं — नास्त्यत्र शीतस्पर्शविशेषस्तद्व्यापकशीतस्प
-
र्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति शीतस्पर्शविशेषस्य हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिमं
तद्विरुद्धोग्निस्तत्कार्यं धूम इति । कारणविरुद्धकारणं–नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणात् मि
-
थ्याचरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं । तत्त्वार्थो
-
पदेशश्रवणे सत्यपि कस्य चित्तत्वज्ञानासंभवाद् ग्रहणवचनं । तत्त्वार्थानां श्रद्धानपूर्वकं–अवधारणं हि
३०
ग्रहणमिष्टं, अन्यथास्य ग्रहणाभासत्वात् । मिथ्याचरणस्य वात्र नास्तिता साध्यते न पुनरनाचरणस्य
तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासंभवात् — अनाचारस्य प्रसिद्धेः । न तु मि
-
थ्याचरणमप्यस्य संभवति तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति । तथा व्यापकविरुद्धकारणं
लिंगं–नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणात् इति आत्मनि मिथ्याज्ञानविशेषस्य व्यापकं मिथ्या
-
ज्ञानमात्रं तद्विरुद्धं सत्यज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं यथार्थोपवर्णितमिति । कारणव्यापकविरुद्ध
-
३५
कारणं–नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणादिति अत्र मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः
तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं, तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति प्रत्येयं ।
व्यापककारणविरुद्धकारणं लिंगं नास्त्यस्य मिथ्याचरणविशेषस्तत्त्वार्थोपदेशग्रहणादिति मिथ्याचरण विशे
-
षस्य हि व्यापकं मिथ्याचरणसामान्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदे
-
(? ) रूपसामान्यात् । स्पर्शसामान्यं हि इति शोधितं ।
७४
शग्रहणमिति तथा कारणविरुद्धव्याप्यं लिंगं न संति सर्वथैकांतवादिनः प्रशमसंवेगानुकंपास्तिक्यानि
वैपर्यासिकमिथ्यादर्शनविशेषात् । प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनसामान्यं तेन
व्याप्यं मिथ्यादर्शनं वैपर्यासिकविशिष्टमिति । व्यापकविरुद्धव्याप्यं–न संति स्याद्वादिनो वैपर्यासिकादिमि
-
थ्यादर्शनविशेषाः सत्यज्ञानविशेषात् इति वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसा
-
०५
मान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य व्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धव्याप्यं — न
संत्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति, प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषः तस्य व्यापकं सम्य
-
ग्दर्शनसामान्यं तद्विरुद्धं मिथ्याज्ञानसामान्यं तेन व्याप्तो मिथ्याज्ञानविशेष इति । व्यापककारणविरुद्ध
व्याप्यं लिंगं न संत्यस्य तत्त्वज्ञानविशेषाः मिथ्यार्थोपदेशग्रहणविशेषात् । तत्त्वज्ञानविशेषाणां व्यापकं
तत्त्वज्ञानसामान्यं तस्य कारणं तत्त्वार्थोपदेशग्रहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्यं तेन व्याप्तो
१०
मिथ्यार्थोपदेशग्रहणविशेष इति । एवं कारणविरुद्धसहचरं लिंगं–संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति
प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्ध
-
सहचरं–न संत्यस्य मिथ्यादर्शनविशेषाः सम्यग्ज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्श
-
नसामान्यं तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरं —
न संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्य
