तत्त्वार्थ / तत्त्वार्थराजवार्त्तिक / तत्त्वार्थराजवार्त्तिकव्याख्या १९९९
अकलङ्क्देव-विरचितं तत्त्वार्थवार्तिकम् (राजवार्तिकम्) हिन्द् ...
१ श्रीमद्भट्टाकलङ्कदेवविरचितं तत्त्वार्थवार्तिकम् प्रणम्य सर्वविज्ञानमहास्पदमुरुश्रियम् । निर्धूतकल्मषं वीरं वक्ष्ये तत्त्वार्थवार्तिकम् ॥ १ ॥ श्रेयोमार्गप्रतिपित्सात्मद्रव्यप्रसिद्धेः । १ । उपयोगस्वभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य प्रसिद्धौ सत्यां तन्मार्गप्रतिपित्सोत्पद्यते । कथम् ? ०५चिकित्साविशेषप्रतिपत्तिवत् । २ । यथा व्याधिनिवृत्तिजफलश्रेयसां योक्ष्यमाणस्य चिकि- त्स्यस्य प्रसिद्धौ चिकित्सामार्गविशेषप्रतिपित्सोत्पद्यते तथा आत्मद्रव्यप्रसिद्धौ श्रेयोमार्गप्रति- पित्सेति । तस्मात् साधीयसी मोक्षमार्गव्याख्या स्वायम्भवीति । किञ्च, सर्वार्थप्रधानत्वात् । ३ । संसारिणः पुरुषस्य सर्वेष्वर्थेषु मोक्षः प्रधानम्, प्रधाने च कृतो यत्नः फलवान् भवति तस्मात्तन्मार्गोपदेशः कार्यः तदर्थत्वात् । १०मोक्षोपदेशः पुरुषार्थप्रधानत्वादिति चेत्; न; जिज्ञासमानार्थिप्रश्नापेक्षिप्रतिवचनसद्भा- वात् । ४ । आह मोक्षोपदेश एव कार्यो न मार्गोपदेशः । कस्मात् ? पुरुषार्थप्रधानत्वात् । सर्वश्रेयो- भ्यः पुंसो मोक्ष एव परं श्रेयः आत्यन्तिकानुपमश्रेयस्त्वादिति; तन्न; जिज्ञासमानार्थिप्रश्नापेक्षि- प्रतिवचनसद्भावात् । योऽसौ मोक्षेणार्थी जिज्ञासमानः स मार्गमेव पृष्टवान् न मोक्षम्, अतस्त- न्मार्गोपदेश एव न्याय्यः । १५मोक्षमेव कस्मान्नाप्राक्षीदिति चेत् ? न; कार्यविशेषसम्प्रतिपत्तेः । ५ । स्यादेतत् — अयं प्रष्टा मोक्षमेव कस्मान्न पृष्टवान् कैमर्थक्यान्मार्गं पृष्टवानिति ? तन्न; कार्यविशेषसम्प्रतिपत्तेः । मोक्षकार्यं प्रति सर्वेषां सद्वादिनां सम्प्रतिपत्तेर्न कारणं प्रति । कारणं तु प्रति विप्रतिपत्तिः, पाटलिपुत्रमार्गविप्रतिपत्तिवत् । ६ । यथा केचित् पुरुषा नानादिग्भागापेक्षिषु मार्गेषु विप्रतिपद्यन्ते न पाटलिपुत्रे प्राप्तव्ये, तथा मोक्षकार्यं प्रतिपद्य २०तदर्थमादृताः सर्वे सद्वादिनस्तत्कारणेषु विप्रतिपद्यन्ते । तद्यथा, केचित्तावदाहुः — ज्ञानादेव मोक्ष इति । अपर आहुः — ज्ञानवैराग्याभ्यामिति । पदार्थावबोधो ज्ञानम्, विषयसुखान- भिष्वङ्गलक्षणं वैराग्यमिति । अपर आहुः — क्रियात एव मोक्ष इति *“नित्यकर्महेतुकं निर्वाणम्” इति वचनात् । किञ्च, २ पराभिप्रायनिवृत्त्यशक्यत्वात् । ७ । न च परस्य प्रष्टुः प्रश्नाभिप्रायोऽस्मदादिभिः शक्यो निवर्तयितुं ‘मा प्राक्षीर्मार्गं मोक्षं पृच्छ’ इति, भिन्नरुचित्वाल्लोकस्य ।