-
१५
ग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापककारणविरुद्धसहचरं न संत्यस्य
मिथ्यादर्शनविशेषाः सत्यज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारणं
दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । तदेत्सामान्यतो विरोधिलिंगं, प्रपंचतो
द्वाविंशतिप्रकारमपि भूतमभूतस्य गमकमन्यथानुपपन्नत्वनियमनिश्चयलक्षणत्वात् प्रतिपत्तव्यं । भूतं भूतस्य
प्रयोजकं कार्यादि षट्प्रकारं पूर्वमुक्तं । तदित्थं विधिमुखेन विधायकं
-
प्रतिषेधमुखेन प्रतिषेधकं च लिंगम
-
२०
भिधाय सांप्रतं प्रतिषेधमुखेन विधायकं प्रतिषेधकं च साधनमभिधीयते तत्राभूतं भूतस्य विधायकं
-
यथा —
अस्त्यस्य प्राणिनो व्याधिविशेषो निरामयचेष्टानुपलब्धेरिति । तथा — अस्ति सर्वथैकांतवादिनामज्ञानादि
-
र्दोषः युक्तिशास्त्राविरुद्धवचनाभावात् इति अस्त्यस्य मुनेराप्तत्वं विसंवादकत्वाभावात् । अभूदेतस्य ताल
-
फलस्य पतनकर्म वृंतसंयोगाभावात् इति वहुधा दृष्टव्यं । तथैवाभूतमभूतस्य प्रतिषेधस्य प्रतिषेधकं यथा —
नास्त्यत्र शवशरीरे बुद्धिर्व्यापारव्याहाराकारविशेषानुपलब्धेरिति कार्यानुपलब्धिः । न संत्यस्य प्रशमादीनि
२५
तत्त्वार्थश्रद्धानानुपलब्धेरिति कारणानुपलब्धिः । नास्त्यत्र शिंशपा वृक्षानुपलब्धेरिति व्यापकानुपलब्धिः ।
नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनाभावात् इति सहचरानुपलब्धिः । न भविष्यति मुहूर्तांते शकटोदयः कृत्ति
-
कोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्तात्प्राक्कृत्तिकोदयानुपलब्धेरिति उत्तरचरानुप
-
लब्धिः । एव परंपरया कारणाद्यनुपलब्धिः व्यापकव्यापकानुपलब्ध्यादिकमपि बहुधा प्रतिषेधद्वारेण
प्रतिषेधसाधनमवधारणीयं ।
३०
अत्र संग्रहश्लोकाः —
स्यात्कार्यं कारणव्याप्यं प्राक् सहोत्तरचारि च
लिंगं तल्लक्षणव्याप्तेर्भूतं भूतस्य साधकं ॥ १ ॥
षोढा विरुद्धकार्यादि साक्षादेवोपवर्णितं
लिंगं भूतमभूतस्य लिंगलक्षणयोगतः ॥ २ ॥
३५
पारंपर्यात्तु कार्यं स्यात् कारणं व्याप्यमेव च
सहचारि च निर्दिष्टं प्रत्येकं तच्चतुर्विधं ॥ ३ ॥
कारणाद्द्विष्ठकार्यादिभेदेनोदाहृतं पुरा
यथा षोडशभेदं स्यात् द्वाविंशातिविधं ततः ॥ ४ ॥
लिंगं समुदितं ज्ञेयमन्यथानुपपत्तिमत्
७५
तथा भूतमभूतस्याप्यूह्यमन्यदपीदृशं ॥ ५ ॥
अभूतं भूतमुन्नीतं भूतस्यानेकधा बुधैः
तथा
१
ऽभूतमभूतस्य यथायोग्यमुदाहरेत् ॥ ६ ॥
बहुधाप्येवमाख्यातं संक्षेपेण चतुर्विधं
०५
अतिसंक्षेपतो द्वेधोपलंभानुपलंभभृत् ॥ ७ ॥
एतेन कार्यस्वभावानुपलंभविकल्पात् त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः सहचरादेर्लिंगांतरत्वात्
प्रत्यक्षपूर्वकं त्रिविधमनुमानं
-
पूर्ववच्छेषवत्सामान्यतोदृष्टमित्यपि । यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववत्सामान्य
-
तोदृष्टं केवलव्यतिरेकि पूर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेकि व्याख्यायते त्रिसूत्रीकरणादस्य सूत्रस्य तदा न
किंचिद्विरुद्धं निगदितलिंगप्रकारेषु त्रिविधस्यापि संभवात् । यथोपपत्तिनियमात्केवलान्वयिनो गमकत्वाविरोधात् ।
१०
तत्र वैधर्म्यदृष्टांताभावेऽपि साध्याविनाभावनियमनिश्चयात् । अथ पूर्ववत्कारणात्कार्यानुमानं शेषवत् कार्या
-
त्कारणानुमानं सामान्यतो दृष्टं । अकार्यकारणादकार्यकारणानुमानं सामान्यतोऽविनाभावमात्रादिति व्याख्यायते
तदापि स्याद्वादिनामभिमतमेव तथा सर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात् । यदापि पूर्ववत्पूर्वलिंग
-
लिंगिसंबंधस्य क्वचिन्निश्चयादन्यत्र पूर्ववद्वर्तमानं शेषवत्परिशेषानुमानं प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तेः ।
सामान्यतो दृष्टं विशिष्टव्यक्तौ संबंधाग्रहणात्सामान्येन दृष्टं यथा — गतिमानादित्यः देशाद्देशांतरप्राप्तेः देवद
-
१५
त्तवदिति व्याख्या विधीयते तदापि स्याद्वादिनां नानवधेयं प्रतिपादितहेतुप्रपंचस्यैव विशेषप्रकाशनात् ।
सर्वं हि लिंगं पूर्ववदेव परिशेषानुमानस्यापि पूर्ववत्त्वसिद्धेः, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य
पूर्वं क्वचिन्निश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ साधनस्य प्रयोगात् । सामान्यतोदृष्टस्य च पूर्ववत्त्व
-
प्रतीतेः क्वचिद्देशांतरप्राप्तेः । गतिमत्यविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेरन्यथा तदनुमानाप्रवृत्तेः ।
परिशेषानुमानमेव वा सर्वं संप्रतीयते पूर्ववतोऽपि धूमात्पावकानुमानस्य प्रसक्तौ पावकप्रतिषेधात् प्रवृत्तिघटनात् ।
२०
तदप्रतिपत्तौ विवादानुपपत्तेरनुमानवैयर्थ्यात् तथा सामान्यतोदृष्टस्यापि देशांतरप्राप्तेरादित्यगत्यनुमानस्य
तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तेरिति । सकलं सामान्यतोदृष्टमेव वा सर्वत्र सामान्येनैव लिंगलिंगि
संबंधप्रतिपत्तेर्विशेषतस्तत्संबंधस्य प्रतिपत्तुमशक्तेः । केन चिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव
प्रकारांतरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिश्चय एव हेतोः प्रयोजकत्वनिमित्तं तस्मिन्
सति हेतुप्रकारभेदपरिकल्पनायाः प्रतिपत्तुरभिप्रायवैचित्र्यात् । वैचित्र्यं नान्यथेति सुनिश्चितं नश्चेतसि तथा
२५
प्रतीतेरबाध्यमानत्वात् । यदापि–अवीतं वीतं वीतावीतमिति लिंगं त्रिविधमनुमन्यते तदापि नान्यथानुपपन्नत्व
नियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुप्रपंचबहिर्भूतं समयांतरभाषया केवलान्वय्यादि
त्रयस्यैव तथाविधानात् । क्वचित्साध्यसाधनधर्मयोः साहचर्यमविनाभावनियमलक्षणमुपलभ्यान्यत्र साधनधर्म
-
दर्शनात् । साध्यधर्मप्रतिपत्तिरावीतमुच्यते यथा गुणागुणिनौ परस्परं भिन्नौ भिन्नप्रत्ययविषयत्वात् घटपटव
-
दीति तच्च केवलान्वयीष्यते कथंचिद्भेदएव साध्ये ऽन्यथानुपपन्नत्वसिद्धेः सर्वथा भेदे गुणगुणिभावविरोधात्
३०
गमकत्वासिद्धेः । तथा क्वचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्तिं नियमवतीमुपलभ्यान्यत्र
तद्धर्मस्य निश्चयात् साध्यसिद्धिर्वीतं कथ्यते यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इति तदिदं केवल
व्यतिरेकीष्ठं परिणामिनात्मना सात्मकत्वव्यावृत्तौ भस्मनि प्राणादिमत्त्वव्यावृत्तिनियमनिश्चयात् निरन्वय
क्षणिकचित्तवत् कूटस्थेनात्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् । वीतावितं तु तदुभयलक्षणयोगादन्व
-
यव्यतिरेकि धूमादेः पावकाद्यनुमानं प्रसिद्धमेवेति न हेत्वंतरमस्ति ततः सूक्तं — अन्यथानुपपत्तिनियमनिश्चय
-
३५
लक्षणं साधनं अतिसंक्षेपविस्तरतोऽभिहितस्य सकलसाधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्सा
-
धनात् साध्ये साधयितुं शक्ये, अभिप्रेते क्वचिदप्रसिद्धे च विज्ञानमनुमानमिति । साधयितुमशक्ये सर्वथैकांते
साधनस्याप्रवृत्तेः तत्र तस्य विरुद्धत्वात् स्वयमनभिप्रेते चातिप्रसंगात् प्रसिद्धे च वैयर्थ्यात् तस्य साध्याभासत्त्व
प्रसिद्धेः प्रत्यक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयात् ।
१ लिङ्गम् इति पठांतरं
७६
तदुक्तं — अकलंकदेवैः —
साध्यं शक्यमभिप्रेतेमप्रसिद्धं ततोऽपरे
साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ १ ॥
तदेत्साधनात् साध्यविज्ञानमनुमानं स्वार्थमभिनिबोधलक्षणं विशिष्टमतिज्ञानं साध्यं प्रत्यभिमुखान्नित्थमि
-
०५
तात्साधनादुपजातबोधस्य तर्कफलस्याभिनिबोध इति संज्ञाप्रतिपादनात् । परार्थमनुमानमनक्षरश्रुतज्ञानं —
अक्षरश्रुतज्ञानं च तस्य श्रोत्रमतिपूर्वकस्य च तथात्वोपपत्तेः ? । शब्दात्मकं तु परार्थानुमानमयुक्तं शब्दस्य
प्रत्यवमर्शिनोऽपि सर्वस्य द्रव्यागमरूपत्वप्रतीतेः कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थं न भवेत् सर्वथा
विशेषाभावात् प्रतिपादकप्रतिपाद्यजनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धेरुपचारादनुमानपरामर्शिनो
वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथातिप्रसंगादिति बोद्धव्यं । तदेत्परोक्षं प्रमाणमविशदत्वात्
१०
श्रुतज्ञानवत् ।
किं पुनः श्रुतज्ञानमित्येतदभिधीयते — श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमविशेषांतरंगे कारणे सति
बहिरंगे मतिज्ञाने च, अनिंद्रियविषयालंबनं, अविशदं ज्ञानं श्रुतज्ञानं । केवलज्ञानं तीर्थकरत्वनामपुण्याति
-
शयोदयनिमित्तकभगवत्तीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंगृहीतं स्यादिति न शंकनीयं
तस्यापि श्रोत्रमतिपूर्वकत्वात् । प्रसिद्धमतिश्रुतावधिमनःपर्ययज्ञानानि वचनजनितप्रतिपाद्यजनवचनश्रुतज्ञा
-
१५
नवत् । समुद्रघोषजलधरस्वनश्रुतिजनिततदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा ततो निरवद्यं श्रुतज्ञानलक्षणं
-
अव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात् । अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणमविसंवादकत्वात्
प्रत्यक्षानुमानवत् । नचासिद्धमविसंवादकत्वमस्येति शंकितव्यं ततोऽर्थं परिच्छिद्य प्रवर्तमानस्य विसंवादा
-
भावात् सर्वदाऽर्थक्रियायां संवादप्रसिद्धेः प्रत्यक्षादिवत् ।
ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादर्थं प्रतिपद्य वर्तमानस्यार्थक्रियायामविसंवादकस्य क्वचिदभावात् न
२०
प्रामाण्यं सर्वत्रानाश्वासादिति चेत् ? न प्रत्यक्षादेरपि शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रवर्त
मानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात् । सर्वत्र प्रत्यक्षेऽनाश्वासादप्रामाण्यप्रसंगात् । प्रत्यक्षाभासे
विसंवाददर्शनान्न प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत्तर्हि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धेः सत्यश्रुतज्ञाने कथम
-
नाश्वासः ? नच सत्यं श्रुतज्ञानमसिद्धं तस्य लोके प्रसिद्धत्वात् सुयुक्तिकसद्भावाच्च तथाहि श्रोत्रमतिपूर्वकं श्रुतज्ञानं
प्रकृतं सत्यमेव अदुष्टकारणजन्यत्वात् प्रत्यक्षादिवत् । तद्द्विविधं सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चोभ
-
२५
यमदुष्टकारणजन्यं गुणवाद्वक्तृकशब्दजनितत्वात् ।
ननु च नद्यास्तीरे मोदकराशयः संतीति प्रहसनेन गुणवद्वक्तृकशब्दादुपजनितस्यापि श्रुतज्ञानस्यास
-
त्यत्वसिद्धेर्व्यभिचारिगुणवद्वक्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये ततो न तत्तद्गमकमिति न मंतव्यं
प्रहसनपरस्य वक्तुर्गुणवत्त्वासिद्धेः प्रहसनस्यैव दोषत्वादज्ञानादिवत् । कथं पुनर्विवादापन्नस्य श्रोत्रमतिपूर्वक
श्रुतज्ञानस्थ गुणवद्वक्तृकशब्दजनितत्वं सिद्धं ? इति चेत् सुनिशचितासंभवद्बाधकत्वादिति भाषामहे ।
३०
प्रत्यक्षे ह्यर्थे प्रत्यक्षस्यानुमेयेऽनुमानस्यांत्यंतपरोक्षे चागमस्य बाधकस्यासंभवात् असंभवद्बाधकत्वं तस्य सिद्धं ।
देशकालपुरुषांतरापेक्षयापि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमपि साधनस्येति नासिद्धताशंकावतरति ।
नाप्येनैकांतिकता विपक्षे क्वचिदसंभवात् । न विरुद्धता सुनिश्चितासंभवद्बाधकस्य श्रुतज्ञानस्य अगुणवद्वक्तृक
शब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासंभाव्यमानत्वात् । तथा व्याहतत्वाच्च । कथंचिदपौरुषेयशब्दजनित
श्रुतज्ञानस्य तु गुणवद्वक्तृकशब्दजनितत्वेनादुष्टकारणजन्यत्वं सिद्ध्येत् । ततश्च सत्यत्वमिति स्याद्वादिनां
३५
सर्वमनवद्यं पर्यायार्थिकनयप्राधान्यात् द्रव्यार्थिकनयगुणभावाच्च श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्व
-
सिद्धेः द्रव्यार्थिकप्राधान्यात्पर्यायार्थिकगुणभावाच्च गुणवद्व्याख्यातृकशब्दजनितत्वोपपत्तेश्च । नच सर्वथा
पौरुषेयःशब्दोऽपौरुषेयो वा प्रमाणतः सिद्ध्यते ।
ननु च विवादापन्नः शब्दः पौरुषेय एव प्रयत्नानंतरीयकत्वात् पटादिवदित्यनुमानात् आगमस्य द्वाद
-
शांगस्यांगबाह्यस्य चानेकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवदिति कश्चित् सोऽप्येवं पृष्टः सन्नाचष्टां–किं
७७
सर्वथा प्रयत्नांतरीयत्वहेतुः कथंचिद्वा ? सर्वथा चेत्? अप्रसिद्धः स्याद्वादिनो द्रव्यार्थादिप्रयत्नांनंतरीयकत्वादा
-
गमस्य । कथंचिच्चेद्विरुद्धः कथंचिदपौरुषयत्वसाधनात् । प्रयत्नानंतरीयकत्वं हि प्रवचनस्योच्चारकपुरुष
-
प्रयत्नानंतरोपलंभात् स्यात् उत्पादकपुरुषप्रयत्नांनंतरोपलंभाद्वा ? प्रथमकल्पनायामुच्चारकपुरुषापेक्षया पौरु
-
षेयत्वमेव तस्य संप्रति पुराणपुरुषोत्पादितकाव्यप्रबंधस्येव प्रसक्तं । न पुनरुत्पादकपुरुषापेक्षया प्रवचनस्याना
-
०५
दिनिधनस्योत्पादकपुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत् ? वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्यो
-
त्पादकः स स्यात् ? न तावद्वर्णात्मनस्तद्वर्णानां प्रागपि भावात् तत्सदृशानां पूर्वं भावो न पुनस्तेषां घटादी
-
नामिवेति चेत् कथमिदानीमनुवादकस्तेषामुत्पादको न स्यात् ? तदनुवादात् प्रागपि तत्सदृशानामेव
सद्भावात् तेषामनूद्यमानानां तदैव सद्भावात् । तथाच न कश्चिदुत्पादको वर्णानां सर्वस्योत्पादकत्वसिद्धेः ।
यथैव हि कुंभादीनां कुंभकारादिरुत्पादक एव न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः
१०
पूर्वोपलब्धवर्णानां सांप्रतिकवर्णानां च सादृश्यादेकेत्वोपचारात्पश्चाद्वादकोऽनुवादक एव । असावाह वर्णान्ना
-
हमिति स्वातंत्र्यपरिहरणात्पारतंत्र्यानुसरणादिति चेत् तर्हि यथा वर्णानां पठितानुवादकः तथा पाठयितापि
तस्यापि स्वातंत्र्याभावात् सर्वस्य स्वोपाध्यायपरतंत्रत्वात् तत एवं वक्तव्यं —
नेह वर्णान्नरः कश्चित् स्वातंत्र्येण प्रपद्यते
यथैवास्मै परैरुक्तास्तथैवैतान्विवक्ष्यते ॥ १ ॥
१५
परेप्येवं विवक्ष्यंति तस्मादेषामनादिता
प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ॥ २ ॥
तथा च सर्वज्ञोप्यनुवादक एव पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्टिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् ।
तस्य पूर्वसर्वज्ञोदितवर्णानुपलंभे पुनरसर्वज्ञत्वप्रसक्तिः । तदेवमनादिसर्वज्ञसंततिमिच्छतां न कश्चित्सर्वज्ञो
वर्णानामुत्पादकस्तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तं प्रव
-
२०
चनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामेवोत्तरोत्तरसर्वज्ञेनानुवादात् सर्वदांगप्रविष्टांगबाह्यश्रुतस्य शब्दा
-
त्मनो द्वादशविकल्पानेकविकल्पस्यान्यादृशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादकायोगात् ।
स्यान्मतं — महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादकः प्रथमं सृष्टिकाले जगतामिवोपपन्नस्तस्य
सर्वदा स्वतंत्रत्वात् सर्वज्ञांतरपरतंत्रतापायात् तदनुवादकत्वायोगादिति तदप्यसत्यं तस्यानादेरेकस्येश्वरस्या
प्तपरीक्षायां प्रतिक्षिप्तत्वात्, परीक्षाक्षमत्वाभावात् कपिलादिवत् । संभवे वा सदैवैश्वरः सर्वज्ञो ब्राह्मेण मानेन
२५
वर्षाशतांते वर्षशतांते जगतो सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तर
-
स्मिन्नुत्तरस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न भवेत् ? । न ह्येकः कविः स्वकृतकाव्यस्य पुनः
पुनर्वक्तानुवादको न स्यात् इति वक्तुं युक्तं,
१
शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्
इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासंभवे पुनरुक्तस्यैव सिद्धेः ततः कस्य
-
३०
चित्स्वयं कृतं काव्यं पुनः पुनर्वदतोऽनुवादकत्वे महेश्वरः सर्वदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरो
-
त्तरस्यानुवादरूपत्वात् । नच पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्वरः करोति इति घटते
तेषां कुतश्चित्प्रमाणादप्रसिद्धेः प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात् । अथाशक्तेरुतप्रयो
-
जनाभावादिति ? न तावदज्ञानात् सर्वज्ञत्वविरोधात् तस्य सर्वप्रकारवर्णपदवाक्यवेदित्यसिद्धेः अन्यथानी
-
श्वरत्वप्रसंगात् । नाप्यशक्तेः–ईश्वरस्यानंतशक्तित्ववचनात् । यदि ह्येकदा कानि चिदेव वर्णादीनि प्रणेतुमीश्व
-
३५
रस्य शक्तिर्नान्यानि तदा कथमनंतशक्तिः स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतीति चेत् न सक
-
लवाचकप्रकाशनस्यैव प्रयोजनत्वात् सकलवाच्यार्थप्रकाशनवत् । सकलजगत्कारणवद्वा प्रतिपाद्यजनानु
-
रोधात् केषां चिदेव वर्णादीनां प्रणयने जगदुपभोक्तृप्राण्यनुरोधात् केषांचिदेव जगत्कार्याणां करणं स्या
-
१ गौतमीयं सूत्रं ।
७८
न्न सर्वेषां । तथा चेश्वरकृतैः कार्यैः कार्यत्वादिति हेतुर्व्यभिचारित्वान्न सर्वकार्याणामीश्वरनिमित्तत्वं साधयेत् ।
नच सकलप्रकारवर्णादिवाचकप्रपंचं जिज्ञासमानः कश्चित्प्रतिपाद्य एव न संभवतीति वक्तुं युक्तं सर्वज्ञवचन
स्याप्रतिग्राहकत्वप्रसंगात् । तत्संभवे च सर्गे सर्गे सकलवर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यात् न पुन
-
रुत्पादकः सर्वदैवेति सिद्धं ततोऽनेक एव सर्वज्ञोऽस्तु किमेकेश्वरस्य कल्पनया यथा चैको नवमिति वदति
०५
तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात् वस्तुव्यवस्थानासंभवस्तथैकस्यापीश्वरस्यानेकसर्ग
कालप्रवृत्तावनेकोपदेशाभ्यनुज्ञानात् । तत्र पूर्वस्मिन् सर्गे नवमित्युपदेशीश्वरेण तदेवोत्तरस्मिन् सर्गे पुराण
-
मित्युपदिश्यते न पुनरेकदैव नवं पूराणं चैकमिति व्याघातासंभवे कथमनेकस्यापि सर्वज्ञस्य कालभेदेन नव
-
मिति पुराणमित्युपदेशतस्तत्त्ववचनव्याघातः ? इत्यलमनाद्येकेश्वरकल्पनया तत्साधनोपायासंभवात् ।
सोपायसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्धः निरतकालोच्छन्नस्य परमागमस्य प्रवंधेनाभिव्यंजकोऽनु
-
१०
वादक इति प्रयत्नानंतरमभिव्यक्तेः कथं चित्प्रयत्नानंतरीयकत्वं कथंचित्पौरुषेयत्वं साधयेत्–तथाहि —
परमागमसंतानमनादिनिधनक्रमं नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥
यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् तथान्योऽपि तमेव चानादिः सर्वज्ञसंततिः ॥ २ ॥
सिद्धा तत्प्रोक्तशब्दोत्थं श्रुतज्ञानमशेषतः प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ॥ ३ ॥
ततो बाह्यं पूनर्द्वेधा पौरुषेयपदक्रमात् जातमार्षादनार्षाच्च समासव्यासतोन्वितात् ॥ ४ ॥
१५
तत्रार्षमृषिभिः प्रोक्ताददुष्टैर्वचनक्रमात् समुद्भूतं श्रुतज्ञानं प्रमाणं बाधकात्ययात् ॥ ५ ॥
अनार्षं तु द्विधोद्दिष्टं समयांतरसंगतं लौकिकं चेति तन्मिथ्या प्रवादिवचनोद्भवं ॥ ६ ॥
दुष्टकारणजन्यत्वादप्रमाणं कथं च न सम्यग्दृष्टेस्तदेतत्स्यात् प्रमाणं सुनयार्पणात् ॥ ७ ॥
नन्वदुष्टकारणजन्यत्वेन श्रुतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानस्य प्रामाण्यं स्यात् पुरुषदोषरहिता
-
याश्चोदनायाः सर्वथाप्यपौरुषेयजनितत्वात् ।
२०
तदुक्तं —
चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः ।
कारणैर्जन्यमानत्वाल्लिंगाप्तोक्त्यक्षबुद्धिवत् ॥ १ ॥
तदेतदुक्तं —
गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनाभिप्रेतत्वात् लिंगाप्तोक्त्यक्षबुद्धिषु तथैव तस्य प्रति
-
२५
पत्तेः । न हि लिंगस्यापौरुषेयत्वमदुष्टं साध्याविनाभावनियमनिश्चयाख्येन गुणेन गुणवत्त्वस्यादुष्टत्वस्य प्रती
-
तेः । तथाप्रोक्तेरविसंवादकत्वगुणेन गुणवत्त्वस्य तथाक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति ।
ननु चादुष्टत्वं दोषरहितत्वं कारणस्य तच्च क्वचिद्दोषविरुद्धस्य गुणस्य सद्भावात् । तथा मन्वादिस्मृ
-
तिवचने क्वचिद्दोषकारणभावात् । यथा चोदनायां तदुक्तं —
शब्दे दोषोद्भवस्तावद्वक्त्रधीनमिति स्थितं
३०
तदभावः क्वचित्तावद्गुणवद्वक्तृकत्वतः ॥ १ ॥
तद्गुणैरपकृष्टानां शब्दे संक्रांत्यसंभवात्
यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥
तदप्यसरं सर्वत्र गुणाभावस्यैव दोषवत्त्वात्, गुणसद्भावस्यैव चादोषप्रतीतेरभावस्य भावांतरस्वभाव
-
त्वसिद्धेः, अन्यथा प्रमाणविषयत्वविरोधात् । गुणवद्वक्तृकत्वस्य हि दोषरहितस्य वक्तृकत्वस्य संप्रत्ययः कथम
-
३५
न्यथा गुणदोषयोः सहानवस्थानं युज्येत ? रागद्वेषमोहादिवक्तुर्दोषावितथाभिधानहेतवः । तद्विरुद्धाश्च वैरा
-
ग्यक्षमातत्त्वावबोधास्तदभावात्मकाः सत्याभिधानहेतवो गुणा इति परीक्षकजनमनसि वर्तते नच मन्वादयः
स्मृतिशास्त्राणां प्रणेतारो गुणवंतस्तेषां तादृशगुणाभावात् । निर्दोषवेदपराधीनवचनत्वात्तेषां गुणवत्त्वमित्य
-
प्यसंभावनीयं वेदस्य गुणवत्त्वासिद्धेः पुरुषस्य गुणाश्रयस्याभावात् । यथैव हि दोषवान् वेदान्निवर्तमानो
७९
निर्दोषतामस्य साधयेत् तथासौ गुणवानपि–अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव
गुणस्तदानादिम्लेच्छव्यवहारस्यापि गुणवत्त्वं–अपौरुषेयत्वाविशेषात् ।
तदेवं —
नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा
०५
तद्व्याख्यातुः प्रवक्तुर्वा म्लेक्षादिव्यवहारवत् ॥ १ ॥
तया यज्जनितं ज्ञानं तन्नादुष्टनिमित्तजं
सिद्धं येन प्रमाणं स्यात् परमागमबोधवत् ॥ २ ॥
वेदस्य पोरुषेयस्योच्छिन्नस्य चिरकालतः
सर्वज्ञेन विना कश्चिन्नोद्धर्तातींद्रियार्थदृक् ॥ ३ ॥
१०
स्याद्वादिनां तु सर्वज्ञसंतानः स्यात्प्रकाशकः
परमागमसंतानस्योच्छिन्नस्य कथंचन ॥ ४ ॥
सर्वभाषाकुभाषाश्च तद्वत्सर्वार्थवेदिभिः
प्रकाश्यते ध्वनिस्तेषां सर्वभाषास्वभावकः ॥ ५ ॥
तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा
१५
अदुष्टकारणोद्भूतेः प्रत्यक्षवदिति स्थितं ॥ ६ ॥
ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे प्रमाणांतराणां सकलानामप्यत्र संग्रहात् इति संख्या
-
विप्रतिपत्तिनिराकरणमनवद्यं स्वरूपविप्रतिपत्तिनिराकरणवत् ।
विषयविप्रतिपत्तिनिराकरणार्थं पुनरिदमभिधीयते — द्रव्यपर्यायात्मकः प्रमाणाविषयः प्रमाणविषयत्वान्य
-
थानुपपत्तेः प्रत्यक्षविषयेण स्वलक्षणेन, अनुमानादिविषयेण च सामान्येन हेतोर्व्यभिचार इति न मंतव्यं
२०
तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः स्वलक्षणं पर्यायमात्रं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामा
-
न्यद्रव्यमात्रं विशेषमात्रमिव प्रतिपद्येमहि सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यंतरस्योपलब्धेः
प्रवर्तमानस्य च तत्प्राप्तेः अन्यथार्थक्रियानुपपत्तेः । न हि स्वलक्षणमर्थक्रियासमर्थं क्रमयौगपद्यविरोधात्
सामान्यवत् । नच तत्र क्रमयौगपद्ये संभवतः परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्वात् सर्व
-
थाप्यपरिणामिनः क्षणिकस्य नित्यस्य च तद्विरोधसिद्धेः प्रसिद्धे च सामान्यविशेषात्मनि वस्तुनि तदंशमात्रे
२५
विशेषे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम प्रमाणस्य यथावस्तितवस्तुग्रहणलक्षणत्वात् तदेकदेशग्रा
-
हिणः सापेक्षस्य सुनयत्वान्निरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकांतः साधनस्य स्यात् । तत्र
प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतःसिद्धो द्रव्यपर्यायात्मार्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः ।
फलविप्रतिपत्तिनिवृत्त्यर्थं प्रतिपाद्यते–प्रमाणात्फलं कथंचिद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः ।
हानोपादोनोपेक्षाबुद्धिरूपेण प्रमाणफलेनानेकांत इति न शंकनीयं तस्याप्येकप्रमात्रात्मना प्रमाणादभेद
-
३०
सिद्धेः प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा संतानांतरवत्प्रमाणफलभावविरोधात् । साक्षा
-
दज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानं तस्यापि कथंचित्प्र
-
माणाद्भेदप्रसिद्धेः प्रमाणफलयोर्निरुक्तिसाधनविरोधात् । करणसाधनं हि प्रमाणं स्वार्थनिर्णीतौ साधकतम
-
त्वात् । स्वार्थनिर्णीतिरज्ञाननिवृत्तिः फलं भावसाधनं तत्साध्यत्वात् । एतेन कर्तृसाधनात् प्रमाणात्कथंचि
-
द्भेदः प्रतिपादितः तस्य स्वार्थनिर्णीतौ स्वतंत्रत्वात् । स्वतंत्रस्य च कर्तृत्वात् स्वार्थनिर्णीतेस्तु अज्ञाननिवृत्ति
-
३५
स्वभावायाः क्रियात्वात् । नच क्रियाक्रियावतोऽर्थांतरमेवानर्थांतरमेव वा क्रियाक्रियावद्भावविरोधात् । भाव
-
साधनात्प्रमाणादज्ञाननिवृत्तिरभिन्नैवेति, अयुक्तं प्रमातुरुदासीनावस्थायामव्याप्रियमाणस्य प्रमाणशक्तेर्भावसाधन
प्रमाणस्य व्यवस्थापितत्वात् तस्याज्ञाननिवृत्तिफलत्वासंभवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणम
-
ज्ञाननिवृत्तिं साधयेत् नान्यथा अतिप्रसंगात् । ततः सूक्तं —
८०
प्रमाणात्कथंचिद्भिन्नाभिन्नं फलमिति
ततस्तस्य सर्वथा भेदे बाधकवचनात् । अभेदवत्संवृत्या प्रमाणफलव्यवहार इत्यप्रातीतिकवचनं
परमार्थतः स्वेष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चेष्टसिद्धिलणमभ्यनुज्ञातव्यं । ततःसर्वपुरुषार्थ
-
सिद्धिविधानादिति संक्षेपः ।
०५
इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्याविषयं फलं ततः
प्रबुध्य तत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्याफलमिष्टमुच्चकैः ॥ १ ॥
इति श्रीस्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता ।