युक्त्यनुशासनटीका १९१९
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Yuktyanuśāsanaṭīkā
Digitized print edition: Capture of the edition by Indralāl and Śrīlāl in 1919
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.
Digital text resource:
dcv/text/resources/YAT
,
February 18, 2022
The file at hand, "
YAT-IS-p
", is a transformation of the file "
YAT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Yuktyanuśāsana and the Yuktyanuśāsanaṭīkā.
"
YAT-IS-p
" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc.
Main steps in the preparation:
Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013.
Transliteration with H. Lasic' programme „dev2trans“, September 2012
Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022
Integration into DCV, March 2022
Excluded in plain text:
front
,
ref
type
=
inline-note
,
ref
ana
=
foot
,
note
,
ana
=
obsolete
,
type
=
note-block-page-foot
,
type
=
note-block-container
,
माणिकचन्द्र–दिगम्बर–जैन–ग्रन्थमालायाःपञ्चदशो ग्रन्थः ।
श्रीमत्समन्तभद्राचार्यप्रणीतं
युक्त्यनुशासनम् ।
श्रीविद्यानन्दाचार्यविरचितया टीकया समन्वितं
साहित्यशास्त्रि–पण्डित–इन्द्रलालैःकाव्यतीर्थ–पण्डित–
श्रीलालैश्च सम्पादितं संशोधितं च ।
प्रकाशयित्री–
माणिकचन्द्र–दिगम्बर–जैन–ग्रन्थमाला–समितिः
वैशाख, श्रीवोर नि° संवत् २४४६ ।
प्रथमावृत्तिः] वि° सं° १९७७ । [५००
१
ओं
श्रीवीतरागाय नमः ।
आचार्यप्रवरश्रीमद्विद्यानंदिप्रणीतया टीकयाविभूषितं
श्रीमत्समंतभद्राचार्यवर्यप्रणीतं
०५
युक्त्यनुशासनं ।
टीकाकर्त्तुर् मंगलाचरणं ।
प्रमाणनयनिर्णीतवस्तुतत्त्वम् अबाधितं ।
जीयात् समन्तभद्रस्य स्तोत्रं युक्त्यनुशासनं ॥
श्रीमत्समन्तभद्रस्वामिभिर् आप्तमीमांसायामन्ययोगव्यवच्छे
-
१०
दाद् व्यवस्थापितेन भगवता श्रीमतार्हतान्त्यतीर्थंकरपरमदेवेन
मां परीक्ष्य किं चिकीर्षवो भवन्तः ? इति ते पृष्टा इवप्राहुः —
कीर्त्या महत्या भुवि वर्द्धमानं
त्वां वर्द्धमानं स्तुतिगोचरत्वं ।
निनीषवः स्मो वयम् अद्य वीरं
१५
विशीर्णदोषाशयपाशबन्धं ॥
१
॥
टीका —
स्तुतिगोचरत्वं स्तोत्रविषयत्वं निनीषवो नेतुम् इ
-
च्छवो वयं मुमुक्षवो ऽद्यास्मिन् काले परीक्षावसानसमये स्मो
भवामस् त्वां वीरं नान्यत् किंचित् कर्तुकामा इतिप्रतिवचनेनाभि
-
२
संबंधः । कुतः स्तुतिगोचरत्वं नेतुम् इच्छवोभवन्त इत्य् आहुः —
ऋद्धमानम् इति प्रवृद्धप्रमाणत्वाद् इत्य् अर्थः, ऋद्धंप्रवृद्धं मानं
प्रमाणं यस्य स एव वर्द्धमान इत्य् उच्यते ।
किं पुनस् तत्र प्रमाणं प्रवृद्धम् इति चेत्, तत्त्वज्ञानमेव,
०५
तत्त्वज्ञानं प्रमाणं स्याद् इति वचनात् तस्यैवप्रवृद्धत्वोपपत्तेः
स्याद्वादनयसंस्कृतत्वात् । सन्निकर्षादेर् उपचाराद् अन्यत्रप्रमाण
-
त्वायोगान् निर्विकल्पकदर्शनवत् प्रवृद्धत्वासंभवात् । तत्त्वज्ञानं
पुनः स्वार्थव्यवसायात्मकं तत्त्वज्ञानत्वान्यथानुपपत्तेः । न ह्य् अव्यव
-
सायात्मकं तत्त्वज्ञानं नामा किंचित् करस्यतत्त्वज्ञानत्वप्रसंगात् ।
१०
नाकिंचित्करं तत्त्वज्ञानं व्यवसायकरस्य तत्त्वज्ञानत्वादिति
चेत्, न स्वयम् अव्यवसायात्मनो दर्शनस्यव्यवसायकरत्वविरो
-
धात् सुगतदर्शनवत् । क्षणक्षयादिदर्शनबुद्धव्यवसायवासना
-
प्रबोधसहकारि दर्शनं व्यवसायकारणं नापरम् इति चेत्, कुतो
व्यवसायवासनाप्रबोधः ? दर्शनाद् इति चेत्, तर्हिक्षणक्षयादा
-
१५
व् अपि स्यात् कथं च सुगतदर्शनं न स्यात् ? तत्राविद्योदयसत्त्वा
-
द् इति चेत्, तर्हि अविद्योदयसहायादर्शनात् स च भवतु क्ष
-
णक्षयादौ, नास्तीति मतं तदा दर्शनभेदप्रसंगः, न ह्येकम् एव
दर्शनं नीलादौव्यवसायवासनाप्रबोधनिबंधनाविद्योदयसमा
-
क्रान्तं क्षणक्षयादाव् अन्यथेति वक्तुं युक्तम् । स्यान् मतं, दर्शन
-
२०
स्याविद्योदयवैचित्र्याद् वैचित्र्यं ततस् तस्यान्यत्वात्तदन्यत्वे दर्श
-
नस्य वास्तवत्वाविरोधाद्, वास्तवं हि दर्शनम् अवास्तवावाऽवि
-
द्या, तदुभयभेदान् न दर्शनभेद इति । तद् अपिस्वसिद्धान्तमात्रं,
३
तस्या विकल्पवासनाहेतुत्वविरोधात्, वास्तवं हिकिंचित् क
-
स्यचित् कारणम् इष्टं नावास्तवं शशविषाणं, न चाविद्या वा
-
स्तविका । यदि पुनर् यथा वास्तवं कारणं वास्तवम् एवकार्यम् उ
-
पजनयति तद्वदवास्तवम् अवास्तवं विरोधाभावात्, ततश्चाविद्यो
-
०५
दयः स्वयम् अवास्तवो विकल्पवासनाप्रबोधम् अवास्तवंकरिष्यती
-
त्य् अभिधीयते, तदा विकल्पवासनाप्रबोधो ऽप्य् अवास्तवोनीलादि
-
व्यवसायम् अवास्तवम् एव जनयेत् । वास्तवदर्शनहेतुत्वात्वास्त
-
वो ऽपि नीलादिविकल्प इति चेत्; तर्हि वास्तवावास्तवाभ्यां
दर्शनविकल्पवासनाप्रबोधाभ्यां जनितो नीलादिविकल्पो वा
-
१०
स्तवावास्तवः स्यात्, तथा च तज्जनकं दर्शनं कथम् इवतत्त्व
-
ज्ञानम् उपपद्येत संशयादिविकल्पजनकस्यापि दर्शनस्यतत्त्वज्ञान
-
त्वप्रसंगात् । यथैव हि नीलादिविकल्पः स्वरूपे वास्तवःस्वा
-
लंबने चावास्तवस् तथा संशयादिविकल्पो ऽपि, सर्वचित्तचैत्ताना
-
म् आत्मसंवेदनस्य वास्तवत्वात् तदालंबनस्यचाऽन्यापोहस्यावा
-
१५
स्तवत्वात् वास्तवावास्तवोपवत्तिः । ननु दर्शनपृष्टभाविनोवि
-
कल्पस्य वस्तुव्यवसायकत्वात् तज्जनकं दर्शनंतत्त्वज्ञानं, न
पुनः संशयादिविकल्पजनकं तस्यावस्तुपरामर्शित्वात् । नहि
संशयेन विषयीक्रियमाणं चलिताकारद्वयं वस्तुरूपं, नाऽपि
विपर्यासेनालंब्यमानं विपरीतं वस्तुरूपं यतो ऽस्यवस्तुपराम
-
२०
र्शिता स्याद् इति कश्चित् । सो ऽप्य् एवं प्रष्टव्यः, कुतो नीलादि
-
विकल्पस्य वस्तुव्यवसायित्वं सिद्धं ? वस्तुव्यवसायिविकल्प
-
वासनाप्रबोधात्, सो ऽपि वस्तुव्यवसाय्यविद्योदयाद् इति चेत्
४
तर्ह्य् अविद्योदयवंशप्रभवो नीलादिविकल्प इत्य् एतदायातम् । तथा
च तज्जननान् न दर्शनं तत्त्वज्ञानं युक्तम् अतिप्रसंगात् ।
तदविसंवादकत्वात् तत्त्वज्ञानम् इति चेत्, तद् अपि यद्यर्थ
-
क्रियाप्राप्तिनिमित्तत्वं तच् च प्रवर्त्तकत्वं तद् अपिप्रवृत्तिविषयो
-
०५
पदर्शकत्वम् उच्यते तदा न व्यवतिष्ठतेदर्शनस्याव्यवसाया
-
त्मनः प्रवृत्तिविषयोपदर्शकत्वेक्षणक्षयाद्युपदर्शकत्वप्रसंगात्
नीलाद्युपदर्शकत्ववत्, नीलादिवत् क्षणक्षयादाव् अपि दर्शन
-
विषयत्वाविशेषात् । क्षणक्षयादौ विपरीतसमारोपान् नतदुपद
-
र्शकत्वम् इति चेत्, सो ऽपि कुतः ? सदृशापरापरोत्पत्तिदर्शनाद् अ
-
१०
विद्योदयाच् चेति चेत्, न सदृशापरापरोत्पत्तिदर्शनस्यसमारोप
-
निमित्तस्यापरापरजलबुद्बुदोत्पत्तिदर्शनेन व्यभिचारात्तत्रै
-
कत्वसमारोपासंभवात्, तथान्तरंगस्य चाविद्योदयस्यवाह्यकार
-
णरहितस्यासमर्थत्वात्, तन्मात्राद् एवान्यथा सर्वत्रविभ्रमप्रसंगात् ।
स्यान् मतं, अपरापरजलबुद्बुदेषुसदृशापरापरोत्पत्तिदर्श
-
१५
ने सत्य् अप्य् अविद्योदयासंभवान् नैकत्वसमारोपः ततो नव्यभिचार
इति । तद् अयुक्तम्, क्षणक्षयादिदर्शनस्याबोधिसत्त्वादप्रसिद्धेः,
पश्यन्न् अयं क्षणिकम् एव न पश्यतीति वचनस्यस्वमनोरथमात्र
-
त्वात्, शक्यं हि वक्तुं पश्यन्न् अयं नित्यम् एव पश्यत्यनाद्यविद्योद
-
याद् अपरापरज्ञानोत्पत्तिषु क्षणिकत्वसमारोपान्नावधारयतीति ।
२०
क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधस् तु नित्यस्येवक्षणिकस्यापि
विद्यत एव ततः पश्यन्न् अयं जात्यन्तरम् एवं पश्यतिदर्शनमोहोद
-
यात् तु दुरागमजनितवासनासहायाद् विपरीतसमारोपसंभवान्नाव
-
धारयतीति युक्तम् उत्पश्यामः । तथा चाक्षादिज्ञानस्यद्रव्यप
-
५
र्यायात्मकः कथंचित् नित्यानित्यात्मासदृशेतरपरिणामात्म
-
कः सामान्यविशेषात्मकः जात्यन्तरभूतो ऽनेकान्तात्मार्थोविष
-
यः सिद्धः सुनिश्चतासंभवद्बाधकप्रमाणत्वात्तदुपदर्शकत्वं
प्रवृत्तिविषयोपदर्शकत्वं तत् प्रवर्त्तकत्वंतत्त्वार्थक्रियाप्राप्तिनि
-
०५
मित्तत्वं तद् अप्य् अविसंवादित्वं तल्लक्षणं तत्त्वज्ञानंकथम् अविकल्पकं
जात्याद्यात्मकस्य सविकल्पकस्यार्थसामर्थ्येनसमुद्भूतत्वा
-
ज् जात्यादिरहितस्य स्वलक्षणार्थस्यसर्वथाऽनर्थक्रियाकारिणो
ऽनुपपत्तेः तत्कारणेन तत्त्वज्ञानस्योद्भवासंभवात्निर्विकल्प
-
कत्वाद् असिद्धेः । स्यान् मतम्, संहृतसकलविकल्पावस्थायांअ
-
१०
श्वविकल्पकाले गोदर्शनविषयाणां निर्विकल्पकं प्रत्यक्षंप्रत्य
-
क्षत एव सिद्धं । विकल्पेन नामसंश्रयेण प्रत्यात्मनावेद्येन
रहितस्य प्रत्यक्षस्य संवेदनात् । तद् उक्तम् —
प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्ध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ इति
१५
तद् असत् । व्यवसायात्मकस्यैव प्रत्यक्षस्यस्वसंवेदनप्रत्य
-
क्षतः प्रसिद्धेः नामसंश्रयस्य विकल्पस्यतत्राऽनुपलंभे ऽप्य् अक्षादि
-
संश्रयस्य संवेद्यमानत्वात्, संहृतसकलविकल्पावस्थायामपि
स्तिमितेनान्तरात्मना स्थितस्य चक्षुषा रूपमीक्षमाणस्याक्षजा
-
या मतेः सविकल्पकात्मिकाया एव प्रतीतेः । अन्यथा व्युत्थि
-
२०
तचित्तावस्थायां तथैव स्मरणानुपपत्तेः एतेनानुमानात्प्रत्यक्षे
कल्पनाविरहसिद्धिर् अपास्ता । पुनः किंचिद् विकल्पयतोयथाऽ
-
श्वकल्पना ममासीद् इति वित्तिस् तथा गोनिश्चयो ऽप्यश्वविकल्प
-
६
काले ममेन्द्रियबलाद् आसीद् इति वित्तिर् अपि कथमन्यथोपपद्येत ग
-
वाश्वविकल्पयोर् युगपद्विरोधात् । नैवं वित्तिः सत्येति चेत्, न
तयोः क्रमाद् एवाशूत्पत्तेर् यौगपद्याभिधानात् । तत्त्वतोज्ञानद्वयस्य
सोपयोगस्य युगपदसंभवात्, क्वचिदुपयुक्तानुपयुक्तज्ञानयौग
-
०५
पद्यवचनेपि विरोधाभावात् । तर्हि गोदर्शनम् अनुपयुक्तमश्वविक
-
ल्पस् तूपयुक्तस् ततस् तयोर् युगपद्भावो युक्त एवेति चेत्, नकिंचि
-
द् अनिष्टं स्याद्वादिनां । तथाऽनुपयुक्तवेदनस्यनिर्विकल्पकत्वस्या
-
पीष्टत्वात् । क्वचित् किंचिद् उपयुक्तं हि ज्ञानंव्यवसायात्मकम् इ
-
ष्यते सर्वथाऽनुपयुक्तस्याव्यवसायात्मकस्यतत्त्वज्ञानत्वविरो
-
१०
धात् । न चैवं केवलज्ञानम् अतत्त्वज्ञानं प्रसज्येततस्यापि नित्योप
-
युक्तत्त्वेन व्यवसायात्मकत्वोपगमात् । ननु च वीतारागाणांक्व
-
चित् प्रवृत्त्यसंभवात् सर्वदौदासीन्याद् उपयोगाभावादनुपयुक्तम् एव
ज्ञानम् अनुमन्तव्यम् । तथा च निर्विकल्पकं तत् सिद्धं । तद्वदक्षा
-
दिज्ञानम् अपि निर्विकल्पकं सत् तत्त्वज्ञानं भविष्यतीतिकेचित्,
१५
ते ऽपि न युक्तिवादिनः, यौगज्ञानस्यानुपयुक्तत्वेसर्वपदार्थप्र
-
तिभासनस्य विरोधात्, तस्यैवोपयोगरूपत्वाद्, युगपत्सर्वार्थ
-
ग्रहणम् एव ह्य् उपयोगः सर्वज्ञविज्ञानस्य, न पुनर्जिहासोपादित्साभ्यां
हानोपादानलक्षणा प्रवृत्तिः, तस्यारागद्वेषोपयोगनिबंधनत्वात्
प्रलीनरागद्वेषस्य सर्वज्ञस्य तदसंभवात् । कथम् एवंसर्वज्ञविज्ञानं
२०
निष्फलं न भवेद् इति चेत्, न तदभिन्नस्य फलस्यसकलाज्ञान
-
निवृत्तिलक्षणस्य सद्भावात्, सर्वस्य ज्ञानस्य साक्षादज्ञाननि
-
वृत्तिफलत्वाद् धानोपादानोपेक्षाविषयस्यपरंपराज्ञानफलत्वप्र
-
७
सिद्धेः सकलवेदिविज्ञानस्य परम्परयाप्युपेक्षामात्रफलत्वात् ।
तथा चोक्तम् —
उपेक्षा फलम् आद्यस्य शेषस्यादानहानधीः
।
पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे
॥ इति
०५
नित्योपयुक्तत्वात् सर्वज्ञविज्ञानस्यस्वार्थव्यवसायात्मकत्वम् एव
युक्तम् अन्यथा तस्याकिंचित्करत्वप्रसंगात्तद्वदक्षादिज्ञानानाम् अ
-
पीति न किंचिदव्यवसायात्मकं तत्त्वज्ञानम् अस्ति येनसाधन
-
व्यभिचारः स्यात् । अत्रापरः प्राह — सत्यम्, व्यवसायात्मकं
तत्त्वज्ञानं अर्थव्यवसायलक्षणत्वात्, न तुस्वव्यवसायात्मकं
१०
तस्य ज्ञानांतरेण व्यवसायाद् इति । सो ऽपि न प्रेक्षावतामभिधे
-
यवचनो ऽनवस्थानुषंगत्वात् । कस्यचिद् अर्थज्ञानस्य हियेन ज्ञानेन
व्यवसायस् तन् न तावद् अव्यवसितम् एव तस्य व्यवसायकंपरात्मज्ञा
-
नवत्, ज्ञानान्तरेण तद्व्यवसाये तु तस्यापि ज्ञानान्तरेणव्य
-
वसाय इत्य् अनवस्थानं दुर्निवारं । ननु च ज्ञानस्यस्वविषये व्य
-
१५
वसितिजनकत्वं व्यवसायात्मकत्वं तच् च ज्ञानान्तरेण व्य
-
वसितस्याऽपि युक्तं सन्निकर्षवत् । न हि सन्निकर्षादिः
केनचिद् व्यवसितो व्यवसितिम् उपजनयति तद्वदर्थज्ञानंज्ञा
-
नान्तरेणाव्यवसितम् एव व्यवसितिम् उत्पादयतीति कश्चित् । सो
ऽपि न प्रातीतिकवचनो ऽर्थज्ञानस्यापिज्ञानान्तरेणाव्यवसित
-
२०
स्यैवार्थव्यवसितिजनकत्वप्रसंगात्ज्ञानज्ञानपरिकल्पनवैय
-
र्थ्यात् । तथा लिंगस्य ज्ञानेनाव्यवसितस्य स्वलिंगिनि, शब्द
-
स्याभिधेये, सादृश्यस्योपमेये, व्यवसितिजनकत्वसिद्धेस्तद्वि
-
८
ज्ञानान्वेषणं किमर्थं पुष्णीयात् । यदि पुनरुभयथा दर्शनाद् अ
-
दोष इति मतं तदाऽपि किंचिल् लिंगादिकम् अज्ञातंस्वलिंग्यादिषु
व्यवसितिम् उपजनयत् कथम् अपवार्यते । चक्षुरादिकम् अपिकिंचिद् वि
-
ज्ञानम् एव स्वविषये परिच्छित्तिम् उत्पादयद् उभयथादर्शनात् ।
०५
स्यान् मतं चक्षुरादिकम् एवाज्ञातं स्वविषयज्ञाप्तिनिमित्तंदृष्टं, न तु
लिंगादिकं तद् अपि ज्ञातम् एव नान्यथा ततोनोभयत्रोभयथा
प्रसंगः प्रतीतिविरोधाद् इति । तर्हि यथार्थज्ञानंव्यवसितम् अर्थ
-
ज्ञप्तिनिमित्तं तथा ज्ञानज्ञानम् अपि ज्ञाने ऽस्तु तत्राऽप्युभयथा परिक
-
ल्पनायां प्रतीतिविरोधस्याविशेषात् । कया पुनः प्रतीत्याऽत्र
१०
विरोध इति चेच् चक्षुरादिषु कयेति समः पर्यनुयोगः । विवादापन्नं
चक्षुरादिकम् अज्ञातम् एवार्थज्ञप्तिनिमित्तं चक्षुरादित्वात्, यद् एवं
तद् एवं यथाऽस्मच् चक्षुरादि, तथा च विवादापन्नंचक्षुरादि, त
-
स्मात् तथा । विवादाध्यासितं लिंगादिकं ज्ञातम् एव क्वचिद्विज्ञप्तिनि
-
मित्तं लिंगादित्वात्, यद् इत्थं तद् इत्थंयथोभयवादिप्रसिद्धं धूमादि,
१५
तथा च विवादाध्यासितं लिंगादि, तस्मात् तथेत्यनुमानप्रतीत्या
तत्रोभयथाकल्पने विरोध इति चेत्, तर्हि विवादापन्नंज्ञानं
-
ज्ञानं ज्ञातम् एव स्वविषये ज्ञप्तिनिमित्तं, ज्ञानत्वात्, यदेवं तद् एवं य
-
थार्थज्ञानं, तथा च विवादाध्यासितं ज्ञानज्ञानं, तस्मात्तथेत्य् अनु
-
मानप्रतीत्यैव तत्रोभयथा कल्पनायां विरोधो ऽस्तुसर्वथा वि
-
२०
शेषाभावात् तथा चानवस्थानं दुर्निवारम् एव नैयायिकंमन्यानां ।
स्याद् आकूतम् अर्थज्ञानम् अप्य् अर्थे ज्ञानांतरेणाज्ञातम् एवज्ञप्तिम् उत्पाद
-
यति यथा विशेषणज्ञानं विशेष्ये र्थे, न पुनर् ज्ञानं, तद्विज्ञानोत्पत्तेः
९
प्राग् एव तत्र ज्ञप्तेर् अभावप्रसंगात्, न चैवं, तथा प्रतीतेर् अर्थजिज्ञासायां
हि स्वहेतोर् अर्थज्ञानम् उत्पद्यते । ज्ञानजिज्ञासायान् तुपश्चाद् एव
ज्ञाने ज्ञानं प्रतीतेर् एवं विधत्वाद् इति । तद् अप्य् असत्यम् । स्वयम् अर्थज्ञानं
ममेदम् इत्य् अप्रतिपत्तौ तथा प्रतीतेर् असंभवात्प्रतिपत्तौ तु स्वत
-
०५
स् तत्प्रतिपत्तिर्ज्ञानान्तरात् वा । स्वतश् चेत् ? स्वार्थपरिच्छेदक
-
त्वसिद्धिर् वेदनस्य वस्तुबलप्राप्ता क्कचिद् अर्थे जिज्ञासायांसत्या
-
महम् उत्पन्नम् इति स्वयं प्रतिपद्यमानं हि विज्ञानंस्वार्थपरिच्छे
-
दकम् अभ्यनुज्ञायते नान्यथेति जैनमतसिद्धिः । यदिपुन
-
र् ज्ञानान्तरात् तथा प्रतिपत्तिस् तदाऽपितदर्थज्ञानप्रज्ञातम् एव मयार्थस्य
१०
परिच्छेदकम् इति स्वयं ज्ञानान्तरं प्रतिपद्यते चेत् तदेव स्वार्थ
-
परिच्छेदकं सिद्धं, न प्रतिपद्यते चेत् कथं तथाप्रतिपत्तिः?
किं चेदं च विचार्यते — ज्ञानान्तरम् अर्थज्ञानम् अर्थमात्मानं च प्रति
-
पद्याज्ञातम् एव मया ज्ञातम् अर्थं जानातीतिप्रतिपाद्याऽप्रतिपाद्य
वा प्रथमे पक्षे ऽर्थस्य तत् ज्ञानस्य स्वात्मनःस्वपरिच्छेदकत्वविष
-
१५
यं ज्ञानान्तरं प्रसज्येत । द्वितीयपक्षे पुनर् अतिप्रसंगःसुखादिकम् अ
-
ज्ञातम् एवादृष्टं मया करोतीत्य् अपि जानीयाद् अविशेषात् ततःकिं बहुनो
-
क्तेन ज्ञानम् अर्थपरिच्छेदकताम् इच्छता स्वपरिच्छेदकमेषितव्यम् ।
यथेश्वरज्ञानं स्वपरिच्छेदकत्वाभावेर्थज्ञानत्वानुपपत्तेः । तथा
चैवं प्रयोगः कर्त्तव्यः — विवादाध्यासितं ज्ञानंस्वपरिच्छेदकम् अर्थ
-
२०
ज्ञानत्वात्, यद् अर्थज्ञानं तत् स्वपरिच्छेदकंयथेश्वरज्ञानं । अर्थज्ञानं च
विवादाध्यासितं तस्मात् स्वपरिच्छेदकं । न चक्षुरादिना हे
-
तोर् व्यभिचारस् तस्याज्ञानत्वात्, नाऽपिमूर्च्छितादिज्ञानेनार्थवि
-
१०
शेषणत्वात् । सद् धि मूर्च्छितादिज्ञानं नार्थज्ञानंपुनस् तदर्थे स्म
-
रणप्रसंगात् । न च मूर्च्छितादिदशायां परैर् ज्ञानम् इष्टंयेन व्य
-
भिचारः स्यात् । येषां तु तस्याम् अपि दशायां वेदनयानिद्रया
-
वाऽभिभूतं विद्यमानम् एव मत्तदशायां मदिरेत्यादिवत्मदाभि
-
०५
भूतिवेदनवद् अन्यथा तदा नैरात्म्यापत्तेर् इति मतं, तेषांविज्ञानस्य
स्वव्यवसायो ऽपि तदाभिभूतप्रसिद्ध एवेति कथंतेनानैकान्ति
-
कता ज्ञानत्वस्य हेतोः स्यात् ततो ऽर्थज्ञानत्वंस्वव्यवसायात्मकत्वं
साधयत्य् एव साध्याविनाभावनियमनिश्चयात् । नन्वीश्वरज्ञान
-
म् उदाहरणसाध्यशून्यं तस्य स्वव्यवसायात्मकत्वाभावाद् इति
१०
चेन् नेश्वरस्य सर्वज्ञत्वविरोधात् । ज्ञानान्तरेणात्मज्ञानस्यपरि
-
ज्ञानात् सर्वज्ञत्वे तद् अपि ज्ञानान्तरं स्वव्यवसायात्मकंचेत् तद् एवो
-
दाहरणं । ज्ञानान्तरेण व्यवसितं चेदनवस्थानं तत्राऽप्येवं
पर्यनुयोगात् । न चेश्वरस्य नानाज्ञानपरिकल्पना युक्तासह
-
स्रकिरणवत् साक्षात् सकलपदार्थप्रकाशकम् एकमेवेश्वरस्यं मेच
-
१५
कज्ञानम् इति सिद्धान्तविरोधात्, तद् ईश्वरस्य ज्ञानमुदाहरणम् एव
साध्यवैकल्यानुपपत्तेः साधनवैकल्याभावाच् च । अर्थज्ञानत्वं हि
साधनं तदुदाहरणे विद्यत एव विपक्षेबाधकप्रमाणसद्भावाद् वा
साध्याविनाभावनियमस्य प्रसिद्धेः प्रकृतसाधनं साध्यंसाध
-
यत्य् एव । स्वव्यवसायरहितत्वे ज्ञानस्यानीश्वर इवेश्वरे पिप्रमाण
-
२०
विरुद्धत्वात् । स्वव्यवसायात्मकसकलार्थज्ञानात् कथंचिदभिन्नस्य
परमात्मन एवाप्तपरीक्षायाम् ईश्वरत्वम् अर्थनात् । ततःस्थितम् ए
-
तत् स्वार्थव्यवसायात्मकं तत्त्वज्ञानं प्रवृद्धं मानंप्रमाणम् इति ।
११
परमार्थतः स्वव्यवसायात्मकम् एव तत्त्वज्ञानंचेतनत्वात् स्वप्ने
-
न्द्रजालादिज्ञानवद् इत्य् अपरस् तस्यापीदम् अनुमानज्ञानंस्वव्यवसा
-
यार्थस्य व्यवसायकम् अव्यवसायकं वा, व्यवसायकं चेत्सिद्धं
स्वार्थव्यवसायात्मकं, तद्वत् सर्वतत्त्वज्ञानं तथा स्यात् । अव्यव
-
०५
सायकं चेद् असाधनांगं व्यर्थत्वात् । संव्यवहारतोऽनाद्यविद्यो
-
दयकल्पितात् तद्व्यवसायात्मकम् इति चेत् तर्हि परमार्थतोना
-
स्माद् अनुमानात् स्वव्यवसायात्मकं साध्यं सिद्ध्येद् इति । यत्किं
-
चन भाषी स्वव्यवसायात्मकज्ञानैकान्तवादीस्वार्थव्यवसाया
-
त्मनो ज्ञानस्यार्थक्रियार्थिभिः संव्यहारिभिरादरणीयत्वात्,
१०
प्रकाश्याप्रकाशकस्य पदार्थस्य प्रकाशार्थिभिरनादरणीयत्वा
-
त् तद् अलम् अतिप्रसंगेन प्रपंचतः प्रमाणपरीक्षायांप्रमाणस्य तत्त्वज्ञा
-
नस्य स्वार्थव्यवसायात्मकस्य परीक्षितत्वात् ।
ननु च त्वां वर्द्धमानं वीरं स्तुतिगोचरत्वं निनीषवःस्मो
वयम् अद्येति वाक्यं न युक्तं व्याख्यातुं, त्वां वा त्वाम् एववीरम् ए
-
१५
वेति वाशब्देनावधारणार्थेन ततो ऽन्यतीर्थकरसमूहस्यस्तुत्य
-
स्याभिमतस्य स्तुतिगोचरत्वव्यवच्छेदानुषंगात् तथा चसिद्धा
-
न्तविरोध इति कश्चित् । सो ऽपि न विपश्चित्, स्तोतुरभिप्राया
-
परिज्ञानात् तस्य ह्य् अयम् अभिप्रायो न्त्यतीर्थकरस्यैवैदंयुगीनतीर्थप्रका
-
शनप्रधानस्य वर्द्धमानत्वेन स्तुतिगोचरत्वसमर्थनेसकलस्य
२०
स्तुत्यस्य सिद्धान्तप्रसिद्धस्य स्तुतिगोचरत्वं समर्थितंभवत्य् एव
वर्द्धमानत्वस्य तत्साधनस्याविशेषात् यस्य यस्यवर्द्धमानं प्रवृद्धं
मानं प्रमाणं केवलज्ञानं परमगुरोः, श्रुतज्ञानादि वापरगुरोर् निश्ची
-
१२
यते सुनिश्चितासंभवद्बाधकप्रमाणत्वेन सुखादिवत्तस्य तस्य
स्तुतिगोचरत्वं प्रसिद्धं भवति । वीरशब्देन वा सर्वस्यस्तुत्य
-
स्याभिधानात्, नायुक्तम् अवधारणार्थं वाशब्दव्याख्यानंमहतो
महासत्वस्यासहायस्यान्तरारातिनिर्जयनोद्यतस्यपुरुषविशेषस्य
०५
शक्तिशुद्धिप्रकर्षं दधानस्य लोके वीरशब्दप्रयोगात् । विशिष्टां मां
लक्ष्मीं मुक्तिलक्षणामभ्युदयलक्षणां वा रातीति वीर इतिव्युत्प
-
त्तिपक्षाश्रयणाद् वा सर्वस्य स्तुत्यस्य संग्रहात्प्रकृतवाक्यव्या
-
ख्यानं युक्तम् उत्पश्यामः ॥ किं विशिष्टं मांवीरमृद्धमानं निश्चिन्व
-
न्ति भवन्तो यतः स्तुतिगोचरत्वं निनीषवोद्य भवन्तीतिभगवता
१०
पृष्टा इव सूरयः प्राहुः — विशीर्णदोषाशयपाशबन्धम् इति । अत्राज्ञा
-
नादिदोषस् तस्याशयः संस्कारः पूर्वो दोष आशेते ऽस्मिन्न् इति
व्युत्पत्तेः । दोषहेतुर् वाज्ञानावरणादिकर्मप्रकृतिविशेषोदय इति
भावकर्मणो द्रव्यकर्मणश् च वचनं, दोषश् चाशयश् चदोषाशयौ ता
-
व् एव पाशौ ताभ्यां बन्धः पारतंत्र्यं विशीर्णोदोषाशयपाशबं
-
१५
न्धो ऽस्येति विग्रहः । तदैतेनैतद् उक्तं भवति, यस्मात्त्वां विशीर्ण
-
दोषाशयपाशबन्धं वयं निरणैष्म तस्माद् वर्धमानंस्तुतिगोचरत्वं
निनीषवः स्म इति । कथम् एवं विधं मांनिरणैषुर्भवन्त इत्य् आहुर् यतः
कीर्त्त्या महत्या भुवि वर्द्धमानं त्वां निरणैष्म । कीर्त्यन्ते जीवा
-
दयस् तत्त्वार्थां यया सा कीर्तिर् भगवतो वाक्, महतीयुक्तिशास्त्रा
-
२०
विरोधीनी तया । भुवि समवशरण भूमौ साक्षात्परंपरया सक
-
लपृथिव्यां परमागमविषयभूतां वर्द्धमानःपुष्यन्निखिलप्रेक्षाव
-
ज्जनमनांसि परापराणि व्याप्नुवन्न् इत्य् अभिधीयते । सर्वत्र स
-
१३
र्वदा सर्वेषां युक्तिशास्त्राविरोधिवाक् सिद्ध इत्यर्थः । ततो ऽयं
समुदायार्थः, स्तुतिगोचरो भगवान् वीरः परमात्माऋद्धमानत्वात्
यस् तु नैवं स न वर्द्धमानो यथा रथ्या पुरुषस् तथाचायं भग
-
वान् इति । तद्वद् वर्धमानो भगवान्विशीर्णदोषाशयपाशबन्धत्वात्
०५
यस् तु नेत्थं स न तथा यथा मिथ्यादृक् तथा च भगवानिति ।
विशीर्णदोषाशयपाशबंधो भगवान् कीर्त्या महत्या भुविवर्द्ध
-
मानत्वात् यस् तु नैवं विधः स न तथा यथा प्रसिद्धोनाप्तः, की
-
र्त्त्या महत्या भुवि वर्द्धमानश् च भगवान् तस्माद्विशीर्णदोषाशय
-
पाशबंध इति केवलव्यतिरेकी हेतुरन्यथोपपत्तिनियमनिश्चयैक
-
१०
लक्षणत्वात् स्वसाध्यं साधयत्य् एव तथाऽऽप्तमीमांसायांव्या
-
सतः समर्थितत्वात् । किंलक्षणा स्तुतिर् यद् गोचरत्वं मांनेतु
-
म् इच्छन्ति भवन्त इति भगवता प्रश्ने कृत इव सूरयःप्राहुः —
याथात्म्यम् उल्लङ्घ्य गुणोदयाख्या
लोके स्तुतिर् भूरिगुणोदधेस् ते ।
१५
अणिष्ठम् अप्य् अंशम् अशक्नुवन्तो
वक्तुं जिन त्वां किम् इव स्तुयाम ॥
२
॥
"याथात्म्यम् उल्लंघ्य गुणोदयाख्या लोके स्तुतिः" इतिचतुरा
-
शीतिर् लक्षाणि गुणास् तेषां गुणानां याथात्म्यंयथावस्थितस्व
-
भावस् तदुल्लंघ्य गुणोदयस्याख्या लोके स्तुतिर् इति लक्ष्यते
२०
यद्य् एवं तदा स्तुतिकर्त्तारस् तावन्तः किं शक्ताः भगवताइति
पर्यनुयुक्ताः प्राहुः —
१४
"भूरिगुणोदधेस् ते । अणिष्ठम् अप्य् अंशमशक्नुवन्तो वक्तुं
जिन त्वां किम् इव स्तुयाम । " इति, तर्हि भूरिगुणोदधेर् अ
-
नन्तगुणसमुद्रस्य ममाणिष्ठम् अप्य् अंशं सूक्ष्मतमम् अपिगुणं वक्तुं
यदि न शक्नुवन्ति भवन्तः किम् अप्य् उपमानम् अपश्यन्तस्तदा कि
-
०५
म् इति स्तोतारो भवन्तीति भगवता पर्यनुयुक्ता इवप्राहुः —
तथापि वैयात्यम् उपेत्य भक्त्या
स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः ।
इष्टे प्रमेये ऽपि यथास्वशक्ति
किन् नोत्सहन्ते पुरुषाः क्रियाभिः ॥
३
॥
१०
"तथाऽपि वैयात्यम् उपेत्य भक्त्या स्तोतास्मि ते शक्त्यनु
-
रूपवाक्यः । " तथाऽपि ते ऽणिष्ठम् अप्य् अंशं वक्तुमशक्नुवन्न् अपि वैया
-
त्यं धार्ष्ट्यम् उपेत्योपगम्य भक्त्या हेतुभूतया ते वीरस्यस्तोता
-
ऽस्मि शक्त्यनुरूपवाक्यः सन्न् अहम् इति संबन्धः परे ऽप्येवम् उत्सह
-
मानाः सन्तीति दर्शनार्थम् इदम् उक्तम् ।
१५
"इष्टे प्रमेये ऽपि यथास्वशक्ति किं नोत्सहन्ते पुरुषाः
क्रियामिः । " इति उत्सहन्त एवेत्य् अर्थः । यदि यथास्वशक्ति
स्वेष्टे प्राप्ये र्थे प्रवृत्त्यादिक्रियाभिःसमुत्सहमानपुरुषवत् भव
-
न्तः स्तुतिं वक्तुं प्रवर्तन्ते तदा कियत् वक्तुं शक्ता इत्याह —
त्वं शुद्धिशक्त्योर् उदयस्य काष्ठां
२०
तुलाव्यतीतां जिन ! शान्तिरूपाम् ।
१५
अवापिथ व्रह्मपथस्य नेता
महान् इतीयत् प्रतिवक्तुम् ईशाः ॥
४
॥
ज्ञानदर्शनावरणविगमाद् अमलज्ञानदर्शनाविर्भूतिःशुद्धिस् त
-
थान्तरायविनाशाद् वीर्यलब्धिः शक्तिस् तयोर् उदयस्यप्रकर्षस्य
०५
काष्ठाऽवस्था तां जिन ! भगवन् ! अवापिथ त्वं । किंविशिष्टां
तुलाव्यतीताम् उपमातिक्रान्तां तथा शान्तिरूपांप्रशमसुखात्मिकां
सकलमोहक्षयोद्भूतत्वात् ततो व्रह्मपथस्य नेता महान्परमात्मे
-
ति, इयन् मात्रं प्रतिवक्तुम् ईशाः समर्था इत्य् अनेन यावतीस्वशक्तिः
भगवत्संस्तवने तावती सूरिभिर् निवेदिता । तत्र शुद्धिःक्वचि
-
१०
त् पुरुषविशेषे परां काष्ठाम् अधितिष्ठतीति प्रकृष्यमाणत्वात्परिमाण
-
वत् तथा शक्तिः क्वचित् पुरुषविशेषे परां काष्ठाम् अवाप्नोतिप्रकृ
-
ष्यमाणत्वात् परिमाणवद् एवेति शुद्धिशक्त्योःप्रकर्षपर्यन्तं गमनं
प्रतिवर्ण्यते न पुनर्ज्ञानं क्वचित् परां काष्ठांप्रतिपद्यत इति साध्यते ।
प्रतिज्ञानस्य श्रुतज्ञानस्य च धर्मित्वे परस्यसिद्धसाध्यतानुषंगात्
१५
स्याद्वादिनश् च स्वेष्टसिद्धेर् अभावात् । अवध्यादिज्ञानत्रयस्य धर्मि
-
त्वे परेषां धर्म्यसिद्धिः । सर्वज्ञवादिनांसाधनवैफल्यं तत्सिद्धे
-
र् इव साध्यत्वात् । ज्ञानसामान्यधर्मित्वे ऽपि मीमांसकस्य
सिद्धसाधनम् एव चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्यसिद्धत्वात् ।
शुद्धेस् तु धर्मित्वनिर्देशे नोक्तदूषणावकाशः परेषां तत्रविवादात्
२०
सिद्धसाध्यतानुषंगाभावात् वादिनः स्वेष्टसिद्धेरप्रतिबंधात् सर्व
-
ज्ञत्वसामान्यस्य प्रसिद्धेः ।
१६
ननु च यद्य् अहम् एव महान् इति प्रतिवक्तुंशक्यस् तदा मदीय
-
शासनस्यैकाधिपत्यलक्ष्मीः किम् अन्यतीर्थिभिर् अपोह्यतेतदपवाद
-
हेतुः कश्चिद् अस्तीति चेत् सो ऽभिधीयताम् इति भगवत्प्रश्नेसूरयः
प्राहुः —
०५
कालः कलिर् वा कलुषाशयो वा
श्रोतुः प्रवक्तुर् वचनाशयो वा ।
त्वच्छासनैकाधिपतित्वलक्ष्मी
-
प्रभुत्वशक्तेर् अपवादहेतुः ॥
५
॥
तव शासनं सर्वम् अनेकांतात्मकं इति मतंतस्यैकाधिपति
-
१०
त्वं सर्वैर् अवश्याश्रयणीयत्वम् अर्थक्रियार्थिभिर् अन्यथातदनुपपत्तेस् त
-
द् एव लक्ष्मीः, निःश्रेयसाभ्युदयलक्ष्मीहेतुत्वात् तस्यांप्रभुत्वं सकलं
प्रवादितिरस्कारित्वं तत्र शक्तिः सामर्थ्यं परमागमान्वितायुक्ति
-
स् तस्याः संप्रत्यपवादहेतुर् वाह्यः साधारणः कलिर् एवकालः सोऽ
साधारणस् तु वक्तुर् वचनाशय एव, अन्तरंगस् तु स्तोतुःकलु
-
१५
पाशय एव दर्शनमोहाक्रांतचेतः । सर्वत्र वाशब्द एव का
-
रार्थी द्रष्टव्यः पक्षान्तरसूचको वा, तेन कलिर् वा कालःक्षेत्रा
-
दिर् वा तथाविध इत्य् अवगम्यते । तथाचार्यस्य प्रवक्तुर्वचना
-
शयो वाऽनुष्ठानाशयो वेति ग्राह्यम् । तथा स्तोतुः कलुषाशयो
वा जिज्ञासानुपपत्तिर् वा हेतुर् अय
[? ]
वादक इतिप्रतिपत्तव्यः ॥
२०
कीदृशं पुनर् मदीयशासनम् इत्य् अभिधीयते —
१७
दयादमत्यागसमाधिनिष्ठं
नयप्रमाणप्रकृतांजसार्थम् ।
अधृष्यमन्यैर् अखिलैः प्रवादै
-
र् जिन ! त्वदीयं मतम् अद्वितीयम् ॥
६
॥
०५
साकल्येन देशतो वा प्राणिहिंसातो विरतिर् दयाव्रतम् अनृ
-
तादिविरतेस् तत्रान्तर्भावात् । मनोज्ञामनोज्ञेन्द्रियविषयेषुराग
-
द्वेषविरतिर् दमः संयमः । वाह्याभ्यन्तरपरिग्रहत्यजनं त्यागः ।
पात्रदानं वा । प्रशस्तं ध्यानं शुक्ल्यं धर्म्यं वासमाधिः ।
दया च दमश् च त्यागश् च समाधिश् चेति द्वन्द्वेनिमित्तनैमित्तिक
-
१०
भावनिबंधनः पूर्वोत्तरवचनक्रमः, दया हि निमित्तंदमस्य
तस्यां सत्यां तदुपपत्तेः, दमश् च त्यागस्य, तस्मिन् सतितद्घट
-
नात्, त्यागश् च समाधेस् तस्मिन् सत्य् एवविक्षेपादिनिवृत्तिसिद्धे
-
र् एकाग्रस्य समाधिविशेषस्योपपत्तेः, अन्यथा तदनुपपत्तेः । तेषु
दयादमत्यागसमाधिषु निष्ठा तत्परता यस्मिन् मते तत्त्वदीयं मतं
१५
शासनम् अद्वितीयम् एकम् एव सर्वाधिनायकम् इत्य् अर्थः । कुतोमदीयं मतम् ए
-
वं विधं सिद्धम् इति चेत् "नयप्रमाणप्रकृतांजसार्थम्"यस्मात्,
नयौ च प्रमाणे च नयप्रमाणानीति द्वन्द्वे प्रमाणशब्दादभ्य
-
र्हितार्थाद् अपि नयशब्दस्याल्पाच्तरस्य छन्दोवशात्पूर्वनिपातो न
विरुद्ध्यते । प्रकर्षेणसर्वदेशकालपुरुषपरिषदपेक्षालक्षणेन
२०
कृतो निश्चित इत्य् अर्थः । अंजसा परमार्थेन प्रणीत
आंजसो
ऽसं
-
भवद्बाधक इति भावः ।
अर्थो
जीवादिर्द्रव्यपर्यायात्मा । नयप्र
-
१८
माणैः प्रकृत आंजसो ऽर्थो ऽस्मिन्न् इतिनयप्रमाणप्रकृतांजसार्थं
मतम् । नयप्रमाणैः सुनिश्चितासंभवद्बाधकविषयम् इत्यर्थः ।
तथाविधम् अपि कुतः सिद्धम् इति चेत् यस्माद् अधृष्यमन्यैरखिलैः
प्रवादैर् इति निवेद्यते । दर्शनमोहोदयपरवशैःसर्वथैकान्तवा
-
०५
दिभिः प्रकल्पिता वादाः प्रवादाः सर्वथैकान्तवादास् तैरखिलैर् अ
-
खिलदेशकालपुरुषगतैर् अधृष्यम् अबाध्यम् इति निश्चयः । कस्मात् तैः
कल्पिता वादा न पुनः परमार्थावभासिन इति चेत्, यस्मात्
त्वदीयमताद् अन्ये वाह्याः सम्यगनेकान्तमताब्धेर् वाह्यामिथ्यैका
-
न्ता भवन्ति ते च कल्पितार्थाः प्रसिद्धास् तद्वादाः कथमिव
१०
परमार्थपथप्रस्थापकाः स्युर् यतस् तैर् अबाध्यंत्वदीयं मतं न स्यात्,
न हि मिथ्याप्रवादैः सम्यग्वादो बाधितुं शक्यो ऽतिप्रसंगात् ।
ननु च द्रव्यार्थिकनयेन निश्चितो र्थो न पारमार्थिकोमदीय
-
मतस्य सिद्धः परेषां संभवद् बाधकत्वात्, पर्यायार्थिकनयैस् तु
निश्चितार्थवत् । तथा हि — न जीवादिकद्रव्यम् एकम् अनपायिवा
-
१५
स्तवं क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् । न हिद्रव्यस्य दे
-
शकृतस् तावत् कश्चित् क्रमः संभवति निष्क्रियत्वात् तस्यदेशा
-
न्तरगमनायोगात्, सक्रियत्वे सर्वव्यापकत्वविरोधात् । नाऽपि
कालकृतः शाश्वतिकत्वात् सकलकालव्यापित्वात् प्रतिनियत
-
कालत्वे नित्यत्वविरोधात् द्रव्यत्वाघटनात् । स्वयमक्रमस्य सह
-
२०
कारिकारणक्रमापेक्षः क्रम इत्य् अप्य् असारं, सहकारिभ्यःकंचिद् अप्य् अ
-
तिशयमनासादयतस् तदपेक्षानुपपत्तेर् अतिप्रसंगात् । सहकारिकृत
-
म् उपकारम् आत्मसात् कुर्वतः कार्यत्वप्रसंगादनित्यत्वापत्तेः । यदि तु
१९
नित्यद्रव्यस्य कंचिद् अप्य् उपकारम् अकुर्वताम् अपिसहकारित्वम् उररीक्रि
-
यते तेन सह संभूय कार्यकरणशीलानाम् एवसहकारित्वव्यव
-
स्थितिर् इति मतं, तद् अपि न नित्यद्रव्यस्य क्रमः सिद्ध्येत्
तस्याक्रमत्वात्; सहकारिणाम् एव क्रमवत्त्वात् । सहकार्यपेक्षः
०५
क्रमो ऽपि द्रव्यस्यैवेति चेत् न, तस्याऽपि देशकृतस्यकालकृत
-
स्य वा विरोधात् । तथा क्रमेण सहकारिणम् अपेक्षमाणस्य
कालभेदाद् अनित्यत्वप्रसंगात् कार्येणाऽपि क्रमेणापेक्षमाणस्य
भेदापत्तेः सहकारिविशेषवत् ततो न क्रमः सर्वथाद्रव्यस्य
संभवति । नाऽपि यौगपद्यं युगपद् एकस्मिन् समयेसकलार्थक्रिया
-
१०
निष्पादनाद् द्वितीयसमयेऽनर्थक्रियाकारित्वेनाऽवस्तुत्वप्रसंगात्;
निष्पादितनिष्पादनप्रसंगाद् वा । तद् एवं द्रव्यान्नित्यात्मकात् क्रम
-
यौगपद्ये निवर्तमाने स्वव्याप्याम् अर्थक्रियां निवर्तयतः, सा च
निवर्त्तमाना वास्तवत्वम् इति व्यापकानुपलब्धेर् बाधिकायाः
संभवान् नासंभवद्बाधकत्वं द्रव्यस्य सिद्धंसौगतानां । नाऽपि
१५
पर्यायस्य क्षणिकस्यासंभवद्बाधकत्वं सिद्ध्यति तत्राऽपिव्या
-
पकानुपलंभस्य बाधकस्य संभवात् । तथा हि — पर्यायो नवा
-
स्तवो ऽर्थक्रियानुपलंभात्, न तत्रार्थक्रियोपलंभःक्रमयौगप
-
द्यविरोधात्, न तत्र क्रमयौगपद्ये संभवतःपरिणामानुपल
-
ब्धेः, न तत्र परिणामो ऽस्तिपूर्वोत्तराकारव्यापिद्रव्यस्थितेर् अनु
-
२०
पलब्धेः, न तत्र पूर्वोत्तराकारव्यापिद्रव्यस्थितिर् अस्तिप्रतिक्ष
-
णाम् उत्पादानन्तरं निरन्वयविनाशाभ्युपगमात् । न च तत्रक
-
स्यचित् कुतश्चिद् उत्पत्तिर् घटते, सति कारणेकार्यस्योत्पत्तौ क्ष
-
२०
णभंगप्रसंगाद् असति कारणे कार्यस्योदयेविनष्टतमस्य भविष्य
-
त्तमस्य च कारणत्वप्रसंगस् तस्मिन्न् अप्य् असतिकार्यस्योदयात् । ए
-
तेन स्वकाले सति कारणे कार्यस्योत्पत्तिर् इति पक्षान्तरम् अप्यपा
-
स्तम् । कारणत्वेनाभिमतस्यापि स्वाकाले सत्त्वोपपत्तेः । त
-
०५
दित्थं नयनिश्चितो ऽर्थो न पारमार्थिकः शासनस्य संभ
-
वद्बाधकत्वात् तैमिरिकज्ञाननिश्चितेन्दुद्वयवत् । तथाप्रमाणप्रकृ
-
तो ऽप्य् अर्थो द्रव्यपर्यायात्मको नांजसः सिद्ध्येत्, तत एवतद्वत्
स हि येनात्मना नित्यस् तेनैवात्मनाऽनित्यश् चेद् विरोधोबाधकः,
स्वभावांतरेण चेद् वैयधिकरण्यं तस्य प्राप्तंपरस्परविरुद्धयोर् नि
-
१०
त्यानित्यात्मनोर् एकाधिकरणत्वादर्शनात्, क्वचिद् देशे शीतोष्ण
-
स्पर्शवत्, तयोर् एकाश्रयत्वे वा युगपद् एकेनैवात्मनानित्यानित्यत्व
-
योः प्रसक्तेः संकरः स्यात् । येनात्मना नित्यत्वम् इष्टंतेना
-
नित्यत्वम् एव, येन चानित्यत्वं तेन नित्यत्वम् एवेतिपरस्परगम
-
नात् व्यतिकरः, अयम् आत्मानं पुरोधाय नित्यो जीवादिर् अर्थःक
-
१५
थ्यते, एवं पुरोधायानित्यस् तौ यदि ततो ऽर्थान्तरभूतौ, तदा
वस्तुत्रयप्रसंगस् तानि च त्रीण्य् अपि वस्तूनि यदिनित्यानित्या
-
त्मकानि तदा प्रत्येकं पुनर् वस्तुत्रयप्रसंग इतिअनवस्था स्यात् ।
वदि तु तौ ततो ऽनर्थान्तरभूतौ तदा जीवाद्यर्थ एव नतावा
-
त् प्रानौ तदभावात् ते न नित्याश् चानित्याश् चव्यवस्थाप्यंते, ताव् एव
२०
चात्मानौ न ततो ऽपरो ऽर्थः स्याद् इति कस्यचिन् नित्यत्वा
-
नित्यत्वे तौ साधयेयातां । स्वयम् एव तौ नित्यानित्यौस्याता
-
म् इति चेत् तर्हि यो नित्यः स नित्य एव, यश् चानित्यः सोऽनित्य
२१
एवेति प्राप्तं, तथा चोभयदोषानुषंगःसर्वथैकस्य नित्यानि
-
त्यात्मकस्यार्थस्याप्रतिपत्तिप्रसंगः । दृश्यतयोपगम्यमानस्य च
सर्वथाऽनुपलब्धेर् अभावप्रसंगः तस्यादृश्यत्वप्रतिज्ञानेचादृष्टप
-
रिकल्पनम् अनुषज्येतेत्य् अनेकबाधकोपनिपातान् नप्रमाणनिश्चितो ऽर्थः
०५
शासनस्यांजसः स्याद् आकाशकेशपाशप्रकाशकशासनवत् तैमि
-
रिकस्येति कथं नयप्रमाणप्रकृतांजसार्थं मदीयं मतंस्याद् अन्यैर् अ
-
खिलैः प्रवादैः सौगतादिभिः धृष्यमाणत्वात् तत एव नदयाद
-
मत्यागसमाधिनिष्ठं सर्वथा संभवद्बाधकस्य जीवस्यदयादिचतु
-
ष्टयासंभवात् तद्विषयस्य दयादिनिष्ठत्वासिद्धेस् तथा चकथम् अद्विती
-
१०
यं सर्वाधिनायकत्वानुपपत्तेर् इति वदन्तम् इव भगवन्तंविज्ञापयन्तः
सूरयः प्रमाणनयप्रकृतं पारमार्थिकं तत्त्वंसाधयन्ति —
अभेदभेदात्मकम् अर्थतत्त्वं
तव स्वतंत्रान्यतरत् खपुष्पम् ।
अवृत्तिमत्त्वात् समवायवृत्तेः
१५
संसर्गहानेः सकलार्थहानिः ॥
७
॥
टीका —
अभेदो
द्रव्यं नित्यं,
भेदः
पर्यायोनश्वरस् ता
-
व् आत्मानौ, यस्य तदभेदभेदात्मकं
तव
भगवन् !
अर्थतत्त्वं
जीवादितत्त्वं परस्परतंत्रं द्रव्यपर्यायात्मकम् इत्यभिधीयते । अ
-
स्माभिर् न पुनः स्वतंत्रं द्रव्यमात्रं पर्यायमात्रं वातदुभयं वा
२०
विज्ञाप्यते तस्य खपुष्पसमत्वात्, प्रतिपादितक्रमेण
संभवद्
बाध
-
कस्यास्माभिर् अपीष्टत्वाद् वास्तवत्वानुपपत्तेः, नय
प्रकृत
स्य प्रमाण
-
२२
प्रकृतस्य वाऽर्थस्य जात्यंतरस्यां
जसस्य
त्वदीयमतेन स्वीकर
-
णाद् अद्वितीयम् एव तवेदं मतम् अनुमन्यामहे ततो ऽन्यैरखिलैः प्रवा
-
दैर् अधृष्यत्वसिद्धेः ।
ननु चास्तु स्वतंत्रं द्रव्यम् एकं खपुष्पसमानंप्रत्यक्षादिभि
-
०५
र् अनुपलभ्यमानत्वात् क्षणिकपर्यायवत् । तदुभयं तुद्रव्यगुणकर्म
-
सामान्यविशेषसमवायरूपं सत्तत्त्वं प्रागभावादिरूपमेवासत्तत्वं
स्वतंत्रम् अपि कथं खपुष्पवत् स्यात् तस्यद्रव्यादिप्रत्ययविशेषवि
-
षयस्य सकलजनप्रसिद्धत्वाद् इति चेत्, नकारणकार्यद्रव्ययोर् गु
-
णगुणिनोः कर्मतद्वतोः सामान्यतद्वतोर् विशेष्यतद्वतोश् चपदार्था
-
१०
न्तरतया स्वतंत्रयोः सकृद् अप्य् अप्रतीयमानत्वात्सर्वदावयवावय
-
व्यात्मनोर् गुणगुण्यात्मनः कर्मतद्वदात्मनःसामान्यविशेषात्मन
-
श् चार्थतत्त्वस्य जात्यन्तरस्य प्रत्यक्षादितः सर्वस्यनिर्बाधम् अव
-
भासनात् ।
स्यान् मतं, परस्परनिरपेक्षम् अपि पदार्थपंचकंसमवायसंबंध
-
१५
विशेषवशात् परस्परात्मकम् इवावभासतेऽनुत्पन्नब्रह्मतुलाख्य
-
ज्ञानातिशयानाम् अस्मादृशाम् इति । तद् अपि न परीक्षाक्षमंसर्वदाऽ
-
स्मदादिप्रत्यक्षस्य भ्रांतत्वप्रसंगात् तत्पूर्वकानुमानादेरपि प्रमाण
-
त्वानुपपत्तेर् अप्रमाणभूतात् प्रत्ययविशेषात्पदार्थविषयव्यवस्थापना
-
संभवात्; तथाऽभ्युपगम्यापिपर्यनुयुंज्महे — अवयवावयव्यादीनां
२०
समवायवृत्तिः पदार्थान्तरभूता ततो वृत्तिमती वा स्यादवृत्तिमती
वा ? न तावत् प्रथमकल्पना संभवति तत्र संयोगवृत्तेरयोगात् तस्या
द्रव्यवृत्तित्वाद् अन्यथा गुणत्ववद्विरोधात् । नसमवायवृत्तिः समवा
-
२३
न्तरस्यानभ्युपगमात् विशेषणभावस्यापिवृत्तिविशेषस्य स्वतं
-
त्रपदार्थाविषयत्वाद् अन्यथातिप्रसंगात् सह्यविंध्ययोर् अपिविशेषण
-
विशेष्यभावानुषंगात् । संभवंती वा विशेषणभावाख्यावृत्तिमद्भ्यो
ऽर्थान्तरभूता वृत्त्यंतरानपेक्षा न जाघटीतितद्वृत्त्यंतरापेक्षायाम् अ
-
०५
नवस्थानात्
कृतो वृत्तिर् व्यवस्थिता स्याद् ययासमवायवृत्तिर् वृत्ति
-
म् अतीष्यते
। यदि पुनर् अवृत्तिमतीति कल्पनोत्तरासमाश्रियते
तदाप्य् अवृत्तिमत्त्वात् समवायवृत्तेः संसर्गहानिःसकलार्थानाम् अ
-
नुषज्यमाणा महेश्वरेणापि निवारयितुम् अशक्यापनीपद्येत । यदि
पुनः स्वभावतः सिद्धः संसर्गः पदार्थानाम् अन्योन्यं नपुनर् असं
-
१०
स्पृष्टानां समवायवृत्त्या संसर्गः क्रियतेसमवायसमवायिवद् इति
मतांतरम् उररीक्रियते तदा स्याद्वादशासनम् एवाश्रितं स्यात्स्वभा
-
वत एव द्रव्यस्य गुणकर्मसामान्यविशेषैर् अशेषैः
कथंचित् तादा
-
त्म्यम्
अनुभवतः प्रत्ययविशेषवशाद् इदं द्रव्यम् अयंगुणः कर्मेदं सा
-
मान्यम् एतत् विशेषो ऽसौ तत्संबंधो ऽयमविष्वग्भावलक्षणः सम
-
१५
वाय इत्य् अपोद्धृत्य सन्नयनिबंधनो व्यवहारः प्रवर्त्ततैत्य् अनेका
-
न्तमतस्य प्रसिद्धत्वात्; स्वतः परतो वार्थानांसंसर्गहानौ तु सक
-
लार्थहानिः स्यात्, ताम् अनिच्छद्भिर् अभेदभेदात्मकमर्थतत्त्वं परस्प
-
रतंत्रं प्रातीतिकम् अर्थक्रियासमर्थं सामर्थ्यात्समर्थनीयं तत्र विरो
-
धानवकाशात् तत्रोपलंभस्याबाधितस्य सद्भावात्तद्विरोधस्य वाऽनु
-
२०
पलंभलक्षणत्वात् सुदूरम् अप्य् अनुसृत्य सर्वैः प्रवादिभिरेकस्य
वस्तुनो
ऽनेकात्मकस्याश्रयणीयत्वात् योगैः सामान्यविशेषवत्; न हिसा
-
मान्यविशेष एकएवानुवृत्तिव्यावृत्तिप्रत्ययजननशक्तिद्वयात्मको
२४
नेष्यते । स्वसमयविरोधाच् छक्तिद्वयस्य ततो भेदोनैको ऽनेका
-
त्मक इति
चेत्
न, तस्य निःशक्तिकत्वप्रसंगात् । तस्य शक्ति
-
भ्यां संबंधान् न निःशक्तिकत्वम् इति चेत् तर्हि तस्यशक्तिभ्यां
संबन्धौ स्वीकुर्वतः कथम् अनेकात्मकं न स्यात् । तत्संबंधयोर् अपि
०५
ततो भेदे तद् एव निःशक्तिकत्वं ताभ्याम् अपि संबंधाभ्यामन्ययो
संबंधयोः परिकल्पनायाम् अनवस्था स्यात् । तद् असत्, तत्संबंधात्म
-
कत्वोपगमे शक्तिद्वयात्मकत्वम् एवास्तु शक्तिशक्तिमतोःकंथचित्ता
-
दात्म्यात्, तथा च सामान्यविशेष एवैको ऽनेकान्तात्मके वस्तुनि
विरोधं निरुणद्धीति किं नश्चिन्तया, तद्वद्वैयधिकरण्यादिदूषण
-
१०
कदंबकम् अपि ततो दूरतरं समुत्सारयतीति कृतंप्रयासेन; स्वयं मेच
-
कज्ञानं चैकान् एकं प्रतिभासं स्वीकुर्वत् कथम् अनेकान्तंनिरसितुम् उ
-
त्सहते सचेतनः । मेचकज्ञानम् एवेत्य् अयुक्तं तस्यनानास्वभावत्वा
-
भावे ऽनेकार्थग्राहित्वविरोधात्; नानार्थग्रहणस्वभावो ऽप्येक एव त
-
स्येष्यते सत्त्वादिसामान्यस्य नानाव्यक्तिव्यापकैकस्वभाववदिति
१५
चेत्, न तथा परं प्रति साध्यत्वात् सत्प्रत्ययाविशेषाद्विशेषलिंगा
-
भावाद् एकं सत्त्वसामान्यम् एकस्वभावं सिद्धं तद्वत्द्रव्यादिसामान्यं
द्रव्यत्वादिप्रत्ययाविशेषाद् विशेषलिंगाभावाच् चेति
चेत्
, न सत्त्व
-
द्रव्यादिप्रत्ययस्य प्रतिव्यक्तिविशेषसिद्धेःसत्त्वद्रव्यत्वादिसामा
-
न्यस्यानेकत्वव्यवस्थितेः । इदं च सद् इदं च सद् इतिसमाने इमे
२०
सती तथा समाने द्रव्ये गुणौ कर्मणी चेति समानप्रत्ययात्समान
-
परिणामस्य प्रतिव्यक्ति व्यक्त्यंतरापेक्षया प्रभिद्यमानस्यनिर्वाध
-
बोधाधिरूढत्वात् । तत्रवृत्तिविकल्पानवस्थादिबाधकस्यानवका
-
२५
शात् । ननु च समानपरिणामेषु समानप्रत्ययात्समानपरिणामा
-
न्तरप्रसंगाद् अनवस्थानं बाधकम् अत्रास्त्य् एवेति चेत्, नसमानपरिणा
-
मानां व्यक्तिष्व् एव स्वेष्व् अपि समानप्रत्ययहेतुत्वादनवस्थानुपपत्तेः
स्वयं व्यक्तयस् तथा समानप्रत्ययहेतवः सन्तु किंसमानपरिणा
-
०५
मकल्पनयेत्य् अनालोच्याभिधानं कर्कादिव्यक्तीनाम् अपि गोप्र
-
त्ययहेतुत्वप्रसंगात् । गोरूपेण समानेन परिणता एवखंडादि
-
व्यक्तयो गोप्रत्ययहेतव इति चेत् सिद्धः समानपरिणामोऽनेकः
प्रतिव्यक्तिभेदप्रतीतेः । न हि गोत्वं सामान्यम् एकंतत्समवा
-
यात् खंडादिषु गोप्रत्यय इति व्यवस्थापयितुं शक्यंकर्कादि
-
१०
व्यक्तिष्व् अपि तत्समवायात् गोप्रत्ययत्वप्रसंगात् । न चसर्व
-
व्यक्तिभ्यः सामान्यस्य समवायस्य च सर्वथा भेदे ऽपिखंडा
-
दिव्यक्तिष्व् एव गोत्वं समवैति न पुनः कर्कादिष्व् इतियुक्तम् उ
-
त्पश्यामः । इह खंडादिषु गोत्वम् इति सत्प्रत्ययाविशेषात्खंडा
-
दिष्व् एव गोत्वस्य समवाय इति चेत्, तर्हि नानासमवायः
१५
सिद्धः प्रतिसमवायिप्रत्ययभेदात् समवायिन एव नानासम
-
वायस् तत्त्वंभावेन व्याख्यातम् इति वचनात् । सत्तावत्तदेकत्वप्र
-
सिद्धेर् इति चेत्, नैकस्य निरंशस्यदेशकालभिन्नसमवायिषु
सर्वथेहेदम् इति प्रत्ययहेतुत्वविरोधात् संयोगस्याप्येकस्यानंशस्य
संयोगिषु संयुक्तप्रत्ययहेतुत्वप्रसंगात् तथा चैक एवसमवा
-
२०
यवत् संयोगः स्याद् इति यौगमतम् अतिवर्त्तते । यदि पुनर्नाना
संयोगः शिथिलः संयोगो निविडः संयोग इति विशेषप्रत्य
-
यान् मन्यध्वं तदा नित्यः समवायो नश्वरः समवाय इतिप्रत्य
-
२६
यभेदात् समवायो ऽपि ।
नानावस्तुसमवायिनोरनित्यत्वात् स
चेत् तर्हि संयोगिनोः शिथिलत्वात् संयोगः शिथिल इत्य् उपच
-
र्यतां परमार्थतस् तस्य निविडरूपत्वात् । नानासंयोगोयुतसिद्ध
-
द्रव्याश्रयत्वाद् विभागवद् इति चेत् न, द्रव्यत्वेनपरस्परव्यभिचा
-
०५
रात् तथा समवायो नाना स्यादयुतसिद्धावयवावयविद्रव्याश्र
-
यत्वाद् द्वित्वसंख्यावद् इत्य् अपि शक्यं वक्तुं । समवाय
स्यानाश्रय
-
त्वा
द् असिद्धो त्र हेतुर् इति चेत्, न
षण्णाम् आश्रितत्वमन्यत्र नित्य
-
द्रव्येभ्य
इति वचनविरोधात् । समवायस्यो
पचारादाश्रितत्व
-
सिद्धेस् तथा वचनं न विरुध्यते समवायिनोः सतोरेवेहेदम् इ
-
१०
ति प्रत्ययोत्पादस्योपचारकारणस्य सद्भावाद् इति चेत्, कथ
-
म् एवम् अवयवावयविद्रव्याश्रयत्वात् इति हेतुर् असिद्धः स्यात्तस्यो
-
पचारानुपचारानपेक्षयाश्रितत्वात्, सामान्यरूपत्वेनाभिधानात् ।
परमार्थतो ऽनाश्रितत्वे ऽपि एतद् अभिधीयते — नानासमवायोनाश्रि
-
तत्वात् परमाणुवद् इति । नन्व् एवं वदन् समवायं धर्मिणंप्रप
-
१५
द्यते चेत्, कालात्ययापदिष्टो हेतुश् चधर्मिग्राहकप्रमाणबाधि
-
तत्वात् । न प्रतिपद्यते चेद् आश्रयासिद्धो हेतुर् इत्य् अपि नदूषणं
समवायस्याविष्वग्भावसंबंधस्य कदाचित्तादात्म्यलक्षणस्यैक
-
त्वानेकत्वाभ्यां विवादापन्नस्य प्रतिपत्तेर्धार्मिग्राहकप्रमाणान्त
-
रैकत्वासिद्धेस् तेन बाधाऽनुपपत्तेःकालात्ययापदिष्टत्वायोगात् ।
२०
तदेकत्वसाधनस्य च प्रमाणस्यासंभवात् स्वप्रत्ययविशेषस्यासि
-
द्धत्वात् । कालादिभिर् व्यभिचार इति चेत्, न तेषाम् अपिकथंचि
-
न् नानात्वसिद्धेः कालस्यासंख्येयद्रव्यत्वात्स्वस्यानंतप्रदेशत्वात्
२७
स्याद्वादिनां मते, ततः समवायस्य नानात्वप्रसिद्धौच सामान्यस्य
प्रतिव्यक्तिसमवायं कथंचित्तादात्म्यं प्रतिपद्यमानस्यनानात्व
-
सिद्धिर् नानाव्यक्तितादाम्येन स्थितत्वात् व्यक्तिस्वरूपवद् इति
नैकस्वभावं सामान्यं सत्वं द्रव्यत्वादि वा परम् अपरंवा सिद्धं यत
०५
इदम् उच्यते नानाव्यक्तिव्यापकैकस्वभावसामान्यवन्नानार्थग्रा
-
हकैकस्वभावं मेचकज्ञानम् इति । नानास्वभावत्वे तुमेचकज्ञा
-
नस्यैकस्य तद् एवाभेदभेदात्मकं वस्त्वेकानेकात्मकंनित्या
-
नित्यात्मकं साधयेत्सकलविरोधादिबाधकपरिहरणसमर्थत्वात्
सौगतानां
च वेद्यवेदकाकारसंवेदनं तत्त्वम् एकमनेकात्मकं साध
-
१०
यत्य् एव । वेद्यवेदकाकारयोर् भ्रांतत्वे संवेदनस्यचाभ्रान्तत्वे
भ्रान्तेतराकारम् एकं संवेदनं, भ्रान्ताकारस्य चासत्त्वेसंविदा
-
कारस्याभ्रान्तस्य सत्वे सदसदात्मकम् एकं, विषयाकारविवे
-
कितया परोक्षत्वे संविद्रूपतया प्रत्यक्षत्वेपरोक्षप्रत्यक्षा
कारम् एकं
विज्ञानं कथं निराकुर्युः यतो ऽनेकान्तासिद्धिर् न भवेत् ।
कपि
-
१५
लानां
तु तत्त्वम् एकं प्रधानं सत्त्वरजस्तमोरूपंसर्वथैकान्तकल्प
-
नां शिथिलयत्य् एव । तस्यैवानेकान्तात्मकवस्तुसाधनत्वात् ।
सत्त्वादीनाम् एव साम्यमापन्नानां विनिवृत्तप्रसवप्रवृत्तीनांप्रधान
-
व्यपदेशात् । तद्व्यतिरिक्तप्रधानाभावान् नैकमनेकान्तात्मकम् इति
चेत् नैकप्रधानाभ्युपगमविरोधात् प्रधानत्रयसिद्धेः । सर्वसं
-
२०
हारकाले प्रधानम् एकम् एवाद्वयं न सत्त्वादयस् तेषांतत्रैव लीनत्वा
-
द् इति चेत्, कथम् एकस्माद् अनेकाकारं महत्प्रजायेतातिप्रसंगात् ।
सुखदुःखमोहशक्तित्रयात्मकत्वात् प्रधानस्य न दोष इतिचेत्,
२८
कथम् एवम् एकम् अनेकशक्त्यात्मकं प्रधानमनेकांतं न साधयेत्, भो
-
क्तृत्वाद्यनेकधर्मात्मकपुरुषतत्त्ववत् । भोक्तृत्वादीनामवास्तवत्वा
-
द् एकम् एव पुरुषतत्त्वम् इति चेत्, न वास्तवावास्तत्वसिद्धेः, पुरु
-
षस्यानेकत्वानिवृत्तेः । तस्यावास्तवधर्मरूपेणासत्वान्नानेकरूप
-
०५
त्वम् इति चेत्, न तथा सदसदात्मकतयाऽनेकांतसिद्धेः । ततो
भगवतो जिनस्य मतम् अद्वितीयम् एवनयप्रमाणप्रकृतांजसार्थत्वा
-
द् अखिलैः प्रवादैर् अधृष्यत्वाच् च व्यवस्थितम् इतियोगमतस्यैव स
-
दोषत्वसिद्धेर् अखिलार्थहानिर् व्यवतिष्ठते ।
इतश् च सकलार्थहानिर् यौगानाम् इत्य् अभिधीयते —
१०
भावेषु नित्येषु विकारहाने
-
र् न कारकव्यापृतकार्ययुक्तिः ।
न बंधभोगौ न च तद्विमोक्षः,
समंतदोषं मतम् अन्यदीयं ॥
८
॥
टीका —
दिक्कालाकाशात्ममनःसु पृथिव्यादिपरमाणुद्र
-
१५
व्येषु परममहत्वादिषु गुणेषु सामान्यविशेषसमवायेषु चभा
-
वेषु नित्येष्व् एवाभ्यनुज्ञायमानेषु विकारस्य विक्रियाख्यस्य
हानिः प्रसज्येत । विकारहानेश् च न कारकव्यापृतंकर्त्रादिका
-
रकव्यापारस्य विक्रियापाये संभवाऽभावात् । क्रियाविष्टंद्रव्यं
कारकम् इति प्रसिद्धेः । कारकव्यापृताभावे च न कार्यंद्रव्यगु
-
२०
णकर्मलक्षणं प्रतिष्ठाम् इयर्त्तीति । तदप्रतिष्ठायाञ् चन युक्तिर् अनु
-
मानलक्षणानुबंधे साध्ये तस्याः
कार्यलिंगत्वा
त्तदभावे चाघ
-
२९
टनात् । बंधाभावे च भोगः फलं न भवति । नाऽपि तद्विमो
-
क्षस् तस्य बंधपूर्वकत्वाद् इति सकलार्थहानिः स्यात् । भावानाम् अ
-
भावे प्रागभावादीनाम् अप्य् असंभवात् तेषां भावविशेषणत्वात्स्वतंत्रा
-
णाम् अनुपपत्तेः । एतेन
मीमांसकानां
शब्दात्मादिषुभावेषु
०५
नित्येषु प्रतिज्ञायमानेषु विकारहानेःकारकव्यापृतकार्ययुक्तिः
प्रत्याख्याता, तन्निबन्धनौ च बंधभोगौ, तद्विमोक्षश्चानंदात्म
-
कब्रह्मपदावाप्तिरूपः प्रतिक्षिप्तः । कथंचिदभेदभेदात्मकत्वे तु
भावानाम् अभ्युपगम्यमाने स्याद्वादाश्रयणंनित्यत्वैकांतविरोध
-
प्रातीतिकम् अवश्यं भावि दुर्निवारं इति समंतदोषमन्यदीयम् अन्येषां
१०
वैशेषिकनैयायिकानां मीमांसकानाञ् चेदम् अन्यदीयम् इतिप्रति
-
पत्तव्यम् । अथवा
कापिलानां
मतम् अन्यदीयंसमन्तदोषम् इति
व्याख्यायते समन्तात् देशकालपुरुषविशेषापेक्षयाऽपि सर्वतः
प्रत्यक्षानुमेयागमगम्येषु सर्वेषु स्थानेषु सर्वत इतिग्राह्यं सम
-
न्तात् दोषो बाधकं प्रमाणं यस्मिंस् तत्समन्तदोषं, तच्चान्यदीयं
१५
मतं न त्वदीयम् इति भावः । कथं तत्समन्तदोषम् इत्युच्यते ?
यस्माद् भावेषु नित्येषु निरतिशयेषु पुरुषेषु सांख्यैरभिमतेषु
निर्विकारस्य पुरुषार्थप्रधानप्रवृत्तिविक्रियालक्षणस्यहानिः प्र
-
सज्यते । स हि प्रधानस्य विकारो महदादिः पुरुषार्थोभवतु,
पुरुषस्य कंचिद् उपकारं करोति वा न वा ? यदि करोति तदा
२०
पुरुषाद् अनर्थान्तरम् अर्थान्तरं वा । ततो ऽनर्थान्तरंचेत्, तम् एव क
-
रोतीति कार्यत्वप्रसंगात् पुंसो नित्यत्वविरोधः । ततोऽर्थान्तरं
चेन् न तस्य किंचित् कृतं स्याद् इति कथं पुरुषार्थःप्रकृतेर् विकारः
३०
स्यात् । प्रकृतिकृतविकारोपकारेणपुरुषस्योपकारान्तरकरणे ऽ
-
नवस्थाप्रसंगात् । ननु च न पुरुषस्योपकारकरणान्महदादिः पुरु
-
षार्थो ऽभिधीयते सांख्यैर् नापि पुरुषेणतस्योपकारसंपादनात्
सर्वथा तस्योदासीनत्वात् । किं तर्हि पुरुषेण दर्शनात् पुरु
-
०५
षार्थः कथ्यते । पुरुषभोग्यत्वाद् इति केचित्, ते ऽपि नपरीक्ष
-
काः सर्वथोदासीनस्य पुरुषस्य भोक्तृत्वविरोधात् दृश्यस्यभोग्य
-
त्वायोगात् । ननु च वीतरागसर्वज्ञदर्शनवत् पुंसो विषय
-
दर्शनं भोगः, स च शुद्धस्यात्मनः संभवत्य् एवरागादिमलाभा
-
वात् । तद्विषयस्य च भोग्यत्वं निर्विषयस्य भोगासंभवात्ततः
१०
सर्वथोदासीनस्यापि भोक्तृत्वं न विरुध्यते इति चेत् न, परि
-
णामित्वप्रसंगात् स्याद्वादिनः सर्वज्ञवत्, स हि सर्वज्ञःपूर्वोत्त
-
रस्वभावत्यागोत्पादनाभ्याम् अवस्थितस्वभावः परिणाम्य् एवसर्वा
-
र्थान् पश्यति नान्यथा, प्रतिसमयं दृश्यस्य परिणामित्वेद्रष्टुर् अप
-
रिणामान् उपपत्तेर् न चायं दृश्यम् अर्थम् अपरिणामिनं वक्तुंसमर्थः स्वयं
१५
तस्य परिणामित्वोपगमात् सिद्धांतपरित्यागानुषंगात् । चि
-
च्छक्तिर् अपरिणामिन्येति चेत्, नादर्शितविषयत्वत्यागेनदर्शित
-
विषयत्वोपादानाद् अवस्थिताया एव तस्याः परिणामित्वसिद्धेः ।
एतेनाप्रतिसंक्रमत्वाद् अपरिणामिनी चेतनेति प्रत्युक्तं । प्रति
-
विषयं दर्शितविषयत्वे संक्रमात् तथा बुद्धेर् एवप्रतिसंक्रमो न तु
२०
चिच्छक्तेर् इति चेत्, व बुद्धेर् अप्य् अप्रतिसंक्रमप्रसंगात्विषयस्यैव
प्रतिसंक्रमप्रसंगात्, बुद्ध्यावसीयमानस्य विषयस्यप्रतिसंक्रमे
बुद्धेः कथम् अप्रतिसंक्रम इति चेत्, तर्हि बुद्धेःप्रतिदर्शि
-
३१
कायाः प्रतिसंक्रमे तद्विषयस्य चितिशक्तिः कथमप्रतिसंक्र
-
मेति चिन्त्यं, यथैव हि विषयं प्रतिनियतं दर्शयन्तीबुद्धि
-
श् चितिशक्तये संक्रामति तथा क्रमेण चितिशक्तिर् अपिपश्यंती
विशेषाभावात कथम् अन्यथा क्रमेणा दर्शितविषया स्यात् । चि
-
०५
च्छक्तिर् अप्रतिसंक्रमैव सर्वदा शुद्धत्वाद् इति चेत्, नशुद्धात्मनो
-
ऽपि स्वशुद्धपरिणामं प्रतिसंक्रमाविरोधात्तत्राशुद्धपरिणामसंक्र
-
मस्यैवासंभवात् । शुद्धपरिणामेनापि चितिशक्तिरप्रतिसंक्र
-
मानं तत्वाद् इति चेत्, न प्रकृत्या व्यभिचारात् । सा ऽपि ह्यनंता
सांतत्वेऽपि नित्यत्वविरोधात् । प्रकृतेर्महदादिपरिणामसद्भावा
-
१०
त् प्रतिसंक्रमः सिद्धयेन् न पुनश् चिच्छक्तेर् अपरिणामित्वादिति चेत्,
न तस्या अपि दृश्यदर्शनपरिणामसद्भावसिद्धेः । एतेन चि
-
च्छक्तेर् अप्रतिसंक्रमे साध्ये परिणामरहितत्वे सत्यनंतत्वाद् इति
हेतोर् असिद्धत्वं व्यवस्थापितम् ।
स्यान् मतं, चिच्छाक्तिर् अपरिणामिन्य् अप्रतिसंक्रमाशुद्धत्वे सत्य् अ
-
१५
नंतत्वात् परसंग्रहविषयसत्तावद् इति । तद् अप्य् असत् । सत्ताया गु
-
णीभूतपरिणामसंक्रमाया एव परसंग्रहविषयायाः स्याद्वादिभिर् अ
-
भीष्टत्वात् साध्यसमत्वाद् उदाहरणस्य । न हिनिराकृतपरिणा
-
मसंक्रमं किंचिद् द्रव्यं द्रव्यार्थिकनयं प्रत्यापयतिदुर्नयत्वप्रसंगात्
ब्रह्मवादवत् । नाऽपि स्वपरिणामभिन्नमुपचरितपरिणामसंक्र
-
२०
मम् उररीक्रियते, यतस् तदुदाहरणीकृत्य चिच्छक्तिस् तथाविधा
साध्येति । ननु च परेषां दृश्यस्य द्रष्टुर् अत्यंतभेदात्दृश्ये परिणा
-
मिनि प्रतिसंक्रमो द्रष्टुर् इति चिच्छाक्तिलक्षणे शुद्धात्मनिउप
-
३२
चर्यते तयोः संसर्गाश् चेतनस्यदर्शितविषयत्वोपगमात् ततो न
परमार्थतो परिणामप्रतिसंक्रमं तं प्रनिषेद्धुम् उचितमिति चेत्
तर्हि दर्शितविषयत्वम् यो ऽचरितत्वे दर्शनम् अनुपचरितमात्मनः
प्रसज्येत, अथ दर्शनभेदस् तत्रोपचरित एव भिन्नस्यदर्शनस्य
०५
दृशिशक्तिरूपस्य वास्तवत्वाद् इति मतं तद् अपि न सम्यक् । दृशि
-
शक्तेः स्वभावभेदम् अन्तरेण नानाविधदृश्यदर्शनविरोधात्तद्द
-
र्शितविषयस्वभावभेदस्य पारमार्थिकस्यैव सिद्धेः ।
स्यान् मतं चिच्छक्तेर् एक एवाभिन्नः स्वभावोऽभ्युपगम्यते ऽ
-
स्माभिर् येन यो यदा यत्र यथा दृश्यपरिणामोबुद्धयाध्यवसीयते
१०
तं तदा तत्र तथा पश्यतीति दर्शितविषयत्वे पि तस्याःप्रतिविषयं
न स्वभावभेद इति । तद् अप्य् असंभाव्यं, तथा बुद्धेरप्य् एकस्वभावत्वप्र
-
संगात् । शक्यं हि वक्तुं बुद्धेर् एक एव क्रमभाव्यनेकविषयव्यवसा
-
यस्वभावो येन यथाकालं यथादेशं यथाप्रकारं चविषयम् अ
-
ध्यवस्यतीति व किंचिद् अनेकस्वभावं सिध्येत्तथेन्द्रियमनोऽहंका
-
१५
राणाम् अपिविषयालोचनसंकल्पनाभिमननैकस्वभावत्वप्रसंगात् ।
तन्मात्रभूतानाम् अपिनानास्वकार्यकरणैकस्वभावत्वोपपत्तेः ।
कस्यचिद् अनेकशो ऽनेककार्यहेतोर् अनेकक्रियाशाक्तिस्वभावत्वेचि
-
च्छक्तेर् अपि नानादृश्यदर्शनक्रियास्वभावनानात्वं कथमपा
-
क्रियते । तथा च न चिच्छक्तिर् निरतिशयैकनित्यस्वभावा
२०
सिध्यति तत्र दर्शितविषया यतस् तदर्थोबहुधाऽनेकविकारो
महदादिः स्याद् इति नित्येषु भावेषु प्रकृतिपुरुषेषुविकारहानिः
सिद्धा । विकारहानेश् च न कारकव्यापृतकार्ययुक्तिः । करोति
३३
इति कारकं कर्तृप्रधानं तस्य व्यापृतं व्यापारः, कार्यं महदादि
व्यक्तं, युक्तिर्योगः संबंधः संसर्गः कारकव्यापृतं चकार्यं च
ताभ्यां युक्तिः पुरुषस्य संसर्गो न स्यात् । तथाकारकत्वेनाभि
-
मतं प्रधानं न महदादिकार्यकारि निर्व्यापारत्वात्पुरुषवत् ।
०५
निर्व्यापारं तत् सर्वथाविक्रियाशून्यत्वात् तद्वत् । विकाररहितं
प्रधानं नित्यत्वाद् आत्मवद् इति न कारकव्यापृतकार्ययोर्व्यवस्था ।
तदभावे च न ताभ्यां युक्तिः पुरुषस्य सिद्ध्येत्, तदसिद्धौ
च न बंधभोगौ स्यातां मुक्तात्मवत्, प्रधानव्यापारकार्यायोगे
हि न धर्माधर्माभ्यां प्रकृतेर् बंधः संभवति, तदसंभवे च न तत्फलं
१०
सुखदुःखं यस्य भोगे दर्शनं पुरुषस्य स्यात् तदभावेन तद्वि
-
मोक्षः प्रधानस्य सिद्ध्येद् बंधाभावे मोक्षानुपपत्तेः, बंधपूर्वकत्वा
-
द् विमोक्षस्येति समंतदोषं मतम् अन्यदीयं सिद्धम् । "स्यान्मतं
नित्येष्व् अप्य् आत्मादिषु भावेषु स्वभावत एव विकारः सिद्ध्येत्
ततः कारकव्यापारः कार्यं च तद्युक्तिश् चोपपद्यते इतिसकल
-
१५
दोषासंभव एवेति तद् अपि न परीक्षाक्षमम् इत्य् आहुः —
अहेतुकत्वं प्रथितः स्वभाव
-
स् तस्मिन् क्रियाकारकविभ्रमः स्यात् ।
आबालसिद्धेर् विविधार्थसिद्धि
-
र् वादान्तरं किं तद् असूयतां ते ॥
९
॥
२०
टीका —
स्वभाववादी तावद् एवं प्रष्टव्यः — किम् अयं स्वभावो
निर्हेतुकत्वं प्रथितः? किम् उत आबालसिद्धेर्विविधार्थसिद्धिर् इति ?
३४
निर्हेतुकत्वं प्रथितः स्वभाव इति चेत्, तर्हिज्ञप्त्युत्पत्तिलक्ष
-
णायाः क्रियायाः प्रतीयमानाया विभ्रमः स्यात् स्वभावत एव
भावानां ज्ञानाद् आविर्भावाच् चान्यथा निर्हेतुकत्वासिद्धेः । क्रिया
-
विभ्रमे च कारकस्य सकलस्य प्रतिभासमानस्य विभ्रमो
०५
भवेत्, क्रियाविशिष्टस्य द्रव्यस्य कारकत्वप्रसिद्धेःक्रियायाः
कारकानुपपत्तेः । न च क्रियाकारकविभ्रमःस्वभाववादिभि
-
र् अभ्युपगंतुं युक्तो वादान्तरप्रसंगात् । अस्तुसर्वविभ्रमैकान्तो
वादान्तरम् इति चेत्, तर्हि विभ्रमे किम् अविभ्रमो विभ्रमो वा
स्यात् ? यद्य् अविभ्रमस् तदा न विभ्रमैकांतः सिध्येत् तत्राऽपि वि
-
१०
भ्रमे सर्वत्राभ्रान्तिसिद्धिः सर्वत्र विभ्रमे विभ्रमस्यसर्ववास्तव
-
स्वरूपत्वात् ततो वादान्तरं किं तद् असूयतां ते तवभगवतः स्या
-
द्वादभानोः असूयतां विद्विषां विभ्रमैकान्तस्यापि वादान्तर
-
स्यासंभवान् न किंचिद् वादान्तरम् अस्तीति वाक्यार्थः । अथना
-
हेतुत्वं प्रथितः स्वभावो ऽभ्युपगम्यते किं त्वाबालसिद्धेर् विविधा
-
१५
र्थसिद्धिः प्रथितः स्वभाव इति निगद्यते तर्हिसैवाबालसिद्धे
-
र् निर्णीतिर् नित्याद्यैकां तवादाश्रयणे न संभवति यतःसर्वेषाम् अर्था
-
नां कार्याणां कारणानां वा सिद्धिः स्यात् । न च प्रत्यक्षा
-
दिप्रमाणतो विविधार्थसिद्धेर् असंभवे परेषां पर्यनुयोगेस्वभाव
-
वादाव् अलंबनं युक्तम् अतिप्रसंगात् । प्रत्यक्षादिप्रमाणसामर्थ्यात् वि
-
२०
विधार्थसिद्धिः स्वभाव इति वचने कथमिवस्वभावैकांतवादः
सिध्येत् । स्वभावस्य स्वभावत एव व्यवस्थितेस् तस्यप्रत्यक्षा
-
दिप्रमाणसामर्थ्यात् व्यवस्थापितत्वात्, वादान्तरं तु किं तत्
३५
ते ऽसूयतां स्यात्? तव सुहृदाम् एव वादान्तरंसम्यगनेकांतवा
-
दरूपं प्रसिध्येत् न तु तव प्रतिक्षाणांमिथ्यैकांतवादिना
-
म् इत्य् अर्थः । किं च नित्यैकान्तवादिनः किम् आत्मतत्त्वंदेहाद् अनन्य
-
देव वदेयुर् अन्येदेव वा ? प्रथमकल्पनायां संसाराभावःप्रसज्येत,
०५
देहात्मकस्यात्मनो देहरूपादिवद्भवांतरगमनासंभवात्तद्भव एव
विनाशप्रसंगात्, नित्यत्वविरोधाच्चार्वाकमताश्रयणप्रसंगश् च । स
च प्रमाणविरुद्ध एवात्मतत्त्ववादिनो ऽनिष्टश् च । द्वितीयकल्पनायां
तु देहस्यानुग्रहोपघाताभ्याम् आत्मनः सुखदुःखे न स्यातांस्वदे
-
हाद् अप्य् आत्मनो ऽन्यत्वाभिनिवेशात् देहान्तरवत्, सुखदुःखाभावे
१०
च नेच्छाद्वेषौ, तदभावे च धर्माधर्मौ न संभवतैति स्वेदेहे ऽनु
-
रागसद्भावाद् अनुग्रहोपघाताभ्याम् आत्मनः सुखदुःखेस्वगृहाद्य
-
नुग्रहोपघाताभ्याम् इव कथम् उपपद्यते ।
देहाद् अनन्यत्वान्यत्वाभ्याम् अवक्तव्यमात्मतत्त्वमभ्युपगच्छतां
बाधकम् आहुः —
१५
येषाम् अवक्तव्यम् इहात्मतत्त्वं
देहाद् अनन्यत्वपृथक्त्वकॢप्तेः ।
तेषां ज्ञतत्वे ऽनवधार्यतत्त्वे
का बंधमोक्षस्थितिर् अप्रमेये ॥
१०
॥
टीका —
न देहाद् आत्मतत्त्वस्यानन्यत्वकॢप्तिर् नापि पृथक्त्व
-
२०
कॢप्तिर् उक्तदोषानुषंगात् । किं तर्हि ? देहादनन्यत्वपृथक्त्वकल्प
-
नाद् आत्मतत्त्वम् अवक्तव्यम् एवेति येषाम् अभिनिवेशस् तेषांज्ञतत्त्वं सर्वथाऽ
-
३६
नवधार्यतत्त्वं प्रसज्यतेतत्स्वरूपस्यावधारयितुम् अशक्यत्वात् ।
देहाद् अनन्यत्वेन पृथक्त्वेन वा तस्यानवधारणेप्रोक्तदोषानु
-
षंगात् तदुभयकल्पनयाप्य् अनवधार्यतत्त्वस्य प्रसिद्धेरवक्तव्यत्ववत् ।
तथा च सकलवाग्विज्ञानगोचरातिक्रांतम् आत्मतत्त्वम् इत्यायातं ।
०५
तत्र चानवधार्यतत्त्वे ज्ञतत्त्वे का बंधमोक्षस्थितिरप्रमेये सर्वथा
ऽनवधार्यतत्त्वं ह्य् आत्मतत्त्वम् अप्रमेयम् आपन्नं तत्रचाप्रमेये प्रत्यक्षा
-
दिप्रमाणाविषये ज्ञतत्त्वे का बंधमोक्षस्थितिर् वासंभाव्यते बंध्या
-
पुत्रवत् न कापीत्य् अर्थः ।
तद् एवं नित्यैकांतात्मवादिमतं समंतदोषंव्यवस्थाप्य संप्र
-
१०
त्यनित्यात्मवादिमतम् अपि समंतदोषम् उपदर्शयितुमारभते —
हेतुर् न दृष्टो ऽत्र न चाप्य् अदृष्टो
यो ऽयं प्रवादः क्षणिकात्मवादः ।
न ध्वस्तम् अन्यत्र भवे द्वीतीये
संतानभिन्ने न हि वासनाऽस्ति ॥
११
॥
१५
टीका —
यो ऽयं क्षणिकात्मवादः
सौगतानां
नध्वस्तं
चित्तम् अन्यत्र द्वितीये भवे क्षणे भवेद् इति, स प्रवादएव केवलः
प्रमाणशून्यो वादः प्रवादः प्रलाप इत्य् अर्थः । कुत एतत्, यो ऽत्र
क्षणिकात्मवादे हेतुर् ज्ञापकः कश्चिन् न विद्यतेऽयत्सत्तत्सर्वं क्षणिकंऽ
यथा शब्दविद्युदादिः संश्च स्वात्मेति स्वभावहेतुर् ज्ञापकोऽस्त्य् एवेति
२०
चेत्, स तर्हि स्वयं प्रतिपत्रा दृष्टो वा स्याद् अदृष्टो वा ? नतावत्
दृष्टः संभवति, तस्य दर्शनानन्तरम् एव विनाशादनुमानकाले ऽ
-
३७
प्य् अभावात् तदनुमातु
१
श् च चित्तविशेषलिंगदर्शिनोऽसंभवात् ।
न चाऽप्य् अदृष्टो हेतुः कल्पनारोपितः संभवति तत्कल्पनायाअपि
अनुमानकाले विनाशात् । व्याप्तिग्रहणकाललिंगदर्शनविकल्प
-
विनाशेपि तद्वासनासद्भावातनुमानकाललिंगदर्शनप्रबुद्धवा
-
०५
सनासामर्थ्याद् अनुमानं प्रवर्त्तत एवेति चायुक्तंहेतुहेतुमद्भाव
-
व्याप्तिग्राहिचित्ताद् अनुमातृचित्ते संतानाभिन्नेवासनानुपपत्तेः
सन्तानभिन्नम् इव सन्तानभिन्नं चित्तं तस्मिन् न हिवासनाऽस्ति,
जिनदत्तदेवदत्तं सतानभिन्ने पि चित्ते वासनास्ति त्वानुषंगात् ।
देवदत्तचित्तेन साध्यसाधनव्याप्तौ गृहीतायां जिनदत्तस्यतत्सा
-
१०
धनदर्शनात् साध्यानुमानम् आसज्येताविशेषात् । तथा चवासना
नास्ति संतानभिन्ने चित्ते तथा न तत्कारणकार्यभावःसंभव
-
तीति क्रियाध्याहारः । संतानभिन्नयोर् अपि चित्तयोःकार्यकार
-
णभावे देवदत्तजिनदत्तचित्तयोर् अपि कारणकार्यभावःप्रवर्त्तेत ।
सामान्यरूपाणाम् एव चित्तक्षणानाम् एकसंतानवर्तिनां कार्यका
-
१५
रणभावो न तु भिन्नसन्तानवर्त्तिनाम् असमानरूपाणाम् इतिचेत्,
न तर्हि चित्तक्षणाः क्षणविनश्वरा निरन्वयाः केनसमानरूपाः ?
न केनापि स्वभावेन ते समानरूपा इत्य् अर्थः । तथाहि — यदि
तावत् सत्स्वभावेन चित्स्वभावेन वा समानरूपाः स्युस् तदाभि
-
न्नसंतानवर्तिनो ऽपि तथा भवेयुर् अविशेषात् । यदि पुनरतद्धेतुभ्यः
२०
संतानान्तरवर्त्तिभ्यश् चित्तक्षणेभ्यो व्यावृत्तेनतद्धेत्वपेक्षित्वेन समा
-
नरूपाः केचिदेवैकसंतानवर्त्तिनश् चित्तक्षणाः इष्यन्तेपूर्वपूर्वस्यो
-
१ ऽतदनुमातुः स्वचित्तविशेषस्यऽ इति पुस्तकांतरे ।
३८
पादानहेत्वपेक्षित्वाद् उत्तरोत्तरचित्तस्येति मतंतदापि तदुत्तरं
चित्तम् उत्पन्नं सत्स्वहेतुम् अपेक्षते ऽनुत्पन्नम् असद् वा । नतावत् प्रथमः
पक्षः । सतः सर्वनिराशंसत्त्वाद् उत्पन्नस्यहेत्वपेक्षत्वविरोधात् ।
द्वितीयपक्षे त्व् असत्खपुष्पं न हि हेत्वपेक्षं दृष्टं । एतद् उक्तं भवति,
०५
यद् असत् तन् न हेत्वपेक्षं दृष्टं यथा खपुष्पं असच्चोत्पत्तेः पूर्वं कार्य
-
चित्तम् इति ततो न सिध्यत्य् उभयोर् असिद्धं । न हि किंचिदसद् अपि
हेत्वपेक्षं वादिप्रतिवादिनोर् उभयोः सिद्धम् अस्ति । यन्निदर्श
-
नीकृत्योत्तरम् उत्तरं चित्तम् अनुत्पन्नम् अपि तद् धेत्वपेक्षंसाध्यते
तदसाधने च कथं तद्धेत्वपेक्षत्वेनापि समानरूपाश्चित्तक्षणाः
१०
केचिद् एवैकसंतानभाजः सिद्धेयुर् यतः कारणकार्यभावस्तेषा
-
म् उपादानोपादेयलक्षणः स्यात्, वास्य वासकभावहेतुर् इति न
तत्र वासना संभवति भिन्नसंतानचित्तक्षणवत्, ततःसूक्तं
सूरिभिर् इदम् —
तथा न तत्कारणकार्यभावा
१५
निरन्वयाः केन समानरूपाः ।
असत् खपुष्पं न हि हेत्वपेक्षं
दृष्टं न सिध्यत्य् उभयोर् असिद्धम् ॥
१२
॥
टीका —
खंडशो ऽस्य व्याख्यानात् ।
यथा च हेतोर् अपेक्षकं फलचित्तम् असन् न घटतेतथा हेतुर् अपि
२०
फलचित्तस्यापेक्षणीयो न संभवत्य् एवेत्य् आहुः —
नैवास्ति हेतुः क्षणिकात्मवादे
३९
न सन्न् असन् वा विभवाद् अकस्मात् ।
नाशोदयैकक्षणता च दृष्टा
संतानाभिन्नक्षणयोर् अभावात् ॥
१३
॥
टीका —
अभ्युपगम्येदम् उक्तं — कार्यचित्तं सद्रूपम् असद्रूपं
०५
वा न हेत्वपेक्षम् इति परमार्थस् तु क्षणिकात्मवादेहेतुर्नैवाऽस्ति ।
स हि सन् वा हेतुः स्याद् असन् वा ? न तावत् सन् नेवपूर्वचित्तक्षण
उत्तरचित्तक्षणस्य हेतुर् भवति विभवाद् विभवप्रसंगादित्य् अर्थः ।
सत्येकक्षणे चित्ते चित्तान्तरस्योत्पत्तौ तत्कार्यस्यापितदैवो
-
त्पत्तिर् इति सकलचित्तचैत्तक्षणानामेकक्षणवर्त्तित्वोत्पत्तौ यु
-
१०
गपत् सकलजगद्व्यापिचित्तप्रकारासिद्धेर् विभुत्वम् एवक्षणिकं क
-
थम् इव निवार्येत । पूर्वं पश्चाच् च चित्तशून्यं जगदापनीपद्येत
तथा च संताननिर्वाणलक्षणो मोक्षो विभवःसर्वस्यानुपायसिद्धः
स्यात् । अथैतद्दोषभयाद् असन्न् एव हेतुर् अति ब्रूयात् तदाप्यकस्मा
-
त्कारणम् अंतंरेण कार्योत्पत्तिप्रसंगस् ततो ऽसन्न् अपि नहेतुः संभवति ।
१५
स्यान् मतं
— यस्य नाश एव कार्योत्पादः स तद्धेतुर्नाशो
-
दययोर् एकक्षणतोपपत्तेः, कारणनाशानंतरंकार्यस्योदयस्यानि
-
ष्टेर् अकस्मात्कार्योदयप्रसंगाद् इति चेत्, तद् अप्य् असत् । यतोना
-
शोदयैकक्षणतायाः संतानभिन्नक्षणयोर् अभावात्, भिन्नौच
तौ क्षणौ च भिन्नक्षणौ कालव्यवहितौ संतानस्यभिन्नक्ष
-
२०
णौ संतानभिन्नक्षणौ तयोः सुषुप्तसंतानेजाग्रच्चित्तप्रबुद्धचि
-
त्तक्षणयोर् अभावान् नाशोदयैकक्षणताया इतिविभक्तिपरिणामः ।
४०
न हि तत्र जाग्रच्चित्तस्य नाशकाल एवप्रबुद्धचित्तस्योदयो ऽ
-
स्ति मुहूर्त्तादिकालेनानेकक्षणेन व्यवधानात् तथा चजाग्रच्चित्तं
प्रबुद्धचित्तस्य हेतुर् न स्यात् तन्नाशस्यैवप्रबुद्धचित्तोदयत्वाभा
-
वात् जाग्रच्चित्तप्रबुद्धचित्तनाशोदययोर् एकक्षणतापायात् । अथ
-
०५
वा संताने प्रदीपादेर् निरन्वयनाशिनि नाशोदययोरेकक्षणताया
असंभवात् भिन्नक्षणतेति व्याख्येयं ततो ऽसत्येव हेतौ
कालान्तरेण स्वयम् उत्पद्यमानो ऽर्थः प्रलय इवाकस्मिकःस्यात् ।
तत्र चेदं दूषणम् आवेदयन्ति सूरयः —
कृतप्रणाशाकृतकर्मभोगौ
१०
स्याताम् असंचेतितकर्म्म च स्यात् ।
आकस्मिके ऽर्थे प्रलयस्वभावो
मार्गो न युक्तो बधकश् च न स्यात् ॥
१४
॥
टीका —
यथा कारणम् अन्तरेणैव भवन्प्रलयः स्यादाकस्मिकः
सौगतस्य तथा कार्योदयो ऽपीति प्रलयस्वभावो ऽर्थःप्रमाण
-
१५
बलाद् आयातः परिहर्त्तुम् अशक्यत्वात् तस्मिंश् चाकस्मिके ऽर्थेप्रलयस्व
-
भावे युक्त्या पूर्वचित्तेन कृतं कर्म शुभम् अशुभं वातस्य तत्फल
-
भोगाभावात् कृतप्रणाशः स्यात् तदुत्तरभाविना चचित्तेनाकृत
-
स्यैव कर्मणो भोगः स्याद् एकस्य कर्मणां कर्तुस्त
१
त्फलभो
-
क्तुश् चावस्थितस्याभावाद् इति कृतप्रणाशाकृतकर्मभोगौस्यातां ।
२०
तथा येन चित्तेन संचेतितं कर्म तस्य निरन्वयप्रलयात्येना
-
१ ऽतदन्यानुऽ इति पुस्तकांतरे ।
४१
संचेतितम् उत्तरचित्तेन तस्यैव कर्म भवेदित्य् अतो ऽसंचेतितं च कर्म
स्यात् । तथा च सकलास्रवनिरोधलक्षणमोक्षस्यचित्तसंतति
-
नाशरूपस्य वा शांतनिर्वाणस्य मार्गोहेतुर्नैरात्म्यभावनालक्षणो
न युक्तः स्यान् नाशकस्य कस्यचिद्विरोधात् । तथाकस्यचित्प्रा
-
०५
णिनः कश्चिद्वधको ऽपि स्यात् तद्वधकस्यप्रलयस्वभावस्या
-
कस्मिकत्वात् ।
किञ्चान्यत् स्या
द् इत्य् आचार्या
व्याचक्षते —
न बन्धमोक्षौ क्षणिकैकसंस्थौ
न संवृतिः साऽपि मृषास्वभावा ।
१०
मुख्यादृते गौणविधिर् न दृष्टो
विभ्रान्तदृष्टिस् तव दृष्टितो ऽन्या ॥
१५
॥
टीका —
क्षणिकम् एकं यच् चित्तं तत्संस्थौ बंधमोक्षौ नस्यातां ।
यस्य चित्तस्य बंधस्तस्य निरन्वयप्रणाशात्तदुत्तरचित्तम्या
-
बद्धस्यैव मोक्षप्रसंगात् । यस्यैव बन्धस्तस्यैव मोक्षैत्य् एक
-
१५
चित्तसंस्थौ बंधमोक्षौ संवृत्यातदेकत्वारोपविकल्पलक्षणाया
स्याताम् इति चेत् तर्हि सापि संवृतिर् मृषास्वभावा स्यात् गौण
-
विधिर्वा ? तत्र तावन् न संवृतिः मृषास्वभावाबंधमोक्षयोः
क्षणिकैकचित्तसंस्थयोः मृषात्वप्रसक्तेः । गौणविधिर् एवसंवृति
-
र् इति चेत्, तर्हि मुख्यौ बंधमोक्षौ क्वचिच्चित्तेसंतिष्ठमानौ
२०
प्रतिपत्तव्यौ यतो मुख्यादृते गौणविधिर् न दृष्टःपुरुषसिंहवत् ।
न हि मुख्यसिंहादृते गौणस्य पुरुषे सिंहविधेर् दर्शनमस्ति ।
४२
तद् एवं विभ्रान्तदृष्टिस् तव दृष्टितो ऽन्या, तववीरस्य स्याद्वादा
-
मृतसमुद्रस्य या दृष्टिर् अबाधिता ततो ऽन्याक्षणिकात्मवादिदृ
-
ष्टिर् विभ्रान्तदृष्टिर् एव समंतदोषत्वाद् इति सूरेरभिप्रायः ।
तम् एवाहुः —
०५
प्रतिक्षणं भंगिषु तत्पृथक्त्वा
-
न् न मातृघाती स्वपतिः स्वजाया ।
दत्तग्रहो नाधिगतस्मृतिर् न
न क्त्वार्थसत्यं न कुलं न जातिः ॥
१६
॥
टीका —
क्षणं क्षणं प्रति भंगवत्सु पदार्थेषुप्रतिज्ञाय
-
१०
मानेषु न मातृघाती कश्चित्पुत्रोत्पत्तिक्षण एव मातुः स्वयंनाशात्
तदनंतरे क्षणे पुत्रस्यापि प्रलयाद् अपुत्रस्यैवप्रादुर्भावात् । लोकव्य
-
वहारतो मातरं दूरतरं हन्तुं प्रवृत्तो ऽपि न मातृघातीभवेद् इ
-
त्य् अर्थः । तथा न स्वपतिः कुलयोषितो ऽपि कश्चित् स्यात्
तद्वोढुः पत्युर् विनाशाद् अन्यस्योत्पादात् । तदूढाया योषितश्च विना
-
१५
शात् तदन्यस्या एवोत्पादात् पारदारिकत्वप्रसंग इत्य् अर्थः । तथा
स्वजायाऽपि न स्यात् । तत एव तथा दत्तग्रहो न स्यात् — धनि
-
ना दत्तस्य धनस्याधमर्णात् ग्रहणं न स्यात् दातुर्निरन्वयनाश द
-
धमर्णस्याप्य् अन्यस्य प्रादुर्भावात् साक्षिलिखितादेर् अपिपरिध्वं
-
साद् इत्य् अर्थः । तथाऽधिगतस्य शास्त्रार्थस्य स्मृतिर् अपिन स्याद् इति
२०
शास्त्राभ्यासस्य वैफल्यम् आसज्येत । तथा नक्त्वार्थसत्यं पूर्वो
-
त्तरक्रिययोर् एककर्तृकयोः पूर्वकाले क्त्वार्थसत्येनपरमार्थेन प्रमा
-
४३
णोपपन्नेन न्यायेन क्त्वार्थश् च सत्यं चक्त्वार्थसत्यं "राजदंतादिषु
परं" इति सत्यपदस्य परनिपातः, तद् अपि प्रतिक्षणंभंगिषु विषय
विषयिषु नोपपद्येत । तथा न कुलं सूर्यवंशादिकं भवेत्क्षत्रि
-
यस्य, यत्र कुले ऽसौ जातस् तस्य निरन्वयविनाशात्तज्जन्मनि
०५
कुलाभावात् । तथा न जातिः क्षत्रियत्वादिः तदव्यक्तिव्यति
-
र् एकेण तदसंभवात् । अनेकव्यक्तेर् अतद्व्यावृत्तिग्राहिणश्चित्त
-
स्यैकस्यासंभवात् तदन्यापोहलक्षणायाश् च जातेरनुपपत्तेः ।
किञ्च —
न शास्तृशिष्यादिविधिव्यवस्था
१०
विकल्पबुद्धिर् वितथाऽखिला चेत् ।
अतत्त्वतत्त्वादिविकल्पमोहे
निमज्जतां वीतविकल्पधीः का ॥
१७
॥
टीका —
शास्ता
सुगतः
शिष्यस् तद्विनेयस् तयोर् विधिःस्व
-
भावस् तस्य व्यवस्था विशेषेणान्यव्यवच्छेदेनावस्था सापिन
१५
स्यात्, प्रतिक्षणं भंगिषु चित्तेष्व् इति सम्बन्धनीयम् । तत्त्व् अदर्श
-
नं परानुग्रहतत्त्वप्रतिपिपादयिषातत्त्वप्रतिपादनकालव्यापिनः
कस्यचिद् एकस्य शासकस्यानुपपत्तेः । शिष्यस्य चशासनशुश्रूषा
-
श्रवणग्रहणधारणाभ्यासनादिकालव्यापिनः कस्याचिदघटनात् ।
अयं शास्ताऽहं शिष्य इति प्रतिपत्तेः कस्यचिद् अयोगात् । तथादि
-
२०
शब्देन स्वामिभृत्यविधिव्यवस्था जनकतनयविधिव्यवस्थानप्तृ
-
पितामहादिविधिव्यवस्था च न स्याद् इति ग्राह्यं । ननु चवहिर् अन्त
-
४४
श् च प्रतिक्षणं विनश्वरेषु स्वलक्षणेषुपरमार्थतो मातृघातीत्य् आदि
-
शास्तृशिष्यादिविधिव्यवस्थाव्यवहारो न संभवति । किंतर्हि ? वि
-
कल्पबुद्धिर् इयम् अखिलानादिवासनासमुद्भूतामातृघात्यादिव्य
-
वस्थाहेतुर् वितथैव सर्वनिर्विषयत्वाद् इति यद्यभिमन्यं ते सौगतास् त
-
०५
दा तेषाम् अतत्त्वतत्त्वादिविकल्ममोहे निमज्जतां का नामवीतविकल्प
-
धीरर्थवती तथ्या कथ्येत । मातृघात्यादिसकलम् अतत्त्वमेव ततो ऽ
-
न्यत्तु तत्त्वं इति व्यवस्थितेर् अपिविकल्पबासनावलायातत्वात् संवृ
-
तिर् अतत्त्वं परमार्थतस् तत्त्वम् इत्य् अपिविकल्पशिल्पिघटितम् एव स्यात् ।
ननु वस्तुवलाद् इति विकल्पमोहो महाम्भोधिर् इव दुष्पारः
१०
प्रसज्येत । "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोक
-
संवृतिसत्यं च परमार्थतः" इत्य् एतस्यापि विभागस्यविकल्प
-
मात्रत्वात् तात्त्विकत्वानुपपत्तेः । वीतसकलविकल्पा धीःस्वलक्ष
-
णमात्रविषया तात्त्विकीत्य् अपि न संभाव्यं तस्याश्चतुर्विधाया
इन्द्रियमानसस्वसंवेदनयोगिप्रत्यक्षलक्षणायाःपरमार्थतो व्य
-
१५
वस्थापयितुम् अशक्तेः । "प्रत्यक्षं कल्पनापोढम् अभ्रान्त"म् इति
प्रत्यक्षसामान्यलक्षणस्य प्रत्यक्षविशेषलक्षणस्य चविकल्प
-
मात्रत्वाद् अवास्तवत्वोपपत्तेः । न चावास्तवं लक्षणंवस्तुभूतं लक्ष्यं
लक्षयितुम् अलम् अतिप्रसंगाद् इति किं केन लक्ष्येत ।
अत्रापरे प्राहुः — न वहिः स्वलक्षणालंबनकल्पनाविकला
२०
काचिद् बुद्धिर् अस्ति सर्वस्या बुद्धेर् आलंबने भ्रान्तत्वात्स्वप्नबु
-
द्धिवत् स्वांशमात्ररूपपर्यवसितत्वाद् विज्ञानमात्रस्यैवतस्य प्रसिद्धे
-
र् इति । सो ऽप्य् एवं प्रष्टः स्पष्टम् आचष्टां — विज्ञानमात्रस्यसिद्धिः
४५
ससाधना निःसाधना वा ? ससाधना चेत्साध्यसाधनबुद्धिः
सिद्धा । सा चानर्थिकाऽर्थवती वा स्यात् ? प्रथमपक्षेद्वितीय
-
पक्षे च दूषणान्य् अभिदधते सूरयः —
अनर्थिका साधनसाध्यधीश् चे
-
०५
द् विज्ञानमात्रस्य न हेतुसिद्धिः ।
अथार्थवत्त्वं व्यभिचारदोषो
न योगिगम्यं परवादिसिद्धम् ॥
१८
॥
टीका —
विज्ञानमात्रं हि तत्त्वं परवादिनो ऽनुमानाद् एव
प्रत्याययेयुः स्वसंवेदनप्रत्यक्षेण तेषां प्रत्याययितुमशक्तेः ।
१०
तच् चानुमानं — यत्प्रतिभासते तद्विज्ञानमात्रम् एव यथाविज्ञानस्वरूपं
प्रतिभासते च नीलसुखादिकम् इति । न चाविज्ञानंप्रतिभासते
जडस्य प्रतिभासायोगाद् इति पक्षे बाधकप्रमाणमनुमानसमर्थन
म् असमर्थितस्यासाधनत्वाद् इति । तत्रेदम् अनुमानं साधनंविज्ञानमात्रं
साध्यम् इति साध्यसाधनधीर् यद्य् अनर्थिका तदाविज्ञानमात्रस्य तत्त्व
-
१५
स्य यो हेतुः साधनं तस्य सिद्धिर् न स्यात्स्वप्नोपालंभसाधनवत् ।
अथार्थवत्त्वम् एव तस्याः साध्यसाधनबुद्धेस् तदाऽनयैवव्यभिचारः
प्रकृतहेतोः सर्वं ज्ञानं निरालंबनं ज्ञानत्वादित्य् एतत्परं प्रति वक्तुं
युक्तं न स्यात् स च महान् दोषः परिहर्तुम् अशक्यत्वात् । यथै
-
व हीदम् अनुमानज्ञानं स्वसाध्येनावलंबनेन सालंबनंतथा
२०
विवादाध्यासितम् अपि ज्ञानं सालंबनं किं न भवेद् इति
संशयकरत्वात् । यदापि विज्ञानमात्रं सर्वस्य वस्तुनःप्रतिभा
-
४६
समानत्वेन हेतुना साध्यते, तदापीदम् अनुमानंवचनात्मकं
परार्थप्रतिभासमानम् अपि न विज्ञानमात्रं ततो ऽन्यत्वादिति व्यभि
-
चारदोषः प्रकृतहेतोः स्याद् एव । साध्येविज्ञानमात्रात्मकत्वे
साधनस्य साध्यतमत्वानुषंगात् तत एव समाध्यवस्थायांप्रतिभा
-
०५
समानं संवेदनाद्वैतं तत्त्वम् अस्तु स्वरूपस्य स्वतोगतेरिति च न
सुभाषितं तस्य परवादिनाम् असिद्धत्वात् ।
न हि योगिनो गम्यं परवादिनां सिद्धं नामेति स्वगृह
-
मान्यम् एतत् । किं चेदं संवेदनाद्वैतं नानासंवेदनवत् नस्वस्य
सिद्धं न च परस्मै प्रतिपाद्यम् इति निवेदयन्ति ।
१०
तत्त्वं विशुद्धं सकलैर् विकल्पै
-
र् विश्वाभिलापास्पदताम् अतीतम् ।
न स्वस्य वेद्यं न च तन् निगद्यं
सुषुप्त्यवस्थं भवदुक्तिबाह्यम् ॥
१९
॥
टीका —
कार्यकारणग्राह्यग्राहकवास्यवासकसाध्यसाधनवा
-
१५
ध्यबाधकवाच्यवाचकभावादिविकल्पैः सकलैर् विशुद्धंशून्यं तद्वि
-
ज्ञानाद्वैतं तत्त्वं न स्वस्य वेद्यं । संहृतसकलविकल्पावस्थायाम् अपि
योगिनो ग्राह्यग्राहकाकारविकल्पात्मनः संवेदनस्यप्रतिभासनात्
नापि तं निगदितुं शक्यं । विश्वाभिलापास्पदताम् अतीतत्वाद्विश्वे
च ते ऽभिलापाश् च विश्वाभिलापा विश्वाभिलापा जातिगुणद्रव्य
-
२०
क्रियायदृच्छा शब्दास् तेषाम् आस्पदम् आश्रयो विश्वाभिलाषास्पदंतस्य
भावो विश्वाभिलापास्पदता ताम् अतीतं तत्त्वं कथम् इवनिगद्यं परस्मै
४७
स्यात् । नहि जात्यादिशब्दैस् तन् निगद्यतेजातिद्रव्यगुणक्रियादि
-
कल्पनाभिर् अपि शून्यत्वात् नापि यदृच्छाशद्बेन तत्र तस्यसंकेत
-
यितुम् अशक्तेः संकेतहेतुविकल्पेनाऽपि शून्यत्वाद् इति सुषुप्तौ
याऽवस्था संवेदनस्य सा स्यात् तत्त्वस्य । ततःसुषुप्त्यवस्थम् एतत्
०५
सर्वथा विकल्पाभिलापशून्यत्वाभ्युपगमाद् भवदुक्तिवाह्यंभवतो
वीरस्योक्तिः स्याद्वादस् ततो वाह्यं सर्वथैकान्ततत्त्वम् इत्युच्यते ।
विज्ञानार्थपर्यायादेशाद् धि विज्ञानार्थतत्त्वंसकलविकल्पाभिला
-
पविकलम् ऋजुसूत्रनयावलंबिभिर् अभिन्यतेव्यवहारनयाश्रयिभिर् वि
-
कल्पाभिलापास्पदम् इति स्याद्वादाश्रयणे तत्त्वं नभवदुक्ति
-
१०
तो वाह्यं स्याद् इत्य् अर्थाद् नम्यते ।
पुनर् अपि परमतम् अनूद्य दूषयितुम् आहुर् आचार्याः —
मूकात्मसंवेद्यवद् आत्मवेद्यं,
तन्म्लिष्टभाषाप्रतिम् अप्रलापम् ।
अनंगसंज्ञं तदवेद्यम् अन्यैः
१५
स्यात्, त्वद्द्विषां वाच्यम् अवाच्यतत्त्वम् ॥
२०
॥
टीका —
यथा मूकस्यात्मसंवेद्यं स्वसंवेदनंतथात्मसंवेद्यमेव
संविदद्वैतं न चात्मसंवेद्यम् इति शब्देनाऽपि तत्त्वमभिलप्यते
तत् कुतो यतो म्लिष्टा अस्पष्टा भाषा मूकभाषेव तत्प्रतिमः
प्रलापो निरर्थको यस्मिंस् तन्म्लिष्टभाषाप्रतिम् अप्रलापं नपुनर् अ
-
२०
भिलाप्यं ततस् तदवेद्यम् एवान्यैः प्रतिपाद्यैर् इति मन्यंते, केचित् ।
यथा चाभिलापास् तदवेद्यम् अन्यैस् तथांगसंज्ञयाऽपिसूचीहस्तलक्ष
-
४८
णयाऽनवेद्यम् अनंगसंज्ञत्वात् । यद् धिसर्वथाऽनभिलाप्यं तत्रांग
-
संज्ञासंकेतो ऽपि न प्रवर्त्तते । न चासंकेतितांगसंज्ञाक्वचिद् वित्ति
-
निमित्तं शब्दवद् इति च ये प्रतिपद्यं ते तेषां त्वद्द्विषांसंविदद्वै
-
तवादिनाम् अवाच्यम् एव तत्त्वं वाच्यं स्यात्, नैव स्याद् इति काक्वा
०५
व्याख्यातव्यम् तेषां मौनम् एव शरणं स्याद् इति यावत् ।
तद् एवं सौगतमतम् उपहासास्पदम् एवेतिनिवेदयंति —
अशासदञ्जांसि वचांसि शास्ता,
शिष्याश् च शिष्टा वचनैर्न ते तैः ।
अहो इदं दुर्गतमं तमो ऽन्यत्
१०
त्वया विना श्रायसमार्य किं तत् ॥
२१
॥
टीका —
शास्ता
सुगत
एवाशासदनवद्यानि वचांसियथा
-
र्थदर्शनादिगुणयुक्तत्वान् न च तैर् वचनैः शिष्यास् तेप्रतिपादिता
इतीदम् अहो दुर्गतमं साश्चर्यमन्यतमः स्यात्कृच्छ्रतमेनाधिगम्य
-
त्वात् । तत्त्वानुशासनं हि सति शास्तरि गुणवति प्रतिपाद्ये
-
१५
भ्यस् तत्त्वप्रतिपत्तियोगेभ्यः सत्यैर् एव वचनैःप्रसिद्धं । तत्र सु
-
गते शास्तरि प्रसिद्धेपि सौगतानां तद्वचनेषु च सत्येषुसंभवत्सु
शिष्याः सन्तो ऽपि प्रणिहितमनसो न शिष्टा इति कथम् अमोहः
प्रतिपद्येतेति प्रेक्षावताम् उपहासास्पदम् इदं दर्शनमाभासते ।
स्यान् मतं
— संवृत्याशास्तृशिष्यशासनतदुपायवचनसद्भा
-
२०
वान् नोपहासास्पदम् एतत्परमार्थतः संविदद्वैतस्यनिःश्रेयसलक्षण
-
स्य प्रसिद्धेर् इति, तद् अप्य् असत् । त्वयास्याद्वादन्यायनायकेन
४९
विना भगवन् ! आर्य ! वीरभट्टारक ! मे नैवश्रायसं किंचित्
संभवति यतः प्रमाणेन परीक्ष्यमाणाम् इति प्रत्येयं ।
तद्विसंविदद्वैतरूपं निर्वाणं प्रत्यक्षबुद्धिबोध्यंलिंगगम्यं
वा, परार्थानुमानवचनप्रतिपाद्यं वा स्याद् गत्यंतराभावान्न च
०५
तत्र प्रत्यक्षादिप्रमाणं संभवतीति प्रतिपत्त्यभावम् एवसाधय
-
न्त्य् आचार्याः —
प्रत्यक्षबुद्धिः क्रमते न यत्र
तल्लिंगगम्यं न तदर्थलिंगम् ।
वाचो न वा तद्विषयेण योगः
१०
का तद्गतिः कष्टम् अशृण्वतां ते ॥
२२
॥
टीका —
यत्र संविदद्वैते तत्त्वे प्रत्यक्षबुद्धिर् नक्रमते न प्रवर्त्तते
कस्यचित् तथा निश्चयानुत्पत्तेस् तल्लिंगगम्यं स्यात्स्वर्गप्रापणशक्त्या
-
दिवत् । न च तत्रार्थरूपं लिंगं संभवतितत्स्वभावलिंगस्य तद्वत्
प्रत्यक्षबुद्ध्यतिक्रान्तात्वाल् लिंगान्तरगम्यत्वेऽनवस्थानुषंगात्तत्कार्य
-
१५
लिंगस्य वा संभवात् संभवे वा द्वैतप्रसंगात् । न चवाचः परा
-
र्थानुमानरूपायास् तद्विषयेण संविदद्वैतरूपेण योगःपरंपरयाऽपि
संबंधायोगात्, ततः का तस्य तत्त्वस्य गतिर् न काचित् । प्रत्यक्षा
लैंगिकी शाब्दी वा प्रतिपत्तिर् अस्तीति कष्टं दर्शनं ते तवशासन
-
म् अशृण्वतां ताथागतानाम् इति ग्राह्यं । संवृत्यातत्प्रतिपत्तिर् न कष्टम् इति
२०
अन्यमानान् प्रत्याहुः —
५०
रागाद्यविद्यानलदीपनं च
विमोक्षविद्यामृतशासनं च ।
न भिद्यते संवृतिवादिवाक्यं
भवत्प्रतीपं परमार्थशून्यम् ॥
२३
॥
०५
टीका —
यथैव हि रागाद्यविद्यानलस्य दीपनं च वाक्यं
"अग्निष्टोमेन यजेत स्वर्गकामः" इत्य् आदिकं संवृतिवादिनां
सौगतानां परमार्थशून्यं तथा विमोक्षविद्यामृतस्यशासनम् अपि
वाक्यं "सम्यग्ज्ञानवैतृष्णाभावनातो निःश्रेयसम्" इत्याद्यपि,
ततो न भिद्यते परमार्थशून्यत्वाविशेषात् । परमार्थशून्यत्वं तु
१०
तद्वाक्यस्य भवत्प्रतीपत्वात्सर्वथैकान्तविषयतयैवोपगतत्वात् ।
भवतो हि वीरस्यानेकान्तशासनस्य न किंचिद् वाक्यं सर्वथा
परमार्थशून्यं रागाद्यं विद्यानलदीपनस्यापि वाक्यस्यबंध
-
कारणलक्षणेन परमार्थेनाशून्यत्वात्, विमोक्षविद्यामृत
-
शासनस्येव वाक्यस्य मोक्षकारणरूपेण परमार्थेनेति
१५
तात्पर्यार्थः ।
ननु च संवृतिवादिनो ऽपि श्रुतमयी चिन्तामयी च भावना
प्रकर्षपर्यन्तं प्राप्ता योगिनः प्रत्यक्षसंविदद्वयंप्रसूते, गुरुणोपदि
-
ष्टायाः कस्याश्चिद् अविद्यायाः प्रकृष्टविद्याप्रसूत्यै स्वयंशील्य
-
मानायाः संभवाविरोधाद् इति च प्रतिपद्यमानान् प्रतिप्राहुः —
२०
विद्याप्रसूत्यै किल शील्यमाना,
५१
भवत्य् अविद्या गुरुणोपदिष्टा ।
अहो त्वदीयोक्त्यनभिज्ञमोहो,
यज्जन्मने यत् तदजन्मने तत् ॥
२४
॥
टीका —
सकला ह्यविद्या तावद् अविद्यान्तरप्रसूत्यै प्रसिद्धा
०५
लोके सा गुरुणाप्य् उपदिष्टा भाव्यमाना विद्याप्रसूत्यैभवतीति
वदतः सौगतस्य कथमहो भगवन् ! वीर !त्वदीयोक्त्यन
-
भिज्ञस्य मोहो न भवेत् ! दर्शनमोहोदयापायेविरुद्धाभिनिवे
-
शासंभवात् । यद् धि निमित्तम् अविद्यालक्षणम् अविद्याजन्मनेतद् एव
तस्याः पुनरजन्मने प्रसिद्धं स्याद् इति विरुद्धोऽभिनिवेशः
१०
स्यात् । नहि मदिरापानं मदजन्मने प्रसिद्धं मदाजन्मननि
-
मित्तं भवितुम् अर्हति । ननु च यथा विषभक्षणंविषविकार
-
कारणं प्रसिद्धम् अपि किंचिद् विषविकाराजन्मने दृष्टं तथाकाचि
-
द् अविद्याऽपि भाव्यमाना स्वयम् अविद्याजन्माभावाय भविष्य
-
ति विरोधाभावाद् इति कश्चित्; सो ऽप्य् अपर्यालोचितवचनः ।
१५
अन्यद् धि जंगमविषं भ्रमदाहमूर्च्छादिविकारस्य जन्मनेप्रसिद्धं
तदजन्मने पुनर् अन्यद् एव स्थावरविषंतत्प्रतिपक्षभूतम् इति विषमम् उ
-
दाहरणं । तर्ह्य् अविद्यापि संसारहेतुरनादिवासनासमुद्भूताऽन्यैवा
-
विद्यानुकूला, मोक्षहेतुः, पुनरनाद्यविद्याजन्मनिवृत्तिकरीविद्याऽ
-
नुकूला चान्या तत्प्रतिपक्षभूतत्वाद् इति साम्यमुदाहरणस्यास्तु
२०
विशेषाभावाद् इति वचनं न परीक्षाक्षमंअविद्याप्रतिपक्षभूताया
एवाविद्यायाः संभवाभावाद् विद्यात्वानुषंगात् । नन्व् एवंविषप्रतिप
-
५२
क्षभूतस्य विषान्तरस्यापि विषत्वंमाभूत्तस्यामृतत्वानुषंगात् ।
इत्य् एतद् अपि न प्रतिकूलं नः । जंगमविषप्रतिपक्षभूतंहि स्थावर
-
विषमत एव विषममृतम् इति प्रसिद्धं सर्वथा तस्यविषत्वे वि
-
षान्तरप्रतिपक्षत्वविरोधात् । कथंचिद् विषत्वं क्षीरादेरपि न
०५
निवार्यते तदभ्यवहरणानंतरम् अपि कस्यचिन्मरणदर्शनात् ।
काचिद् अविद्या तु विद्यानुकूला यदि कथंचिद् विद्या निगद्येता
-
न्यथानाद्यविद्याप्रतिपक्षत्वायोगात् तदा न किंचिद् अनिष्टंस्याद्वा
-
दिमताश्रयणात् संवृतिवादिमतविरोधात् । स्याद्वादिनां हि के
-
वलज्ञानरूपां परमां विद्यामपेक्ष्य क्षायिकीं क्षायोपशमिकी
१०
मतिज्ञानादिरूपापकृष्टविद्याप्य् अविद्याऽभिप्रेता नानादिमिथ्या
-
ज्ञानदर्शनलक्षणाविद्यापेक्षया तस्यास्तत्प्रतिपक्षभूतत्वाद् विद्या
-
त्वसिद्धेर् इति न सर्वथाऽप्य् अविद्यात्मिकाभावनागुरुणोपदिष्टापि
विद्याप्रसूत्यै व्याघाताद् गुरोर् अपि तदुपदेष्टुरगुरुत्वप्रसंगाद् विद्यो
-
पदेशिन एव गुरुत्वप्रसिद्धेः । ततो ऽनुपायम् एवसंविदद्वैतं त
-
१५
त्त्वं सर्वप्रमाणगोचरातिक्रांतत्वात् पुरुषाद्वैतवद् इतिस्थितम् ।
संप्रत्यवसरप्राप्तम् अभावैकांतवादिमतम् अनूद्यनिराकर्त्तुम् आर
-
भन्ते सूरिवर्याः —
अभावमात्रं परमार्थवृत्तेः
सा संवृतिः सर्वविशेषशून्या ।
२०
तस्या विशेषौ किल बंधमोक्षौ
हेत्वात्मनेति त्वदनाथवाक्यम् ॥
२५
॥
५३
टीका —
न च वहिरन्तश् चनिरन्वयक्षणिकपरमाणुमात्रं
तत्त्वं
सौत्रान्तिक
निराकरणात् । नाप्यन्तःसंवित्परमाणुमात्रं
संविदद्वैतमात्रं वा योगाचारमतनिरसनात् । किं तर्ह्यभाव
-
मात्रं तत्त्वं
माध्यमिक
मतम् एव परमार्थवृत्तेरभ्युपगम्यते । सा तु
०५
परमार्थवृत्तिः संवृतिः न पुनः शून्यसंवित्तिस् तात्त्विकीयतः
शून्यसंविदो विप्रतिषेधः स्यात् । तथाहि — सापरमार्थवृत्तिः
संवृतिः सर्वविशेषशून्यत्वात् सर्वेषां विशेषाणांपदार्थसद्भाव
-
वादिभिर् अभ्युपगम्यमानानां तदभ्युपगमेनैवबाध्यमानानां व्य
-
वस्थानासंभवाद् अविद्याया एव प्रसिद्धेः, बंधमोक्षाव् अपितस्या एव
१०
संवृतेर् अविद्यात्मिकायाः सकलतात्त्विकविशेषशून्याया अपि वि
-
शेषौ सांवृतौ सांवृतेनैवहेतुस्वभावेनात्मात्मीयाभिनिवेशेन नैरा
-
त्म्यभावनाभ्यासेन च विधीयमानौ न विरुद्धौ किलेति
शून्यवादिमतसूचनं, तद् एतद् त्वदनाथानां सर्वथाशून्यवादिनां
वाक्यं, न पुनस् त्वं भगवान् वीरो नाथो येषामनेकान्तवादि
-
१५
नां तेषाम् एतद् वाक्यं तैः स्वरूपादिचतुष्टयेन सतामेवाकल्पिता
-
त्मकानां पररूपादिचतुष्टयेनार्थानां शून्यत्ववचनात् । तदभाव
-
मात्रस्यापि स्वरूपेणासत्त्वे पारमार्थिकत्वविरोधात् । संवि
-
न्मात्रस्य शून्यस्य स्वरूपेण सत्त्वे पररूपेणग्राह्यग्राहकभावा
-
दिना चासत्त्वे सदसदात्मकस्य कथंचिच् छून्यस्य सिद्धेःस्या
-
२०
द्वादिवाक्यस्यैव व्यवस्थानात् ततस् त्वदनाथवाक्यमव्यवस्थि
-
तम् एव मृषेत्य् अर्थः ।
यथा न शून्यवादिनां शून्यं तत्त्वम् अनुपपन्नंतथाऽनेकान्त
-
५४
वादिनस् त्वत्तः परेषाम् अपि शून्यम् अनुपपन्नम् अपिसंप्राप्तम् इति प्रति
पादयन्ति श्रीसूरयः —
व्यतीतसामान्यविशेषभावा
-
द् विश्वाभिलापार्थविकल्पशून्यम् ।
०५
खपुष्पवत्स्याद् असद् एव तत्त्वं
प्रबुद्धतत्त्वाद्भवतः परेषाम् ॥
२६
॥
टीका —
ये तावद् व्यतीतसामान्यभावात् सर्वतो व्यावृ
-
त्तानर्थानाचक्षते भेदवादिनः
सौगताः
प्रबुद्धतत्त्वाद् भवतो वीरा
-
त् परे तेषां सामान्यापह्नवे विशेषाणाम् अभावः प्रसज्येततेषां सामा
-
१०
न्यनांतरीयकत्वात् तदभावे तद्भावायोगात् सर्वथानिरुपाख्य
-
म् एवायातं । येऽपि च सामान्यमेव प्रधानमेकं प्रवदंतिमहदहंका
-
रादिविशेषाणां तद्व्यतिरेकेणासत्त्वात् तेषाम् अपि भवतःपरेषां
सकलविशेषाभावे सामान्यस्याऽपि तदविनाभाविनो ऽसत्त्वप्र
-
संगात् व्यक्ताव्यक्तात्मनश् च भोग्यस्याभावे भोक्त्तुर् अप्यात्मनो ऽसं
-
१५
भव इति सर्वशून्यत्वम् अनिच्छतो ऽपि सिध्येत् । व्यक्ताव्यक्तयोः
कथंचिद्भेदप्रतिज्ञाने तु स्याद्वादन्यायानुसरणान् नत्वदनाथवा
-
क्यं स्यात् तथा परस्परनिरपेक्षसामान्यविशेषभाववादिनो
यौगाः कथंचित्सामान्यविशेषभावानभ्युपगमात् व्यतीतसा
-
मान्यविशेषभावाः प्रसिद्धा एव भवतः परे तेषाम् अपिखपुष्प
-
२०
वद् असद् एव तत्त्वम् आयातं विश्वाभिलापार्थविकल्पशून्यत्वात्व्य
-
तीतसामान्यभाववादिवत् व्यतीतविशेषभाववादिवच् च । सर्वथा
५५
शून्यवादिवद् वेति वाक्यभेदेन व्याख्यातव्यं । परंहि सामान्यं
सत्त्वं द्रव्यगुणकर्मभ्यो भिन्नम् अभिदधतां द्रव्यादीनामसत्त्वं
स्यात् सत्त्वाद् भिन्नत्वात् प्रागभावादिवत् । ननु द्रव्यादीनामप्रति
-
पत्तौ हेतोर् आश्रयासिद्धिः प्रतिपत्तौधर्मिग्राहकप्रमाणबाधितः
०५
पक्षः कालात्ययापदिष्टश् च हेतुर् इति चेत्, न द्रव्यादीनां
धर्मिणां कथंचित्सत्त्वाद् अभिन्नानां प्रत्यक्षादिप्रमाणतःसिद्धेस् त
-
द्भेदैकांतसाधनायैव प्रयुक्तस्य हेतोःकालात्ययापदिष्टत्वसिद्धेः ।
ननु च सत्त्वाद् भिन्नत्वाद् इत्य् एतस्य हेतोर् अप्रतिपत्तौस्याद् असिद्धत्वं
प्रतिपत्तौ तु धर्मिग्राहकप्रमाणबाधितः पक्षो हेतुश् चकालात्ययो
-
१०
दितः स्याद् द्रव्यादीनां सत्त्वाद् अभेदग्रहणस्यद्रव्याद्यस्तित्वप्रति
-
पत्तिनान्तरीयकत्वात् तदसत्त्वे तदभेदप्रतिपत्तेर् अयोगादिति च न
समीचीनं वचनं प्रसंगसाधनप्रयोगात् इति चेत् न सत्त्वाद्भिन्नत्वं
हि प्रागभावादिषु परैः स्वयमसत्त्वेन व्याप्तं प्रतिपन्नंद्रव्यादिषु
प्रतिपद्यमानम् असत्त्वं साधयतीति साध्यसाधनयोर्व्याप्यव्यापक
-
१५
भावनिश्चये सति व्याप्याभ्युपगमस्यव्यापकाभ्युपगमनान्तरी
-
यकस्य प्रदर्शनं प्रसंगसाधनम् अनुमन्यताम् । ननु चकिं सत्त्वा
-
समवायो ऽसत्त्वं साध्यते किं वा नास्तित्वम् इतिपक्षद्वितयं । न
तावद् उत्तरः पक्षः श्रेयान् नास्तित्वेन सत्त्वाद्भिन्नत्वस्याव्याप्तत्वात् ।
प्रागभावादीनां सत्त्वाद् भिन्नत्वे ऽपि सद्भावादन्यथोदाहरण
-
२०
त्वविरोधात् । प्रथमपक्षे तु प्रमाणबाधःसत्त्वसमावायस्य
द्रव्यादिषु प्रमाणतः प्रतीतेः सत्त्वासमवायस्य तयाबाध्यमा
-
नत्वं । तथा हि — द्रव्यादीनि सत्तासमवायभांजिसत्प्रत्यय
-
५६
विषयत्वात्, यत् तु न सत्तासमवायभाक्तन् नसत्प्रत्ययविषयो
यथा प्रागभावाद्यसत्तत्त्वं । सत्प्रत्ययविषयाश् चद्रव्यादीनि
तस्मात् सत्तासमवायंभांजीति द्रव्यादिषु सत्त्वस्यसमवायप्रतीतिः
सत्त्वासमवायस्य बाधिकास्ति ततो न द्रव्यादीनाम् असत्त्वं
०५
सत्त्वासमवायलक्षणं साधयितुं शक्यंनास्तित्वलक्षणासत्त्ववद् इ
-
ति केचित् । ते ऽपि न परीक्षकाः । सत्प्रत्ययविषयत्वस्यहेतोः
परेषां सामान्यादिभिर् व्यभिचारात् तेषुसत्त्वसमवायासंभवे ऽपि
भावात् । यदि पुनर्मुख्यसत्प्रत्ययविषयत्वस्य हेतुत्वान्नोपच
-
रितसत्प्रत्ययविषयत्वेन व्यभिचारोद्भावनं युक्तमतिप्रसंगाद् इति
१०
निगद्यते तदा सामान्यादिषु कुतः सत्प्रत्ययविषयत्वमुपचरि
-
तम् इति वक्तव्यं । स्वरूपसत्त्वनिमित्तत्त्वाद् इति केचित् । व्याह
-
तम् एतत् । स्वरूपसत्त्वनिमित्तं चोपचरितं चेति को ह्य् अबा
-
लिशः स्वरूपसत्त्वनिमित्तं सत्प्रत्ययविषयत्वम् उपचरितमर्थान्तर
-
भूतसत्तासंबंधत्वान् मुख्यम् इति ब्रूयाद् अन्यत्रजडात्मनः, यष्टि
-
१५
स्वरूपनिमित्तं हि यष्टौ यष्टिप्रत्ययविषयत्वं मुख्यंलोके
प्रसिद्धं, यष्टिसंबंधा
१
त् तु पुरुषे गौणम् इतिमुख्योपचरितव्यवस्था
-
तिक्रमाद् अनादेयवचनताऽस्य स्यात् । स्याद् आकूतं ते सत्तास
-
मवायनिमित्तं सत्प्रत्ययविषयत्वं द्रव्यादिषु मुख्यंतद्विशेषणस
-
त्त्वग्रहणपूर्वकत्वाद् विशेषणप्रत्ययनिमित्तस्यविशेषप्रत्ययस्य मु
-
२०
ख्यत्वसिद्धेःयष्टित्वविशेषणग्रहणनिमित्तकविशेष्ययष्टिप्रत्य
-
यवत् सत्त्वविशेषणग्रहणम् अंतरेण सामान्यादिषुसत्प्रत्यय
-
१. ऽयष्टिसंबंधवत्सु पुरुषेषुऽ इति पुस्तकांतरे ।
५७
स्योपचरितत्वसिद्धेः पुरुषे यष्टित्वग्रहणमन्तरेण यष्टिप्रत्ययव
-
द् इति । तद् अप्य् असम्यक् । तत एव व्यभिचारसिद्धेःसत्प्रत्य
-
पविषयत्वस्य सत्त्वसमवायासंभवे ऽपि भावात् । ततोद्रव्यादीनां
सत्तातो ऽत्यंतभेदोपगमे सत्वासमवायलक्षणम् असत्त्वंसिद्धम् एव ।
०५
तथा पृथिव्यादीनाम् अद्रव्यत्वं द्रव्यात्वाद् भिन्नत्वाद्रूपादिवत्, रूपा
-
दीनां चागुणत्वं गुणत्वाद् अन्यत्वाद् उत्क्षेपणादिवत्, उत्क्षेपणा
-
दीनाम् अकर्मकत्वं कर्मत्वाद् अर्थान्तरत्वाद् धरादिवद् इतिव्यतीतसा
-
मान्यत्वं द्रव्यगुणकर्मणाम् असत्त्वं साधयतिव्यतीतविशेषत्ववत् ।
तत् सूक्तं सूरिभिः सदसत्तत्त्वं यौगानाम् असद् एवव्यतीतसामान्य
-
१०
विशेषभावात् खपुष्पवद् इति सामान्यविशेषसमवायानां हिस्व
-
यम् असामान्यविशेषत्वाभ्युपगमात् प्रागभावादिवन् नासिद्धंव्यती
-
तसामान्यविशेषत्ववत्त्वं साधनं । नाऽपिद्रव्यगुणकर्मणां सामा
-
न्याद्यभावे प्रसिद्धे तेषांव्यतीतसामान्यविशेषत्वस्याप्रिसिद्धि
-
र् अथवा द्रव्यादीनां नास्तित्वम् एव साध्यं खपुष्पवद् इतिदृष्टांत
-
१५
सामर्थ्यात्, ततो विश्वाभिलापार्थविकल्पशून्यं तत्त्वमायातं ।
अभिलापः पदं तस्यार्थः, अभिलापार्थः पदार्थ इतियावत्,
तस्य विकल्पा भेदाः षट्द्रव्यादयोर् वैशेषिकाणां, प्रमाणादयः
षोडश नैयायिकानां, विश्वे च ते ऽभिलापार्थविकल्पाश् चेति
स्वपदार्थवृत्तिस् तैः शून्यं तत्त्वं स्यात् खपुष्पवद् असदेव प्रबुद्धत
-
२०
त्वाद् भवतः परेषाम् इति वचनाद् भवतोवीरस्यानेकांततत्त्ववादिनो
नासत्तत्त्वं स्याद् इति प्रतीयते । कथंचित्सामान्यविशेषभावस्य
द्रव्यादिषु प्रतीयमानत्वात् प्रमाणादिषु बाधकाभावात् द्रव्या
-
५८
त् कथंचिद् अभेदो गुणकर्मणोर् अशक्यविवेचनत्वात्सिद्धस् तथा सा
-
मान्यविशेषसमवायानां प्रागभावादीनां च विशेषाभावात्तद्व
-
त्प्रमाणप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादज
-
ल्पवितंडाहेत्वाभासछलजातिनिग्रहस्थानानां चद्रव्यपर्याय
-
०५
विशेषाणां द्रव्यात् कथंचिद् भेदस्य संप्रत्ययान् नासत्त्वंपर्यायान्त
-
रवत् । न हि यत एव ऽपर्याया द्रव्यस्यऽ इति नियमोव्यवति
-
ष्ठते विपर्ययानध्यवसाययोर् अपिप्रमाणादिषोडशपदार्थेभ्यो
-
ऽर्थान्तरभूतयोः प्रतीतेः । पदार्थसंख्यानियमानभ्युपगमे वाने
-
कान्तवादानतिक्रम एव सिद्धः । यथा च भवतः परेषांवैशे
-
१०
षिकनैयायिकानां सकलपदार्थभेदशून्यं तत्त्वम् असद् एवस्यात् ख
-
पुष्पवत् तथा सांख्यादीनाम् अपिव्यतीतसामान्यविशेषत्वाविशेष
-
त्वात् । ततः सर्वेषाम् अपि सर्वेथैकांतवादिनाम् असद् एवतत्त्वम् इति
संक्षेपतः प्रतिपत्तव्यम् ।
सांप्रतं परमतम् आशंक्य पुनर् अपि निराकर्त्तुमारभते —
१५
अतत्स्वभावे ऽप्य् अनयोर् उपायाद्
गतिर् भवेत् तौ वचनीयगम्यौ ।
सम्बन्धिनौ चेन् न विरोधि दृष्टं
वाच्यं यथार्थं न च दूषणं तत् ॥
२७
॥
टीका —
तदभावमात्रं स्वभावो ऽस्येति तत्स्वभावंशून्यस्वभाव
२०
तत्त्वं न तत्स्वभावम् अतत्स्वभावं अशून्यस्वभावंसत्स्वभावम् इत्य् अर्थः ।
तस्मिन्न् अतत्स्वभावे ऽपि तत्त्वे ऽभ्युपगभ्यमाने ऽनयोर्बंन्धमोक्षयो
-
५९
र् उपायात् कारकरूपाद् गतिः प्रतिपत्तिः स्यान् नान्यथाज्ञायक
-
रूपाच् चोपायाद् गतिः प्रतिपत्तिः स्यान् नान्यथेति निश्चेतव्यं ।
स च प्रतिपत्त्युपायः परार्थस् तावद् वचनं स्वार्थश् चप्रत्यक्षमनुमानं
वा, तत्र यदा वचनं बंधमोक्षयोर् गतेर् उपायास् तदावचनीयौ तौ
०५
यदा पुनर् अनुमानम् उपायस् तदा गम्यौ ताव् अनुमेयौ, यदा तुप्रत्य
-
क्षम् उपायस् तदा प्रत्यक्षेण गम्यौ परिच्छेद्यौ तौसंबंधिनौ पर
-
स्पराविनाभूतौ बंधेन विना मोक्षस्यानुपपत्तेर्बंन्धपूर्वकत्वान् मो
-
क्षस्य, मोक्षेण च विना न बंधः संभवति प्रागबद्धस्यपश्चाद् व
-
न्धोपपत्तेर् अन्यथा शाश्वतिकबंधप्रसक्तेः । अनादिबंधसंताना
-
१०
पेक्षया बन्धपूर्वकत्वे ऽपि बंधस्य बंधविशेषापेक्षयातस्याबंधपू
-
र्वकत्वसिद्धेः प्रागबद्धस्यैव देशतो मोक्षरूपत्वान्मोक्षविनाभावी
वंध इत्य् अविनाभाविबंधेन संबंधिनौ तौ बंधमौक्षोचेद् इति पर
-
मतस्य सूचकशब्दस् तन् नेत्य् अनेन प्रतिषिध्यते नैवंसत्स्वभावं
तत्त्वं दृष्टं सर्वथा क्षणिकम् अक्षणिकं वा विरोधित्वात्तद्विरोधि दृष्टं
१५
प्रत्यक्षतो वहिर् अंतश् च नित्यानित्यात्मनो जात्यंतरस्यंसर्वथा क्ष
-
णिकाक्षणिकैकांतविरोधिनो निर्वाधं विनिश्चयात्, सम्यगनु
-
मानतो ऽपि तस्यैवानुमेयत्वात् । सर्वम् अनेकांतात्मकं वस्तुवस्तुत्वा
-
न्यथाऽनुपपत्तेर् इति स्वभावविरुद्धोपलंभःपरमततत्त्वं विरुणद्धि ।
नास्ति परमते सत्तत्त्वं सर्वथा क्षणिकम् अक्षणिकं वाततो जा
-
२०
त्यंतरस्यानेकांतस्य दर्शनाद् इति स्वभावानुपलंभो वातद्विप्र
-
तिषेध इति नास्ति सर्वथैकांतात्मकं सत्तत्त्वंप्रत्यक्षाद्यनुपल
-
ब्धेर् इति माभूत्स्वयं प्रत्यक्षादिप्रमाणतः सतत्त्वस्यदर्शनं । पर
-
६०
पक्षदू
१
षणत्वात् तत्सिद्धिर् एवेति चायुक्तं यस्माद्वाच्यं यथार्थं न च
दूषणं तत् यद् दृ
[? ]
षणं परपक्षे स्वयम् उच्यतेक्षणिकैकांतवादिना
तत्र च यथार्थं वाच्यं तच् च न सम्यग् दूषणं वक्तुंशक्यम् इत्य् अर्थः ।
न नित्यं वस्तु सदनर्थक्रियाकारित्वात्क्रमयौगपद्यरहितत्वात्
०५
खपुष्पवद् इति दूषणस्यायथार्थत्वाद् दूषणाभासत्वसिद्धेःपरप
-
क्षवत् स्वपक्षे ऽपि भावान् न तत्प्रत्यनयोः पक्षयोःक्वचिद्विशेषो ऽ
-
स्ति । ताभ्यां हि सर्वथैकांताभ्याम् अनेकान्तो निवर्त्ततेविरोधा
-
त् तन्निवृत्तौ तु क्रमाक्रमौ निवर्त्तते तयोस् तेनव्याप्तत्वात् । एक
-
स्यानेकदेशकालव्यापिनो देशक्रमकालक्रमदर्शनात् । तथै
-
१०
कस्यानेकशक्त्यात्मकस्य नानाकार्यकरणे यौगपद्यसिद्धेः ।
क्रमाक्रमयोश् च निवृत्तौ ततो ऽर्थक्रियाया निवृत्तिस् तस्यास्ताभ्यां
व्याप्तत्वात् क्रमक्रमाभ्यां विना क्वचिद् अर्थक्रियानुपलब्धेस्त
-
न्निवृत्तौ च वस्तुतत्त्वं न व्यवतिष्ठते तस्यार्थक्रिययाव्याप्त
-
त्वात् । न च स्वपक्षं परपक्षवत् निराकुर्वद्दूषणंयथार्थं भवि
-
१५
तुम् अर्हति न सर्वथाऽप्य् असत्तत्त्वं तत एव नोभयमनुभयं चार्थक्रि
-
याविरोधात् ।
किं तर्हि सकलम् अवाच्यम् एवेत्य् एकान्तवादे ऽपि दूषणम् आ
-
वेदयन्ति ।
उपेयतत्त्वानभिलाप्यताव
-
२०
द् उपायतत्त्वानभिलाप्यता स्यात् ।
१ प्रमाणत्वात् इति पाठान्तरं ।
६१
अशेषतत्त्वानभिलाप्यतायां
द्विषां भवद्युक्त्यभिलाप्यतायाः ॥
२८
॥
टीका —
भवतो वीरस्य युक्तिर् न्यायः स्याद्वादनीतिस् तस्या
अभिलाप्यता कथंचित् सद् एवाशेषं तत्त्वंस्वरूपादिचतुष्टयात् कथं
-
०५
चिदसद् एव विपर्यासाद् इत्यादिवचनविषयता तस्या द्विषां श
-
त्रूणाम् अशेषस्यापि तत्त्वस्यानभिलाप्यतायाम् अभिप्रेतायां किं
स्याद् उपायतत्त्वस्यानभिलाप्यता स्याद् उपेयतत्त्वस्येवाविशेषात् ।
ततश् च यथोपेयं तत्त्वं निःश्रेयसं सर्वथाभिलापितुमशक्यं तथो
-
पायतत्त्वम् अपि, तत्प्राप्तेः कारकं ज्ञायकं चेतिसर्वथाऽप्य् अनभिला
-
१०
प्यं तत्त्वम् इत्य् अपि नाभिलपितुं शक्येत प्रतिज्ञातविरोधादित्य् अ
-
भिप्रायम् आविःकुर्वन्ति स्वामिनः —
अवाच्यम् इत्य् अत्र च वाच्यभावा
-
द् अवाच्यम् एवेत्य् अयथाप्रतिज्ञम् ।
स्वरूपतश् चेत् पररूपवाचि
१५
स्वरूपवाचीति वचो विरुद्धम् ॥
२९
॥
टीका —
सर्वथाऽप्य् अशेषं तत्त्वम् अवाच्यं स्यात् स्वरूपतो वा
पररूपतो वा गत्यंतराभावात् । प्रथमपक्षे तावद् अवाच्यमयथा
-
प्रतिज्ञं प्रसज्येत इति क्रियाध्याहारः । कुत एतत् अवाच्य
-
म् इत्य् अत्र वाच्यभावाद् अवाच्यम् इत्य् अस्यैव वाच्यत्वाद् इत्यर्थः । सप्त
-
२०
भ्याः षष्ठ्यर्थत्वाच् च शब्दस्यैव शब्दार्थत्वात् । स्वरूपेणावाच्य
-
६२
म् इति द्वितीयपक्षे स्वरूपवाचि सर्वं वच इतिविरुद्धवचनम् आ
-
सज्येत । पररूपेणावाच्यतत्त्वम् इति तृतीयपक्षे ऽपिपररूपवाचि
सर्वं वच इति विरुध्यते । सर्वत्र स्वप्रतिज्ञाव्यतिक्रमादयथा
-
प्रतिज्ञम् इति सम्बन्धनीयम् । तद् एवं न भावमात्रंनाभावमात्रं
०५
नोभयं नावाच्यम् इति चत्वारो मिथ्याप्रवादाः प्रतिषिद्धाः
सामर्थ्यान् न सद् अवाच्यं तत्त्वं नासद् अवाच्यंनोभयावाच्यं नानु
-
भयावाच्यम् इति निवेदितं भवति न्यायस्य समानत्वात् ।
कथञ्चिद्वाच्यत्वप्रतिज्ञायां तत्त्वस्य प्रतिपादकंवचनं
सत्यम् एवानृतम् एव वेत्याद्येकान्तनिरासार्थम् आहुः —
१०
सत्यानृतं वाऽप्य् अनृतानृतं वाऽ
-
प्य् अस्तीह किं वस्त्वतिशायनेन ।
युक्तं प्रतिद्वंद्व्यनुबंधिमिश्रं
न वस्तु तादृक् त्वदृते जिनेदृक् ॥
३०
॥
टीका —
किंचिद्वचन सत्यानृतम् एवाऽस्ति प्रतिद्वन्द्विमिश्रं
१५
सत्येतरज्ञानपूर्वकत्वाच् छाखायां चन्द्रमसं, पश्येति, यथा तत्र
हि चन्द्रमसं पश्येति सत्यं चन्द्रमसो दर्शनात्संवादकप्रादुर्भा
-
वात् । शाखायाम् इति वचनम् अनृतंशाखाप्रत्यासन्नत्व
[? ]
दर्शनस्य
चन्द्रमसि विसंवादकत्त्वात्तन्निबंधनवचनस्यानृतत्वसिद्धेः । सत्यं
च तदनृतं चेति सत्यानृतम् अवतिष्ठते प्रदिद्वन्द्विभ्यांसत्यानृ
-
२०
ताभ्यां वस्त्वंशाभ्यां मिश्रं युतम् इति संबंधनीयं । परवचनम
-
नृतानृतम् एवास्ति तच् चानुबंधिमिश्रं यथा चन्द्रद्वयंगिरौ पश्ये
-
६३
ति । तत्र हि यथा चन्द्रद्वयवचनम् अनृतं तथागिरौ चन्द्रवचनम् अपि
विसंवादिज्ञानपूर्वकत्वात् । एकस्माद् अनृताद् अपरम् अनृतमनुबंधि स
-
मभिघीयते तेनानुबंधिना मिश्रमनुबंधिमिश्रम् इतिप्रत्येयं । प्रति
-
द्वन्द्वि चानुबंधि च प्रतिद्वन्द्व्यनुबंधिनी ताभ्यां मिश्रंसत्यानृतं
०५
चाप्य् अनृतानृतं चेति यथासंख्यम् अभिसंबधाद्वाशब्दस्यैवकारार्थत्वा
-
द् एव व्याख्यातव्यम् । तच् चेदृक् भगवन् । जिन! नाथ!त्वदृते त्वत्तो
विना वस्तुनो ऽतिशायनेनाभिधेयस्यातिशयेन वचनंप्रवर्तमानं
किं युक्तं, नैव युक्तम् इत्य् अर्थात् तवैव युक्तम् एतदितिगम्यते तादृगने
-
कान्तमेकं नावास्तवं भवति त्वदृतेसर्वथैकान्तस्यावस्तुत्व
-
१०
व्यवस्थानात् ।
कथं पुनः किंचिद् अनृतम् अपि सत्यं सत्यम् अप्य् अनृतंकिंचि
-
द् अनृतम् अनृतम् एवेति भेदो ऽनृतस्य स्याद् इत्य् आवेदयन्ति ।
सहक्रमाद् वा विषयाल्पभूरि
भेदे ऽनृतं भेदि न चात्मभेदात् ।
१५
आत्मान्तरं स्याद् भिदुरं समं च
स्याच् चानृतात् मानभिलाप्यता च ॥
३१
॥
टीका —
विषयस्याभिधेयस्याल्पभूरिभेदोल्पानल्पविकल्प
-
स् तस्मिन् सति स्याद् एवानृतं भेदवत् यस्य हिवचनस्याभिधे
-
यम् अल्पम् असत्यं भूरि सत्यं तत्सत्यानृतम् इति, सत्यविशेषणेनानृतं
२०
भेदि प्रतिपाद्यते । यस्य तु वचनस्याभिधेयम् अल्पंसत्यम् अनृतं भूरि
तदनृतानृतम् इति, अन्त
[? ]
विशेषणेनानृतं । नचात्मभेदादनृतं
६४
भेदि भव
[? :इ]
तुम् अर्हति तस्यानृतात्मना सामान्येनभेदाभावात् ।
आत्मान्तरं तु तस्यानृतस्यात्मविशेषलक्षणं स्यात् भिदुरंभे
-
दस्वभावं विशेषणभेदात् स्यात् सममभेदस्वभावंविशेषणभेदा
-
भावात् चशब्दाद् उभयं हेतुद्वयार्पणाक्रमेणेतियथासंभवम् अभि
-
०५
संबध्यते न तु यथासंख्यं छन्दोवशात् तथाभिधानात्सहद्वया
-
र्पणात् । स्याच् चानृतात्मानभिलाप्यता च सहोभाभ्यां धर्मा
-
भ्याम् अभिलपितुम् अशक्यत्त्वाच् चशब्दोऽनभिलाप्यांतराभिलाप्यांतर
-
भंगत्रयसमुच्चयः स्याद् भिदुरं चानभिलाप्यं च स्यात्समं चाऽन
-
भिलाप्यं चेति स्याद् उभयं चाऽनभिलाप्यं चेति सप्तभंगी
१०
प्रत्यया ।
ननु च न वस्तुनो ऽतिशायनं, संभवति, सदेकरूपत्वादि
-
त्य् एके । असदेकान्तात्मकत्वाद् इत्य् अपरे । सत्त्वासत्त्वाद्यशेष
-
धर्मप्रतिषेधाद् इति चेतरे । तन्निराकरणपुरःसरंवस्तुनो ऽनेका
-
तिशयसद्भावम् आवेदयन्ति —
१५
न सच् च नासच् च न दृष्टम् एक
-
म् आत्मान्तरं सर्वनिषेधगम्यम् ।
दृष्टं विमिश्रं तदुपाधिभेदा
-
त् स्वप्ने ऽपि नैतत्त्वदृषेः परेषाम् ॥
३२
॥
टीका —
न तावत् सत्ताद्वैतं तत्त्वं दष्टम् इतिस्वभावानुपलं
-
२०
भेन सन्मात्रं निराक्रियते । तथा हि — नास्ति सन्मात्रंसकल
-
विशषणरहितं दृश्यस्य सत जातुचिददर्शनात् असन्मात्रवदि
-
६५
त्य् अनेन नासद् एव तत्त्वं दृष्टम् इति व्याख्यातंचशब्दस्य समुच्च
-
यार्थत्वात् । परस्परनिरपेक्षं सत्तत्त्वम् असत्तत्त्वं नदृष्टम् इति घटना
-
त् तेन न परस्परनिरपेक्षं सदसत्तत्त्वं संभवतिसर्वप्रमाणतो
दृष्टत्वात् सन्मात्रतत्त्ववद् असन्मात्रत्त्ववद् वेतिप्रतिपादितं प्रतिप
-
०५
त्तव्यं । तथा न सन्नाप्य् असन्नोभयं नैकं नानेकमित्याद्य
-
शेषधर्मप्रतिषेधगम्यम् आत्मान्तरं परमब्रह्मातत्त्वमित्य् अपि न संभवति ।
कदाचित् तथैवादर्शनाद् इति न दृष्टम् एकम् आत्मान्तरंसर्वनिषेधग
-
म्यम् इति व्याख्यातव्यं । तद् एवं सत्त्वासत्त्वविमिश्रंपरस्परापेक्षं
तत्त्वं दृष्टम् इत्य् अनेन सदसदाद्येकांतव्यवच्छेदेनसदासदाद्य
-
१०
नेकान्तत्वं साध्यते, तदुपाधिभेदात् । उपाधिर् विशेषणांस्व
-
द्रव्यक्षेत्रकालभावाः परद्रवक्षेत्रकालभावाश् चतद्भेदाद् इत्य् अर्थः ।
तेनेदम् उक्तं भवति — स्यात् सद् एव सर्वं तत्त्वंस्वरूपादिचतुष्टयात्,
स्याद् असद् एव सर्वं तत्त्वं पररूपादिचतुष्टयात्, स्यादुभयं स्वपर
-
रूपादिचतुष्टयद्वैतक्रमार्पितात्, स्याद् अवाच्यं, सहार्पिततद्द्वैतात्,
१५
स्यात् सदवाच्यं स्वरूपादिचतुष्टयाद् अशक्तेः, स्यादसदवाच्यं प
-
ररूपादिचतुष्टयाद् अशक्तेः, स्यात् सदसदवाच्यंक्रमार्पितस्वपररू
-
पादिचतुष्टयद्वैतात् सहार्पिततद्द्वैताच् च । इत्येवं तदेव सदसदादि
-
विमिश्रं तत्त्वं दृष्टम् इति वस्तुनो ऽतिशायनेन किंचित्सत्यानृतं
किंचिद् अनृतानृतं वचनं तवैव युक्तम् । त्वत्तो महर्षेरन्येषां
२०
सदाद्येकान्तवादिनां स्वप्नेपि नैतत् संभवतीति वाक्यार्थः
प्रतिपत्तव्यः ।
ननु च निर्विकल्पकं प्रत्यक्षंनिरंशवस्तुप्रतिभास्येव न
६६
धर्मिधर्मात्त्मकवस्तुप्रतिभासितपृष्टभाविविकल्पनज्ञानोत्थंधर्मो
धर्मो ऽयम् इति धर्मिधर्मव्यवहारस्य प्रवृत्तेस् तेन चसकलकल्प
-
नापोढेन प्रत्यक्षेण निरंशस्वलक्षणास्यादर्शनम् असिद्धंकथं तद
-
भावं साधयेद् इति वदन्तं प्रत्याहुः —
०५
प्रत्यक्षनिर्देशवद् अप्य् असिद्ध
[?
-
]
म् अकल्पकं ज्ञापयितुं ह्य् अशक्यम् ।
विना च सिद्धेर् न च लक्षणार्थो
न तावकद्वेषिणि वीर ! सत्यम् ॥
३३
॥
टीका —
प्रत्यक्षेण निर्देशः प्रत्यक्षनिर्देशः, प्रत्यक्षतो
१०
दृष्ट्वा नीलादिकम् इदम् इति वचनम् अन्तरेणांगुल्या प्रदर्शनमित्य् अ
-
र्थः । स प्रत्यक्षनिर्देशो ऽस्यास्तीति प्रत्यक्षनिर्देशवत् । तद् अप्य् अ
-
सिद्धं । कुत एतत्, यस्माद् अकल्पकं ज्ञापयितुं कुतश्चिदप्य् अ
-
शक्यं, हि यस्माद् अर्थे । तेनेदम् उक्तं भवति — यस्मादकल्पकं कल्प
-
नापोढं, न विद्यते कल्पः कल्पनाऽस्मिन्न् इति विग्रहात्, तद्ज्ञाप
-
१५
यितुं संशयितेभ्यो विनेयेभ्यः प्रतिपादयितुं न शक्यं, तस्मा
-
त् प्रत्यक्षनिर्देशवद् अपि तत्त्वम् इदम् असिद्धम् इति । तद्धि प्रत्यक्षम् अक
-
ल्पकं न तावत् प्रत्यक्षतो ज्ञापयितुं शक्यं तस्यपरासंवेद्यत्वात् ।
नाऽप्य् अनुमानात् तत्प्रतिबद्धलिंगप्रतिपत्तेर् असंभवात्परेषाम् अगृहीतलिं
-
गलिंगिसम्बंधानाम् अनुमानज्ञानेन ज्ञापयितुम् अशक्तेः । स्वयं प्रति
-
२०
पन्नकल्पनापोढप्रत्यप्रतिबद्धलिंगानां तुतज्ज्ञापनानर्थक्यात् ।
६७
को हि स्वयम् अकल्पकं प्रत्यक्षं तदविनाभाविलिंगंच प्रतिपद्यमानः
प्रत्यक्षम् अकल्पकं न प्रतिपद्येत । प्रतिपद्यमानस्यापिविपरीतसमारो
-
पसंभवात् तज्ज्ञापनम् अनुमानेन नानर्थकम् इति चेत्, न, समारोपव्य
-
वच्छेदे
[? ’]
पि पर्यनुयोगस्य समानत्वात् । किंप्रतिपन्नसाध्यसाध
-
०५
नसंबंधस्यानुमानेन संमारोपव्यवच्छेदः साध्यते, स्वयम् अप्रतिपन्न
-
साध्यसाधनसंबंधस्य वेति ? न तावत् प्रथमः पक्षः, समारोपस्यै
-
वासंभवात् । स्वयं प्रत्यक्षम् अकल्पकंतदविनाभाविसाधनं च प्रति
-
पद्यमानस्य समारोपे परेणा प्रत्यायने ऽपि तस्यसमारोपप्रसं
-
गात् । नाऽप्य् अप्रतिपन्नसाध्यसाधनसंबंधस्यसाधनप्रदर्शनेन
१०
समारोपव्यवच्छेदनं युक्तम् अतिप्रसंगात् । यदिपुनर्गृहीतविस्मृ
-
तसंबंधस्य साध्यसाधनसंबंधस्मरणकारणात् समारोपोव्यव
-
च्छिद्यत इति मतं, तद् अप्य् अयुक्तम् । संबंधग्रहणस्यैवासंभवात्,
स्वयमविकल्पकप्रत्यक्षानिश्चये तत्स्वभावकार्यानिश्चये चतत्सं
-
बंधस्य निश्चेतुम् अशत्त्केः । परतो निश्चयात् तन्निश्चयेतत्स्वरूप
-
१५
स्यापि निश्चयान्तरान् निश्चयप्रसंगाद् अनवस्थानात् । निश्चयस्व
-
रूपानिश्चये ततो
[? ’]
कल्पकप्रत्यक्षव्यवस्थानानुपपत्तेःसर्वथा तस्य
ज्ञापयितुम् अशक्तेः कुतः सिद्धिः स्यात् ? विना च सिद्धेर् नच
लक्षणार्थः संभवति "कल्पनापोढम् अभ्रान्तं प्रत्यक्ष"म् इति ल
-
क्षणम् अस्यार्थः प्रत्यक्षप्रत्यायनं, न च प्रत्यक्षस्यसिद्धेर् विना
२०
तत्प्रत्यायनं कर्त्तुं शक्यम् इति नैव लक्षणार्थः कश्चित्संगच्छते ।
ततो न तावकद्वेषिणि वीर! सत्यं सर्वथा संभवति । तवाऽयं
तावकः स चासौ द्वेषी चेति तावकद्वेषी तावकशत्रुर् इत्य् अ
-
६८
र्थः । तस्मिन् न सत्यं वीर ! भगवन्न् इतिव्याख्यानं । अथवा
तवेदं मतं तावकं तद् द्वेषिती तावकद्वेषीसदाद्येकान्तवाद
-
स् तस्मिन् न सत्यम् एकांततः साधयितुं शक्यत इतिव्याख्येयं ।
यथा सत्यं न संभवति तथा कर्त्ता शुभस्याशुभस्यवा कर्मणः,
०५
कार्यं च शुभम् अशुभं वा तद्द्विषां न घटत इतिप्रतिपादयंति —
कालान्तरस्थे क्षणिके ध्रुवे वाऽ
-
पृथक्पृथक्त्वावचनीयतायाम् ।
विकारहानेर् न च कर्त्तृकार्ये
वृथा श्रमो ऽयं जिन ! विद्विषां ते ॥
३४
॥
१०
टीका —
वस्तुनो जन्मकालाद् अन्यः कालः कालान्तरं तत्र
तिष्ठतीति कालांतरस्थं तस्मिन् वस्तुनि प्रतिज्ञायमाने ऽपिन कर्त्ता
कश्चिद् उपपद्यते, क्षणिके ध्रुवे वा । वाशब्द इवार्थस्तेनेदम् उक्तं
भवति, यथा क्षणिके निरन्वयविनाशिनि वहिरन्तश् चवस्तुनि
न कर्त्ताऽस्ति क्रमयौगपद्यविरोधात् क्रियाया एवासंभवात् ।
१५
यथा च ध्रुवे कूटस्थे नित्ये निरतिशये पुरुषे सति नकर्त्ता
विद्यते तथा कालांतरस्थे
[? ’]
पि अपरिणामिनि पदार्थे नकश्चित् क
-
र्त्ता संभवति, कर्तुरभावे च न कार्यं स्वयं समीहितंसिध्यति
कर्तृनान्तरीयकत्वात् कार्यस्येति । कुत एतद् इति चेत्, विकार
-
हानेर् विकारः परिणामः स्वयम् अवस्थितस्य द्रव्यस्यपूर्वाकार
-
२०
परित्यागाजहदुत्तरोत्तराकारोत्पादस् तस्य हानिर् अभावस् ततो
विकारहानेर् इति हेतुनिर्देशः । विकारो हि विनिवर्त्तमानः
६९
क्रमाक्रमौ निवर्तयति तयोस् तेन व्याप्तत्वात्, तन्निवृत्तौ तन्नि
-
वृत्तिसिद्धेस् तौ च निवर्तमानौ क्रियां निवर्तयतस् तस्यास्ताभ्यां
व्याप्तत्त्वात् । क्रियापाये च न कर्त्ता क्रियाधिष्ठस्यद्रव्यस्य
स्वतंत्रस्य कर्तृत्वसिद्धेः । कर्तुर् अभावे च न कार्यंस्वर्गापवर्गल
-
०५
क्षणम् इति वृथा श्रमो ऽयं तपोलक्षणास् तदर्थंक्रियमाणः स्यात्
जिन ! स्वामिन् ! वीर ! तव द्विषां सर्वथैकान्तवादिनांसर्वे
-
षाम् इति संक्षेपतो व्याख्येयम् ।
ननु च वस्तुनि क्षणिके विकारस्य हानिर् अवस्थितस्य
द्रव्यस्याभावात्, ध्रुवे च पूर्वाकारविनाशोत्तराकारोत्पादाभा
-
१०
वात्, कालान्तरस्थे तु कथं तत्रोभयसंभवाद् इति केचित् । ते ऽपि
न प्रामाणिकाः । प्रागसत एवोत्पन्नस्य कालान्तरस्थस्यापि
पश्चाद् असत्त्वैकान्ते सर्वथैकक्षणस्थाद्विशेषाभावादनन्वयत्वस्य
तदवस्थत्वात् । ननु नित्यस्यात्मनो
[? ’]
न्तस्तत्त्वस्यपूर्वानुभूत
-
स्मृतिहेतोः प्रत्यभिज्ञातुर् अर्थक्रियायां व्याप्तियमाणस्यकर्त्तुः
१५
कार्यस्य च तेन क्रियमाणस्य घटनाद् विशेषःकालान्तरस्थस्य
क्षणिकाद् इति केचित् । नात्मनो ऽपिनित्यस्यैककर्त्तृत्वानुपपत्तेः ।
बुद्ध्याद्यतिशयसद्भावात् कर्त्तात्मेति चेत्, न, बुद्धी
-
च्छाद्वेषप्रयत्नसंस्काराणाम् आत्मनो ऽर्थान्तरत्वेखादिवत्कर्त्तृत्वा
-
नुपपत्तेः, इदं मे सुखसाधनं दुःखसाधनं चेतिबुद्ध्या खलु
२०
किंचिदात्मा जिघृक्षति वा जिहासति वा ग्रहणाय हानाय वा
प्रयतमानः पूर्वानुभवसंस्कारात् कार्यस्योपादाता हाता वाकर्त्तो
-
च्यते सुखदुःखे च यदात्मनो भिन्ने स्यातां स्वादेर् इव नतदा
७०
सुखदुःखे पुंस एवेति नियमः सिध्येत् । तयोः पुंसिसमवा
-
यात् पुंस एव सुखदुःखे न पुनः खादेर् इति चेत्, कुतस्तयोः
पुंस्येव समवायः स्यात् । मयि सुखं दुःखं चेति बुद्धेरिति
चेत्, सा तर्हि बुद्धिः पुनरात्मन्येवेति कुतः सिध्येत् । समवा
-
०५
याद् इति चेत्, कुतस् तस्यास् तत्रैव समवायो न च गगनादाविति
निश्चेतव्यं । मयि बुद्धिर् इति बुद्ध्यंतराद् इति चेत्, तदपि
बुद्ध्यंतरम् आत्मन्येवेति कुतः ? समवायाद् इति चेत्, कुतस्तस्या
-
स् तत्रैव समवाय इत्यादि पुनर् आवर्त्तत इतिचक्रकप्रसंगः । यस्य
यद्बुद्धिपूर्वकाविच्छाद्वेषौ तत्र तद्बुद्धेः समवाय इतिचेत्, कुतः
१०
पुंस एव बुद्धिपूर्वकाविच्छाद्वेषौ न पुनः खादेरितिनिश्चयः ?
पुंस एव प्रयत्नाद् इति चेत्, प्रयत्नो ऽप्य् आत्मन एवेति कुतःसंप्र
-
त्ययः ? प्रवृत्तेर् इति चेत् सा तर्हिप्रवृत्तिरूपादानपरित्याग
-
लक्षणा कुशला वाऽकुशला वा मनोवाक्कायनिमित्ता प्रयत्न
-
विशेषं बुद्धिपूर्वकम् अनुमापयंती पुंस एवेति कुतःसाधयेत् ?
१५
शरीरादाव् अचेतने तदसंभवात् पारिशेष्याद् आत्मन एव सेतिचेत्,
नात्मनो ऽपि स्वयम् अचेतनत्वाभ्युपगमात् । चेतनासमवायादात्मा
[?
-
]
चेतन इति चेत्, न स्वतो ऽचेतनस्य चेतनासमवाये खादि
-
ष्व् अपि तत्प्रसंगात्, स्वतश् चेतनत्वेचेतनासमवायवैयर्थ्यात् ।
स्वरूपचेतनया साधारणरूपया चेतनस्यसाधारणचेतनासमवाय
२०
इति चेत्, नासाधारणचेतनायाः पुंसो ऽनर्थान्तरत्वेसाधारण
चेतनाया अप्य् अनर्थान्तरत्वम् अतिप्रसंगाच्चेतनाविशेषसामान्ययोः
पुंसस् तादात्म्यसिद्धौ च परमतानुसरणं दुर्निवारं । चेतनावि
-
७१
शेषस्यापि चेतनासामान्यवद् आत्मनो ऽर्थान्तरत्वे कुतोन गगना
-
देर् विशेषो ऽचेतनत्वाद् इति शरीरादाव् इव पुंस्य् अपि प्रवृत्तिर्न सि
-
ध्येत् तदसिद्धौ न तत्रैव प्रयत्नसिद्धिरिच्छाद्वेषसिद्धिर् वा सुख
-
दुःखबुद्धिश् चेति न कर्ताऽत्मा सिध्येत्, कार्यं वा यतःकालांतरस्थे
०५
बुद्ध्यादौ कर्तृकार्ये न विरुध्येते क्षणस्थितिबुद्ध्यादिवत् ।
अथवा महदादिः कालंतरस्थायी नित्यात् प्रधानादपृथग्भूतः
पृथग्भूतो वा ? प्रथमपक्षे न कर्तृकार्ये, विकारस्यहानेः, कर्तृ
प्रधानं, कार्यं महदादिव्यक्तं, तयोश्चापृथग्भावे यथाप्रधानामवि
-
कारि तथा महदादि व्यक्तम् अपि तदपृथक्त्वात्प्रधानस्वरूपवत्
१०
तथा च न कार्यं प्रधानवत्, कार्याभावे च कस्य कर्तृप्रधानं
स्याद् विकारस्य कार्यस्याभावात् ततो नापृथक्त्वे व्यक्ताव्यक्त
-
योः कर्तृकार्ये व्यक्ताव्यक्ते स्यातां । द्वितीयपक्षे ऽपि नकर्तृकार्ये,
तथा हि — न प्रधानं कर्तृ महदादिकार्यात् पृथग्भूतत्वात्
पुरुषवत्, विपर्ययप्रसंगो वा महदादि च न कार्यंकर्त्तुर् अभा
-
१५
वात् पुरुषवत् । न हि प्रधानं महदादेः कर्तृतस्याविकारित्वात् पुरु
-
षवद् इति नासिद्धः कर्तुर् अभावः । यदिपुनर्व्यक्ताव्यक्तयोर् अपृथ
-
क्त्वपृथक्त्वभ्याम् अवाच्यता स्वीक्रियते तदाऽप्यपृथक्त्वपृथक्त्वा
-
वचनीयतायां न कर्तृकार्ये विकारस्य हानेःपुरुषभोक्तृत्वादि
-
वत् । पुरुषाद् धि भोक्त्तृत्वादिरपृथक्त्वपृथक्त्वाभ्यामवच
-
२०
नीयो ऽन्यथा तदपृथक्त्वेन भोक्ता नित्यः सर्वगतो ऽक्रियो
निर्गुणो ऽकर्त्ता शुद्धो वा सिध्येत् पुरुष एव भोक्तृत्वनित्य
-
त्वसर्वगतत्वाक्रियत्वनिर्गुणत्वाकर्तृत्त्वशुद्धत्वधर्माणामन्तर्भावा
-
७२
त् । तेषां पुरुषात् पृथग्भावे वा स एव दोषः स्यात्भोक्तृत्वादि
-
भ्यो ऽन्यस्य भोक्तृत्वादिविरोधात् । प्रधानवदपृथक्त्वपृथक्त्त्व
-
भ्याम् अवचनीयत्वे च न कर्त्तात्मा भोक्तृत्वादेर् नापिभोक्तृत्वादिः
कार्यं पुरुषस्येति नोदाहरणं साध्यसाधनविकलंकर्तृकार्यत्वाभा
-
०५
वसाधनस्य विकाराभावस्य साध्यस्यपृथक्त्वापृथक्त्वावचनीयत्व
-
स्य च साधनस्य सद्भावात्, ततो यत्रानन्यत्वान्यत्वाभ्यामवच
-
नीयता तत्र विकारहानिः साध्यते । यत्र च विकारहानिस्तत्र
कर्तृकार्यत्वाभाव इति कालान्तरस्थे ऽपि महदादौ नकर्तृकार्ये ।
पृथक्त्वापृथक्त्वावचनीयताया विकारहानेर् इतिवाक्यभेदेनापृथ
-
१०
क्त्वे पृथक्त्वे च व्यक्ताव्यक्तयोर् अपृथक्त्वपृथक्त्वाभ्यामवचनी
-
यतायां चेति पक्षत्रये ऽपि दृषणं योजनीयम् । तथा चसांख्या
-
नाम् अपि जिन ! तव विद्विषां वृथा श्रमः सकलोयमनियमास
-
नप्राणायामप्रत्याहारध्यानधारणासमाधिलक्षणयोगांगानुष्ठान
-
प्रयासः खेदो वृथैव स्याद् वैशेषिकनैयायिकानाम् इवेतिवाक्या
-
१५
र्थः । तद् एवं समंतदोषं मतम् अन्यदीयम् इतिसमर्थितं । जिन !
त्वदीयं मतम् अद्वितीयम् इति प्रकाशितं च । ततस् त्वम् एवमहा
-
न् इतीयत्प्रतिवक्तुम् ईशा एव वयम् इति प्रकृतसिद्धिः ।
साम्प्रतं
चार्वाकमत
म् अनूद्य दूषयन्ति —
मद्यांगवद् भूतसमागमे ज्ञः
२०
शक्त्यन्तरव्यक्तिर् अदैवसृष्टिः ।
इत्य् आत्मशिश्नोदरपुष्टितुष्टै
-
७३
र् निर्ह्रीभयैर् हा ! मृदवः प्रलब्धाः ॥
३५
॥
टीका —
मद्यांगानि पिष्टोदकगुडधातक्यादीनि तेष्व् इव
तद्धेतुभूतानि पृथिव्यप्तेजोवायुतत्त्वानि तेषां समागमःसमुदाय
-
स् तस्मिन् सति ज्ञश् चेतनः परिणामविशेषःसुखदु
[? ḥ]
खहर्षविषादादि
-
०५
विवर्त्तात्मको गर्भादिमरणपर्यन्तः प्रादुर्भवत्याविर्भवति वा
कार्यवादाभिव्यक्तिवादाश्रयिणाम् इति भावः । पृथिव्यप्तेजो
-
वायुर् इति तत्त्वानि तत्समुदये शरीरेन्द्रियविषयसंज्ञास्तेभ्यश् चै
-
तन्यम् इत्य् अत्र सूत्रे कार्यवादिभिर् अवि
१
द्धकर्मादिभिरुत्पद्यते इति
क्रियाध्याहारात्, तथाऽभिव्यक्तिवादिभिः पुरंदरादिभिरभि
-
१०
व्यज्यत इति क्रियाध्याहारात् । भूतसमागमे ज्ञ इतिभूतसमु
-
दायस्य परंपरया कारणत्वम् अभिव्यंजकत्वं वा प्रत्येयं । साक्षा
-
च् छरीरेन्द्रियविषयसंज्ञेभ्य एवज्ञस्योत्पादाभिव्यक्तिवचनात्
अहं चक्षषा रूपं जानामीति ज्ञातुः प्रतीतेस् तेषामन्यतमस्याप्य् अ
-
पाये ज्ञस्याप्रतीतेर् ज्ञानक्रियायाःकर्तृकरणकर्मनान्तरीयकत्वात् ।
१५
तत्र शरीरसंज्ञस्य कर्तृत्वाच्चैतन्यविशिष्टकायव्यतिरेकेणापरस्या
-
त्मनस् तत्त्वांतरस्य कुतश्चित् प्रमाणाद् अप्रतिपत्तेश्चक्षुरादींद्रियसंज्ञस्य
करणत्वाच् चैतन्यविशिष्टेन्द्रियव्यतिरेकेणकरणास्याऽसंप्रत्ययात् ।
विषयसंज्ञस्य वा कर्मत्वात् तस्य ज्ञेयतयाऽवस्थितत्वात् । न च
मृतशरीरेन्द्रियविषयेभ्यश् चैतन्यस्यानुदयदर्शनात्तेभ्यश् चैतन्यम् इति
२०
दुःसाधनं, चैतन्यविशिष्टानाम् एवजीवशरीरेन्द्रियविषयसंज्ञानां
संज्ञाननिबंधनत्ववचनात्, कुतः पुनर्भूतानां सर्वेषामपि समागमे
१ क पुस्तके ऽअबिद्धकर्मादिभिःऽ नास्त्य् अयं पाठः ।
७४
शरीरेन्द्रियविषयसंज्ञा असंभवंत्यःप्रतिनियम्यंते ? शरीराध्यारं
-
भकभूतानाम् एव समुदाये सति संभवंति न पुनःपिठरादिभूत
-
समुदाय इति न चोद्यं तेषां शक्त्यन्तरव्यक्तेः । यथैवहि मद्यां
-
गनां पिष्टोदकादीनां समागमे मदहेतोः शक्त्यंरस्य व्यक्ति
-
०५
स् तथा पृथिव्यादिभूतानां ज्ञानहेतोः शक्त्यंतरस्य व्यक्तिः
स्यात् । तर्हि शक्त्यंतरव्यक्तिप्रतिनियतेष्व् एव भूतेषुसमुदितेषु
संभवन्ती दैवनिमित्ता स्यात्, दृष्टाकारणव्यभिचार
[? :आ]
दिति च न
शंकनीयं दैवस्य तत्सृष्टिनिमित्तस्य कादाचित्कतयादैवान्त
-
रात् सृष्टिप्रसंगात् । यदि पुनर्दैवव्यक्तिः कादाचित्क्य् अपिस्वा
-
१०
भाविकीति न तस्या दैवत्सृष्टिः परस्मादन्यथानवस्थाप्रसंगा
-
द् इति मतं तदा शक्त्यंतरव्यक्तिर् अप्य् अदैवसृष्टिः सिद्धासुदूरम् अ
-
पि गत्वा स्वभावस्यावश्यम् आश्रयणीयत्वात् । शक्त्यंतरं हि
शक्तिविशेषो ऽन्तरशब्दस्य विशेषवाचिनः प्रयोगात् ततो यथा
मद्यांगानां समागमे कालविशेषविशिष्टे पात्रादिविशेषविशिष्टे
१५
चाऽविकले ऽनुपहते च मदजननशक्तिविशेषव्यक्तिरदैवसृष्टि
-
र्दृष्टा मद्यांगानाम् असाधारणानां साधारणानां च समागमेसति
स्वभावत एव भावात्, तथा ज्ञानहेतुशक्तिविशेषव्यक्तिर् अप्य
-
दैवसृष्टिरेव ज्ञानांगानां भूतानाम् असाधरणानां चसमागमे सति
स्वभावत एव भावात्, ज्ञानजननसमर्थस्यैवकललादिशरीर
२०
स्यासाधारणस्य शरीरसंज्ञत्ववचनात् तथा ज्ञानक्रियायांसाधक
-
तमस्यैवेन्द्रियस्यासाधरणस्येन्द्रियसंज्ञत्वसिद्धेर्विषयस्य च ज्ञा
-
नक्रियाश्रयस्यैवासाधारणस्य विषयसंज्ञत्वोपपत्तेर् नसर्वे श
-
७५
रीरादयः शरीरादिसंज्ञात्वं लभन्ते यतःप्रतिनियमो न स्या
-
त् कालाहारादेर् एव साधारणस्यानियामात्ततो दृष्टनियतानियत
-
कारणसृष्टित्वाच् चैतन्यशक्त्यभिव्यक्तेर् न सा दैवसृष्टिर्मदशक्त्य
-
भिव्यक्तिवद् विरेचनशक्त्यभिव्यक्तिवद् वा, हरीतक्यादिसमुदये न
०५
हि देवतां प्राप्य हरीतकी विरेचयतीति युक्तं वक्तुंकदाचि
-
त् ततः कस्यचिद् अविरेचने ऽपि हरीतक्यादियोगस्यपुराणत्वादिना
शक्त्त्
[? :ओम्]
इवैकल्यस्यैव सिद्धेर् उपयोक्तुःप्रकृतिविशेषस्य चाप्रती
-
तेर् इति यैर् अभिमन्यते तैर् मृदवः प्रलब्धाःसुकुमारप्रज्ञानाम् एव
मृदूनां विप्रलंभयितुं शक्यत्वात् । कीदृशैस् तैर्निर्ह्व्
[? ]
ईभयैः शिश्नो
-
१०
दरपुष्टतुष्टैर् इति । ये हि स्त्रीपानादिव्यसनिनो निर्लज्जानिर्भ
-
यास् त एव मृदून् विप्रलभंते परलोकिनो ऽभावात् परलोका
-
भावः पुणयपापकर्मणस् तु दैवस्याभावात्, तत्साधनस्यशुभा
-
शुभानुष्ठानस्याभाव इति यथेष्टं प्रवर्त्तितव्यं, तपःसंयमादीनां
च यातनाभोगवंचमात्रत्वाद् अग्निहोत्रादिकर्मणो ऽपि बालक्री
-
१५
डोपमत्वात् । तद् उक्तम् —
तपांसि यातनाश् चित्राः संयमो भोगवंचकः ।
अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ॥
इति नानाविधविप्रलंभनवचनसद्भावात् । परमार्थतोऽनादिनिध
-
नस्योपयोगलक्षणस्यात्मनो ज्ञस्य प्रमाणतः प्रसिद्धःभूतसमागमे
२०
ज्ञ इति व्यवस्थापयितुम् अशक्तेः । तानि हि पृथिव्यादीनिभूतानि
कायाकारपरिणतानि संगतान्य् अपि अविकलानुपहतवीर्याणि
चैतन्यशक्तिं सतीम् एव प्रागसतीम् एव वाऽभिव्यंजयेयुःसदसतीं
७६
वा ? गत्यंतराभावात् । प्रथमकल्पनायामनादित्वसिद्धिर् अनंतत्व
-
सिद्धिश् च चेतनाशक्तेः सर्वदा सत्या एवाभिव्यक्तिसिद्धेः । तथा
हि — कथंचिन् नित्या चैतन्यशक्तिः सदकारणत्वत्पृथिव्यादि
-
सामान्यवत् न पृथिव्यादिव्यक्त्यानेकान्तस् तस्यास् तत्सत्त्वे ऽपि
०५
सकारणत्वात्, नाऽपि प्रागभावेन व्यभिचारस् तस्याकारणत्वेऽ
-
पि सद्रूपत्वासिद्धेस् ततः समुदितो हेतुर् न व्यभिचारीसर्वथा वि
-
पक्षावृत्तित्वात् तत एव न विरुद्धो, नाप्य् असिद्धः सतोऽभिव्यं
-
ग्यस्य सदकारणत्वसिद्धेर् अभिब्यंजकस्याकारणत्वात् । ननुच
मद्यांगैः पिष्टोदकादिभिर् अभिव्यज्यमानाऽपि मदशक्तिःप्राक्सती
१०
न नित्याभ्युपेयते ततस् तया सदकारणया व्यभिचार एवहेतोर् इति
चेत्, न तस्या अपि कथंचिन् नित्यत्वसिद्धेश्चेतनद्रव्यस्यैव मद
-
शक्तिस्वभावत्वात् सर्वथाऽप्य् अचेतनेषु मदशक्तेरसंभवात् । मनसो
मदशक्तिर् इति चेत्, न तस्याप्य् अचेतनत्वाद् भावमनस एवचेतनस्य
मदशक्तिसंभवात् । एतेनेद्रियाणाम् अचेतनानां मदशक्तेरसंभवः
१५
प्रतिपादितः । भावेन्द्रियाणां तु चेतनानाम् एवमदशक्तिसंभा
-
वनायां च किंचिद् अचेतनद्रव्यं माद्यति नाममद्यभाजनस्यापि
मदप्रसंगात् । न चैवं मुक्तानाम् अपि मदशक्तिः प्रसज्यतेतेषां
तदभिव्यक्तिकारणासंभवात् । मदशक्तिर् हिव्
[? ब्]
अहिरंगकारणम् अभि
-
व्यक्तौ मद्यादि चेतनस्यात्मनस् तस्यानियतत्वात् । अन्तरंगंतु
२०
कारणं मोहनीयाख्यं । न च मुक्तानां तदुभयकारणम् अस्तियत
-
स् तेषां मदशक्तेर् अभिव्यक्तिः स्यात् । तत्रानभिव्यक्तामदशक्ति
-
र् अस्त्व् इति चेत्, सा यदि चैतन्यद्रव्यरूपा तदास्त्य् एव, मोहो
-
७७
दयरुपातु न संभवति मोहस्यात्यंतपरिक्षयात्कर्मान्तरवत्, तन् न
मदशक्त्या व्यभिचारः साधनस्य, मदजननस्य शक्त्यामद्यांग
-
समागमेनाभिव्यज्यमानया सत्या कारणया व्यभिचार इति चेत्,
न तस्याः सुरांगसमागमकार्यत्वात्, ततः पूर्वं प्रत्येकंपिष्टा
-
०५
दिषु तत्सद्भावावेदकप्रमाणाभावात् । एतेन मोहोदयनिमि
-
त्तयाऽऽत्मनो मदशक्त्या पराभ्युपगतया व्यभिचारोद्भावनमपा
-
स्तं तस्याश् च मोहोदयकार्यत्वात् क्षीणामोहस्यासंभवात् ततो
निरवद्यो हेतुश् चैतन्यशक्तेर् नित्यत्वसाधनेसदकारणत्वाद् इति
सिद्धः परलोकित्वम् अनिच्छतां न सती चैतन्यशक्तिरभिव्य
-
१०
ज्यत इति वक्तव्यं । यदि पुनः प्रागसती चैतन्यशक्तिरभिव्य
-
ज्यते तदा
(क १)
प्रतीतिविरोधः सर्वथाप्य् असतः कस्यचिद
-
भिव्यक्त्यदर्शनात् । कथंचित् सती वासती वाऽभिव्यज्यतैति
चेत्, परमतसिद्धिः, कथंचिद् द्रव्यतः सत्याश्चैतन्यशक्तेः पर्या
-
यतश् चासत्याः कायाकारपरिणतपुद्गलैर् अभिव्यक्तेरभीष्टत्वात् स्या
-
१५
द्वादिभिस् ततो विप्रलब्धा एवचैतन्यशक्त्यभिव्यक्तिवादिभिः
सुकुमारप्रज्ञाः, सर्वथा चैतन्याभिव्यक्तेःप्रमाणबाधितत्वात् ।
येषां तु भूतसमागमकार्यं चैतन्यशक्तिस् तेषांसर्वचैतन्यशक्ती
-
नाम् अविशेषप्रसंगात् प्रतिप्राणि बुद्ध्यादिचैतन्यविशेषो न
स्यात् ।
२०
प्रतिसत्त्वं भूतसमागमस्य विशिष्टत्वात्तद्विशेषसिद्धिर् इति
वदन्तं प्रति प्राहुः सूरयः —
१. ऽऽकऽऽ चिह्नात् ऽखऽ चिह्नापर्यन्तः पाठः प्रथमपुस्तकेन वर्तते ।
७८
दृष्टे ऽविशिष्टे जननादिहेतौ
विशिष्टता का प्रतिसत्त्वम् एषाम् ।
स्वभावतः किं न परस्य सिद्धि
-
र् अतावकानाम् अपि हा प्रपातः ॥
३६
॥
०५
टीका —
दृष्ट एवाविशिष्टे हेतौ पृथिव्यादिसमुदये तन्नि
-
मित्ते वा शरीरेन्द्रियविषयसंज्ञे ऽभ्युपगम्यमानेदैवसृष्टेर् अनभ्युप
-
गमात् का नाम विशिष्टता सत्त्वं सत्त्वं प्रतिभूतसमागमस्य
स्यात्, न काचिद् विशिष्टता संभवतीत्य् अर्थः । स्वभावतएव
विशिष्टभूतानाम् इति चेत्,
(ख)
परस्याऽपि पृथिव्यादि
-
१०
भूतेभ्यो ऽन्यस्यापि पंचमस्यात्मतत्त्वस्य सिद्धिः किं नस्यात्
किं भूतकार्यचैतन्यवादेन ?
स्यान् मतं, कायाकारपरिणतभूतकार्यत्वाच् चैतन्यस्यस्वभा
-
वतः सिद्धिस् तर्हि भूतानि किम् उपादानकारणं चैतन्यस्यसह
-
कारिकारणं वा ? यद्य् उपादानकारणं तदा चैतन्यस्यभूतान्वय
१५
प्रसंगः सुवर्णोपादाने किरीटादौ सुवर्णन्वयवत् । पृथिव्याद्यु
-
पादाने वा काये पृथिव्याद्यन्वयवत् । प्रदीपोपादानेनकज्जलेन
प्रदीपानन्वितेन व्यभिचार इति चेत्, न कज्जलस्य प्रदीपो
-
पादानत्वासिद्धेः । प्रदीपज्वाला हिप्रदीपज्वालान्तरस्योपादानं
न कज्जलस्य, तस्य तैलवर्त्युपादानत्वात्, प्रदीपकलिकांसहका
-
२०
रिणीम् आसाद्य तैलं कज्जलरूपेण परिणमदूर्ध्वं गच्छदुपलभ्यते ।
न च तत्तैलान्वितं रूपादिभिः समन्वयदर्शनात् । एकस्य
७९
पुद्गलद्रव्यस्य तैलरूपतां परित्यज्यकज्जलरूपतापासादयतः
प्रदीपसहकारिविशेषवशाद् रूपादिनान्वितस्यप्रतीतिसिद्धस्यान्य
-
था वक्तुम् अशक्तेः, त्यक्तात्यक्तात्मरूपस्य पूर्वापूर्वेणवर्त्तमानस्य
कालत्रये ऽपि विषयस्य द्रव्यस्योपादानत्वसिद्धेः । तदुक्तम् —
०५
त्यक्तात्यक्तात्मरूपं यत्पूर्वापूर्वेण वर्त्तते ।
कालत्रये ऽपि तद्द्रव्यम् उपादानम् इति स्मृतम् ॥
न चैवं भूतसमुदायः पूर्वम् अचेतनाकारं परित्यज्यचेतना
-
कारं गृह्णन् धारणेरेण द्रवोष्णतालक्षणेनभूतस्वभावेनान्वितः
संलक्ष्यते चैतन्यस्य धारणादिस्वभावरहितस्यसंवेदनात् ।
१०
न चात्यंतविजातीयं कार्यं कुर्वाणः कश्चिद् अर्थः प्रतियतेपार
-
दादिः पारदीयं कुर्वन्न् अपि नात्यंतविजातीयं कुरुतेरूपादित्वेन
सजातीयत्वात्, तर्हि चैतन्यम् अपि नात्यंतविजातीयंभूतसमु
-
दायः कुरुते । तस्य सत्त्वार्थक्रियाकारित्वादिभिर् धर्मैःसजातीय
-
त्वाद् इति चेत्, किम् इदानीं जलानलादीनां परस्परम् उपादा
-
१५
नोपादेयभावो न भवेत् तत एव तेषां तत्त्वान्तरत्वात् । धारणा
-
द्यसाधारणपरस्परविलक्षणत्वान् नोपादानोपादेयभाव इतिचेत्,
किम् एवं भूतचैतन्ययोर् असाधारणलक्षणयोःपरस्परविलक्षणयो
-
र् उपादानोपादेयभावो ऽभ्यनुज्ञायते । धारणादिलक्षणं हिभूत
-
चतुष्टयम् उपलभ्यते न चैतन्यं तद् अपिज्ञानदर्शनोपयोगलक्षणम् उप
-
२०
लक्ष्यते न भूतचतुष्टयम् इति नपरस्परविलक्षणलक्षणत्वं
भूतचैतन्ययोर् असिद्धं ततो नोपादानोपादेयभावो युक्तः । सा
-
धारणसत्त्वादिधर्मसाधर्म्यमात्रात् तयोर् उपादानोपादेयत्वेऽतिप्रसं
-
८०
गस्य दुर्निवारत्वात् । यदि पुनः सहकारिकारणंभूतसमुदय
-
श् चैतन्योत्पत्तौ प्रतिपाद्यते
[? ]
तदोपादानकारणमन्यद्वाच्यं, निरु
-
पादानस्य कस्यचित् कार्यस्यानुपलब्धेः । शब्दविद्युत्प्रदीपादि
-
वन्निरुपादानं चैतन्यम् इति चेत्, न, तस्यापि स्वोपादानत्व
-
०५
सिद्धेः । तथा हि स्वोपादानकारणपूर्वकः शब्दादिःकार्यत्वा
-
त् पटादिवत् । किं पुनस् तस्योपादानं ताल्वादिसहकारिव्यति
-
रिक्तं दृष्टम् इति चेत्, शब्दादिपुद्गव्यम् इति ब्रूमस् तथा हि
शब्दादिः पुद्गलद्रव्योपादान एव वाह्येन्द्रियप्रत्यक्षत्वात्घटवत् ।
सामान्येन व्यभिचार इति चेत्, न, तस्यापिमूर्त्तद्रव्याधारस्य
१०
सदृशपरिणामलक्षणस्य वाह्येन्द्रियग्राह्यस्यपुद्गलद्रव्योपा
-
दानत्वसिद्धेः । तथा सति सामान्यस्यानित्यत्वप्रसंगः इति
चेत्, कथंचिद् इष्टत्वाद् अदोष इति सर्वथा नित्यस्य सामान्य
-
स्य स्वप्रत्ययहेतुत्वविरोधात् । द्रव्येणसंग्रहनयविषयेण सा
-
मान्येनानेकांत इति चेत्, न तस्याप्य् अतीन्द्रियस्यवाह्येन्दिरया
-
१५
प्रत्यक्षत्वात् तेन व्यभिचाराभावात् । यत्र वाह्येन्द्रिग्राह्यं
पुद्गलस्कंधद्रव्यं व्यवहारनयसिद्धंतत्सूक्ष्मपुद्गलोपादानम् एवेति
कथं तेनानेकांत इति च । ततो नानुपादानं शब्दादिकम् अस्ति
यतस् तद्वत्सहकारिमात्राच् चैतन्यम् अनुपादानम् उत्पद्यतेइति प्रपद्येमहि ।
न चोपादानसहकारिपक्षद्वयव्यतिर् एकेण किंचित् कारणमस्ति येन
२०
भूतचतुष्टयं चैतन्यस्य जनकम् उररीक्रियते । ततःस्वभावत एव
चैतन्यस्य सिद्धिर् अस्तु पृथिव्यादिभूतविशेषवद् इतितत्त्वान्तर
-
सिद्धिस् ताम् अपन्हवानाम् अतावकानांदर्शनमोहोदयाकुलितचेतसां
८१
जीविकामात्रतंत्राणां विचारयताम् अपि हा ! कष्टंप्रकृष्टः
पातः संसारसमुद्रावर्त्तपतनलक्षणः संजात इति सूरयःकरु
-
णाविषयत्वं दर्शितवन्तः ।
दीक्षात एव मुक्तिर् इति मन्यमानान् मंत्रिणःप्रत्याहुः —
०५
स्वच्छन्दवृत्तेर्जगतः स्वभावा
-
द् उच्चैर् अनाचारपथेष्व् अदोषम् ।
निर्घुष्य दीक्षासमम् उक्तिमाना
-
स् त्वद्दृष्टिवाह्या वत विभ्रमंति ॥
३७
॥
टीका —
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहा उच्चैर् अनाचारपथाः
१०
पंच महापातकानि तेष्व् अनुष्ठीयमानेष्व् अप्य् अदोषंनिर्घोषयन्ति के
-
चित्, स्वभावत एव जगतः स्वच्छन्देन वृत्तेर् इत्युपपत्तिम् आचक्षते ।
तथा हि — जगतो ऽनाचारपथा महान्तो ऽपि न दोषहेतवः स्व
-
भावतो यथेच्छवर्त्तमानत्वात् प्रसिद्धजीवन्मुक्तवद् इतिनिर्घु
-
ष्य दीक्षासमकालां मुक्तिं मन्यन्ते । दीक्षया समा समकाला
१५
दीक्षासमा सा चासौ मुक्तिश् च सा दीक्षासमम् उक्तिस् तस्यांमानोऽ
-
भिमानो येषां ते दीक्षासमम् उक्तिमाना इति पदघटना । ते चत्व
-
द्दृष्टेर्बंधमोक्षतत्कारणानिश्चयनिबंधनस्याद्वाददर्शनात्वाह्याः
सर्वथैकांतवादित्वात् विभ्रमंत्य् एव केवलं वत कष्टं, पुनस् तत्त्वनिश्चयं
नासादयन्तीत्य् अर्थः । दीक्षा हि मंत्रविशेषारोपणम् उपसन्नमनसी
-
२०
ष्यते, सा च यदि यमनियमसहिता तदा त्वदृष्टिर् एवेतिभग
-
वद्दर्शनाद् अवाह्या एव दीक्षावादिनस् तथातत्त्वविनिश्चयप्राप्तेः ।
८२
अथ यमनियमरहिता दीक्षा कक्षीक्रियते तदा न सादोषविपक्ष
-
भूताऽनाचारप्रतिपक्षभूता वा यतो ऽनाचारक्षयकारिणी स्यात्,
न चानाचारक्षयकारणम् अन्तरेण दीक्षासमकालम् एव मुक्तिर्युक्ति
-
म् अवतरत्य् अतिप्रसंगात् । स्यान् मतिर् एषा भवतां समर्थादीक्षोच्चैर् अ
-
०५
नाचारपथम् अथ न पटीयसी न पुनर् असमर्था यतोदीक्षासमये एवा
-
ऽनाचारनिराकरणम् उपसन्न् अजनानाम् अनुषज्यत इति साऽपि न
श्रेयसी दीक्षायाः सामर्थ्ये ऽपि तत्समकालं मुक्त्यनवलो
-
कनात् । तथा हि — सामर्थ्यं दीक्षायाः स्वभावभूतमर्थान्तर
-
भूतं वा ? स्वभावभूतं चेत्, कथं कदाचित् क्वचित्कस्याश्चि
-
१०
द् एव स्यात् । दीक्षातो ऽर्थान्तरभूतं सामर्थ्यम् इति चेत्
तत् किं कालविशेषरूपं देशविशेषरूपं दक्षिणादिविशेषरूपं
वा ? कालविशेषरूपं चेत्, न, तिथिवारनक्षत्रवेलादिकाल
-
विशेषस्याविशेषे ऽपि कस्यचिद् दीक्षासमकाले मुक्त्यदर्शनात् ।
क्षेत्रविशेषसामर्थ्यम् इति चेत्, नतीर्थस्नानदेवतालयमंड
-
१५
लादिविशेषसाम्ये ऽपि कस्याचिन् मुक्त्यभावात् । दक्षिणादिवि
-
शेषरूपं सामर्थ्यम् इति चेत्, न, गुरुदक्षिणायां यथोक्तायां
सत्याम् अपि विनयप्रणमननमस्कारात्मसमर्पणसद्भावे ऽपिचो
-
च्चैर् अनाचारपथप्रवृत्तिदर्शनात् । सकला सामग्रीश्रद्धाविशेषो
-
पगृहीतद्रव्यगुणकर्मलक्षणा निवर्त्तकधर्मविशेषजनिकादीक्षायाः
२०
सामर्थ्यम् इति चेत्, कः पुनः श्रद्धाविशेषो नाम ? हेयेजिहासा
शश्वदुपादेये चोपादित्सा श्रद्धाविशेष इति चेत्, तर्हि हेयं
दुःखम् अनारतं तत्कारणं च मिथ्यादर्शनं रागादिदोषपश्चेति
८३
कथम् अनाचारपथेष्व् अदोषो निर्घुष्यते । श्रद्धाविशेषश् च सम्यग्द
-
र्शनं तदनुगृहीता दीक्षा सम्यग्ज्ञानपूर्विका सम्यक्चारित्रामिति
सम्यग्दर्शनज्ञानचारित्रत्रयाद् एव सात्मीभावम् आपन्नान्मुक्तिर् उक्ता
स्यात् तथा च त्वद्दृष्टिर् एव श्रेयसी । तद्वाह्यास् तुविभ्रमन्त्य् एवेति
०५
सूक्तम् ।
अथवा दीक्षासं यथा भवत्य् एवम् अमुक्तिमाना मीमांस
-
कास् त्वद्दृष्टिवाह्या वत कष्टं विभ्रमंति ! किं कृत्वाउच्चैर् अना
-
चारपथेष्व् अदोषं निर्घुष्य —
"
न मांसभक्षणे दोषो न मद्ये न च मैथुने
। "
१०
इति वचनात्
। कुतः ? इत्य् उपपत्तिम् आचक्षते — स्वच्छंदवृत्तेर् ज
-
गतः स्वभावाद् इति प्रवृत्तिर् एव भूतानाम् इति वचनात्, नकदा
-
चिद् अनीदृशं जगद् इत्य् अभ्युपगमाच् च । कुतस् तेषांविभ्रम इति चेत्,
दोषे ऽप्य् अदोषनिर्घोषणात् वेदविहितेषूच्चैर् अनाचारपथेषुपशुवधा
-
दिष्व् अदोषो निर्घुष्यते न पुनर् वेदवाह्येषु ब्रह्महत्यादिषुतत्र दोष
-
१५
स्यैव निर्घोषणात्,
"ब्राह्मणो न हन्तव्यः सुरा नपातव्येति"
निषेधवचनात्
। स्वच्छन्दवृत्तेर् अपि जगतः स्वभावाद्वेदेन श्रेयः
-
प्रत्यवायसाधनप्रकाशिना नियमितत्वात्, तथावेदविहितदीक्षा
-
याश् चाप्रतिक्षेपात् पाखंडिदीक्षाया एव निरसनात् । नामुक्तिमानाः
श्रोत्रियाः परमब्रह्मपदावाप्तिलक्षणस्यमोक्षस्यानंदरूपस्य तैः
२०
स्वयम् अभ्युपगमात् । अनंतज्ञानादिरूपाया एव मुक्तेर्निराकर
-
णाद् इति केचित् ते ऽपि स्वगृहमान्या एव, वेदविहितेष्व् अप्य् अ
-
नाचारेषु दोषाभावस्य व्यवस्थापयितुम् अशक्तेः । खारपटिकशा
-
८४
स्त्रविहितेषु सधनगर्भिणीवधादिषुदोषाभावानुषंगात् । खार
-
पटिकागमज्ञानस्याप्य् अप्रमाणत्वान् न तद्विहितेष्व् अनाचारेषुदोषा
-
भावप्रसंग इति चेत्, वेदज्ञानस्य कुतः प्रामाण्यं येनतद्वि
-
हितेषु पशुवधादिषु दोषाभावो व्यवतिष्ठते । दोषवर्जितैः
०५
कारणैर् जन्यमानत्वाद् इति चेत्, न स्वरूपे ऽपि वेदज्ञानस्यप्रामा
-
ण्यप्रसंगात्, दोषाश्रयपुरुषेणाकृतस्य स्वरूपवादस्यापिसिद्धेः ।
तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् ।
अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥
कार्यवादवत् दोषवर्जितैः कारणैर् जन्यमानत्वाविशेषात्
१०
बाधवर्जितत्वाच् चोदनाज्ञानस्य प्रामाण्यम् इति चेत्, नासि
-
द्धत्वाद् अनाचारविधायिनश् चोदनाज्ञानस्य बाधसद्भावात् । तथा
हि — पशुबधादयः प्रत्यवायहेतव एव प्रमत्तयोगात्प्राणातिपाता
-
दित्वात् खरपटागमविहितसधनवधादिवत् । प्रमत्तयोगोऽसिद्ध
इति चेत् न, काम्यानुष्ठानस्य रागादिप्रमादपूर्वकस्यप्रमत्त
-
१५
योगनिबंधनत्वात् । सत्य् अपि रागादिप्रमादयोगेपशुवधादिषु
प्रत्यवायासंभवे सधनवधादिष्व् अपि कुतः प्रत्यवायःसंभाव्यते
सर्वथा विशेषाभावात् । पशुवधादीनांस्वर्गादिश्रेयःसाधन
-
त्वान् न प्रत्यवायसाधनत्वम् इति चेत्, न सधनवधादीनामपि धनै
-
श्वर्यादिश्रेयःसाधनत्वात् प्रत्यवायहेतुत्वं मा भूत्, तदात्व् अ
-
२०
स्तोकश्रेयःसाधनत्वे ऽपि सधनवधादीनांपारत्रिकबृहत्प्र
-
त्यवायसाधनत्वम् अपि विरुद्धम् एवेति चेत् तर्हिपशुवधादीनाम् अपि
पशुलाभार्थलाभादिस्वल्पश्रेयःसाधनत्वे ऽपिपारत्रिकबृहत्प्रत्य
-
८५
वायसाधनत्वाद् एव स्वर्गादिश्रेयःसाधनत्वं मा भूद्विरोधात् ।
ऋत्विगादिदक्षिणाविशेषाद् दीनानाथसकलजनानंदिदानविशे
-
षाच् च श्रद्धापूर्वकव्रतनियमाभिसंबंधाच् च यजमानस्यस्वर्गा
-
दिश्रेयःसाधनत्वं पशुवधे ऽपि न विरुध्यत इति चेत् किमेवं
०५
पशुवधादिना, दक्षिणादिभ्य एव श्रेयःसंप्राप्तेस् तदभावे
प्रत्यवायस्यैव सिद्धेस् तस्य श्रेयःसाधनत्वासंभवात् । कथं
चायं सधनवधकादीनाम् अपि दानादिविधायिनां धर्माद्यभि
-
संधिश्रद्धाविशेषशालिनां स्वागमविहितमार्गादिगामिनां स्व
-
र्गादिश्रेयःप्राप्तिप्रतिषेधसमर्थः । ननु चधर्माभिसंधीनां
१०
सधनवधादिर् अधर्महेतुर् विरुद्ध इति चेत्, पशुवधादिस्तादृक् कथ
-
म् अविरुद्धः ? तथा वेदविहितत्वाद् इति चेत्खरपटशास्त्रविहित
-
त्वात् सधनवधादिर् अपि विरुद्धो मा भूत् । धनलोभादिनिबंधन
-
त्वात् सधनवधादेर् धर्माभिसंधिविरोधेस्वर्गादिलोभनिमित्तत्त्वा
-
त् पशुवधादेर् धर्माभिसंधिविरोधो ऽस्तु विशेषाभावात् । दृष्टार्थधन
-
१५
लोभादेर् अदृष्टार्थस्वर्गादिलोभादीनां महत्त्वाच् चतन्निबंधनस्यैव
पशुवधादेर् धर्मविरोधो महानेवेति च युक्तं वक्तुं । नन्व् अनंत
-
निर्वाणसुखलोभनिबंधनस्य स्वपरकायपरितापनस्याप्येवं ध
-
र्मविरोधः कथं महत्तमो न स्याद् इति चेत् न, योगिनांनिर्वा
-
णसुखश्रद्धायाम् अपि लोभाभावाद् इति, ब्रूमस् तेषामात्मस्वरूप
-
२०
प्रतिबंधिकर्ममलविगमायैव समाधिविशेषप्रवृत्तेःक्वचिल् लोभमा
-
त्रे ऽपि निर्वाणप्राप्तिविरोधात् । तद् उक्तम् — "मोक्षे ऽपि नयस्य
कांक्षा स मोक्षम् अधिगच्छतीति" । तर्हि याज्ञिकानाम् अपिप्रत्य
-
८६
वायजिहासया नित्यनैमित्तिकयोर् वेदविहितयोःप्रवृत्तेर् न स्व
-
र्गादिलोभनिबंधनत्वम् इति चेत्, किम् एवं खारपटिकानांदौर्गत्य
-
जिहासया सधनवधादिषु प्रवृत्तिर्धनलोभनिबंधनाऽभिधीयते ?
दौर्गत्यजिहासैव धनलोभ इति चेत्, प्रत्यवायजिहासैव
०५
स्वर्गादिश्रेयोलोभः कथं न स्यात् । न चैवं योगिनां
संसारकारणक्रोधलोभादिनिराचिकीर्षैव निश्रेयसो लोभ
इति वक्तुं युक्तं व्याघातात्, मोक्षार्थिनां सर्वत्राप्रवृत्तेर्न
लोभनिबंधना प्रवृत्तिर् इति विषमो ऽयम् उपन्यासः । ततःसूक्त
-
म् इद
[? ṃ]
पशुवधादियज्ञवादिनां वेदवाक्यानां बाधकमनुमानं, पशु
-
१०
वधादयः प्रत्यवायहेतवः प्रमत्तयोगात्, प्राणातिपातादित्वात्
सधनवधादिवद् इति । चैत्यालयकरणादिषुनानाप्राणिगणप्रा
-
णातिपातादिभिर् अनेकांत इति चेत्, न प्रमत्तयोगाद् इति वच
-
नात्, न च चैत्यालयकरणादिषु प्रमत्तयोगो ऽस्ति सम्य
-
क्त्ववर्धनक्रियायाः समीहितत्वात्, तत्राऽपि निदानकरणेप्रत्य
-
१५
वायहेतुत्वस्याभ्यनुज्ञानात् पक्षान्तरवर्त्तित्वान् न तैरेनैकांतिक
-
तोद्भावयितुं युक्ता । तन् न वाधवर्जितत्वेनाऽपिचोदनाप्रमाणं
बाधकस्य व्यवस्थितेः खारपटिकशास्त्रवत् अप्रमाणकं
चोच्चैर् अनाचारपथेष्व् अदोषं निर्घोषयन्तः कथं नविभ्रमयंति
मीमांसकाः ।
२०
इति त्वद्दृष्टिबाह्यानां कष्टम् अनिवार्यं ततस् तम एवप्ररूढं
याज्ञिकानां सर्वचेष्टितम् इति सूरयो निवेदयन्ति —
प्रवृत्तिरक्तैः शमतुष्टिरिक्तै
-
८७
र् उपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा ।
प्रवृत्तितः शांतिर् अपि प्ररूढं
तमः परेषां तव सुप्रभातम् ॥
३८
॥
टीका —
हिंसानृतस्तेयाब्रह्मपरिग्रहेषु नियमम् अंतरेणप्रक
-
०५
र्षेण वृत्तिः प्रवृत्तिस् तत्र रक्ता मीमांसकास्तथाऽभिनिवेशात् ।
तैर् उपेत्य प्रवृत्तिं स्वयं प्रतिपद्य हिंसाभ्युदयकस्यस्वर्गादेर् अंगं
-
कारणं निष्ठा, किं भूतैस् तैः शमतुष्टिरिक्तैर् इतिहेतुवचनं तेन शम
-
तुष्टिरिक्तत्वाद् इत्य् अर्थः, क्रोधादिशान्तिः शमः, तुष्टिः, सन्तोषः
शमेन तुष्टिः शमतुष्टिस् तया रिक्तैर् इति प्रत्येयं । तदेतत् प्ररूढं
१०
वृहत्तमं तमः परेषां यज्ञवादिनाम् अज्ञानत्वम् इत्य् अर्थः, तथाप्रवृ
-
त्तितः शान्तिर् अपि प्ररूढं तमः परेषां तस्याःशांतिप्रतिपक्षि
-
त्वात् । प्रवृत्तिर् हि रागाद्युद्रेकस्य कारणं न पुनारागादिशा
-
न्तेर् व्याघातात् ।
स्यान् मतं, तेषां, प्रवृत्तिर् द्वेधा, रागादिहेतुःशांतिहेतुश् च ।
१५
तत्र या वेदवाक्येनाविहिता सा रागाद्युदयनिमित्तं यथा ब्रा
-
ह्मणवधसुरापानादि । वेदविहिता तु शांतिहेतुर् यथा यज्ञेपशु
-
वधादिस् तस्या अदृष्टार्थत्वात्क्रोधाद्युदयनिबंधनत्वाभावाद् इति ।
तद् अप्य् असत् । वेदविहितायाः प्रवृत्तेःशांतिहेतुत्वनियमानुपपत्तेः
अन्यथा मातरम् उपैहि स्वसारम् उपैहीति वेदवाक्यविहितायामातृ
-
२०
स्वसृगमनलक्षणायाः प्रवृत्तेः शांतिहेतुत्वप्रसंगात् । वेदाविहि
-
तायाश् च प्रवृत्तेः सत्पात्रदानादिलक्षणायाःशांतिप्रतिपक्षत्वा
-
८८
पत्तेः । अथ मतम् एतत् — परंपरया प्रवृत्तिर् अपिशांतिहेतुर् उपपद्यत एव
यथा देवताराधनादिप्रवृत्तिर् इति । तद् अप्य् असंभाव्यं, वेदविहि
-
तहिंसादिप्रवृत्तेः, परंपरया शांतिहेतुत्वानुपपत्तेः । नच शान्त्य
-
र्थिनः शांतिप्रतिकूलेषु हिंसादिषु वर्तमानाःप्रेक्षापूर्वकारिणः
०५
स्युर् मदाभावाय मद्यपाने प्रवर्त्तमानजनवत् । सत्पात्रदानदेवतार्च
-
नादिषु स्वयम् अनभिसंधितसूक्ष्मप्राणिवधादिप्रवृत्तिस् तुपरंपरया
शांतिहेतुर् उपपद्यत एवदर्शनविशुद्धिपरिग्रहपरित्यागप्रधानतया
तस्याः समवस्थितत्वाद् अन्यथा तदभावविरोधात् । इतिसूक्त
-
म् एतत् प्रवृत्तितः शांतिर् इति वचनं महातमोविजृम्भितंपरेषा
-
१०
म् इति ततस् तवैव मतं सुप्रभातंसकलतमोनिरसनपटीयस्त्वा
-
द् इति सिद्धम् ।
साम्प्रतं मतान्तरं निराचिकीर्षवः प्राहुः —
शीर्षोपहारादिभिर् आत्मदुःखै
-
र् देवान् किलाराध्य सुखाभिगृद्धाः ।
१५
सिद्ध्यन्ति दोषापचयानपेक्षा
युक्तं च तेषां त्वम् ऋषिर् न येषाम् ॥
३९
॥
टीका —
शीर्षोपहारः स्वशिरोवलिश् छागादिशिरोवलिर् वा । स
आदिर् येषां गुग्गुलधारणमकरभोजनभृगुपतनप्रकाराणांते शी
-
र्षोपहारादयस् तैर् आत्मदुःखैर् जीवदुःखनिमित्तैर् देवान्यक्षमहेश्वरादी
-
२०
न् आराध्य सिध्यन्ति दोषापचयानपेक्षा दोषापचयमनपेक्षमाणाः
सुखाभिगृद्धाः कामसुखादिलोलुपाः किलेति सूरयः प्रमा
-
८९
णानुपपन्नत्वेन रुचिं प्रकाशयन्ति । केषां पुनरिदं युक्तम् इत्य् अभि
-
धीयते — "युक्तं च तेषां त्वम् ऋषिर् न येषाम्" इति । येषां नत्व
-
म् ऋषिर् गुरुर् वीतदोषः सर्वज्ञस्वामी न भवसि तेषाम् एवमिथ्यादृशां
युक्तं उपपन्नम् एवैतत् प्ररूढं तमो न पुनर् येषां त्वंगुरुः शुद्धि
-
०५
शक्त्योः परां काष्ठाम् अधितिष्ठन्न् अभिमतो ऽसि तेषांसभ्यग्दृष्टी
-
नां हिंसादिविरतिचेतसां दयादम् अत्यागसमाधिनिष्ठंत्वदीयं म
-
तम् अद्वीतीयं प्रतिपद्यमानानांनयप्रमाणविनिश्चितपरमार्थयथाव
-
तारिजीवादितत्त्वार्थप्रतिपत्तिकुशलमनसां प्रमादतोऽशक्तितो वा ।
क्वचित् प्रवृत्तिम् आचरताम् अपि तेषांतत्राभिनिवेशपाशानवकाशात् ।
१०
तद् इत्थं समंतदोषं मतम् अन्यदीयं संक्षेपतो दर्शितम् । विस्तर
-
तो देवागमे तस्य समन्तभद्रस्वामिभिः प्रतिपादनात्"भावैका
-
न्ते पदार्थाना" मित्यादिना । तत एव त्वदीयं मतमद्वितीयम् इति
च समासतो व्यवस्थितं । व्यासतो देवागमे एव तस्य त
-
था व्यवस्थापितत्वात्, "कथञ्चित् ते सदेवेष्टं कथंचिदसद् एव
१५
तद्" इत्यादिना तथैव स्वामिभिर् अभिधानात् ।
स्तोत्रे युक्त्यनुशासने जिनपतेर् वीरस्य निःशेषतः
संप्राप्तस्य विशुद्धिशक्तिपदवीं काष्ठां परामाश्रिताम् ।
निर्णीतं मतम् अद्वितीयम् अमलं संक्षेपतो ऽपाकृतं
तद् वाह्यं वितथं मतं च सकलं सद्धीधनैर् बुध्यताम् ॥
२०
इति युक्त्यनुशासने परमेष्ठिस्तोत्रे प्रथमः प्रस्तावः ।
९०
अथ भेदाभेदात्मकं सामान्यविशेषात्मकमर्थतत्त्वं मदीयं
मतम् अद्वितीयं नयप्रमाणप्रकृतांजसार्थत्वाद् अस्तु नामकेवलं सामा
-
न्यनिष्ठाः विशेषाः स्युर् विशेषनिष्ठं वा सामान्यं स्यादुभयं वा
परस्परनिष्ठम् इति भगवत्पर्यनुयोगे सूरयः प्राहुः —
०५
"सामान्यनिष्ठा विविधा विशेषाः" इति सामान्यं
द्विविधम् ऊर्ध्वतासामान्यं तिर्यक्सामान्यं चेति । तत्रोर्ध्वतासामान्यं
क्रमभाविषु पर्यायेष्व् एकत्वान्वयप्रत्यग्राह्यं द्रव्यं । तिर्यक्सामान्यं
नानाद्रव्येषु पर्यायेषु च सादृश्यप्रत्ययग्राह्यंसदृशपरिणामरूपं ।
तत्र सामान्ये निष्ठा परिसमाप्तिर् येषां ते सामान्यनिष्ठाः । के ते ?
१०
विशेषाः पर्यायाः । किं प्रकाराः ? विविधाः केचित् क्रमभुवः
केचित् सहभुव एकद्रव्यवृत्तयः । तत्र क्रमभुवःपरिस्पंदरूपा
उत्क्षेपणादयः, अपरिस्पंदात्मकाः साधारणाः साधारणासाधा
-
रणाश् च असाधारणाश् चेति त्रिविधाः । साधारणधर्माःसत्त्वप्रमे
-
यत्वादयः, साधारणासाधारणाः द्रव्यत्वजीवत्वादयः, असाधा
-
१५
रणाः प्रतिद्रव्यं प्रभिद्यमानाः प्रतिनियता अर्थपर्यायाइति
विविधप्रकारा विशेषा एकद्रव्यनिष्ठत्वादूर्ध्वतासामान्यनिष्ठा
-
स् तद्व्यतिरेकेणासंभाव्यमानत्वात् । नन्व् एवं विधंविशेषनिष्ठं सा
-
मान्यं कस्मान् न स्याद् इति चेत्, न, कस्यचिद् विशेषस्यापायेऽपि
सामान्यस्य विशेषान्तरेषूपलब्धेःसर्वविशेषनिष्ठत्वविरोधात् ।
२०
कतिपयविशेषनिष्ठत्वे तु सामान्यस्य तदन्यविशेषाणां निः
-
सामान्यत्वप्रसंगात् । विनष्टानुत्पन्नविशेषनिष्ठत्वेसामान्यस्य वि
-
नाशानुत्पादप्रसंगो व्याहतः प्रसज्येत । विशेषाणां विनाशेऽपि
९१
सामान्यस्याविनाशेनागतत्वे ऽपि वर्त्तमानत्वे चविरुद्धधर्माध्या
-
सात् भेदप्रसंगान् न विशेषनिष्ठत्वं सामान्यस्यप्रसज्येतातिप्र
-
संगात् । विशेषेषु व्यक्तिरूपेषु द्रव्यगुणकर्मसु सामान्यस्यसम
-
वायाद् विशेषनिष्ठं सामान्यम् इति चेत् न, तस्यतिर्यक्सामान्यरूप
-
०५
त्वात्, न चैतद् अपि विशेषनिष्ठं द्रव्यत्वस्यसकलद्रव्यव्यक्तिनिष्ठत्वे
कार्यद्रव्यव्यक्तिविनाशप्रसंगात्कतिपयद्रव्यव्यक्तिनिष्ठत्वे द्रव्य
-
व्यक्त्यंतराणां निःसामान्यत्वप्रसंगस्य तदवस्थत्वात् । नित्य
-
सर्वगतत्वात् सामान्यस्यायमदोष इति चेत्, न, सर्वव्यक्तीनां
नित्यत्वप्रसंगात् तत्र नित्यसामान्यस्य निष्ठनात् । यदिपुन
-
१०
र् व्यापकं सामान्यं
(
व्यक्तीनां
)
व्याप्यास् तु व्यक्तयस् ततोव्याप्या
-
भावे ऽपि व्यापकस्य सद्भावाविरोधात् सत्य् अपि नित्ये सामान्ये
व्यक्तीनाम् अभावाविरोधान् न नित्यतापत्तिर् इति मतम् तदा
सामान्यनिष्ठा एव विशेषाः स्युर् अवस्थिते सामान्ये विशेषाणामु
-
त्पादाद् विनाशाच् चेति सिद्धाः सामान्यनिष्ठा विविधा विशेषाः,
१५
न पुनर्विशेषनिष्ठं सामान्यं । एतेन परस्परनिष्ठमुभयम् इत्य् अपि
पक्षः प्रतिक्षिप्तः ।
यदि सामान्यनिष्ठा विशेषास् तदा पदं किं विशेषं नयते
सामान्यं वा तद् उभयं वाऽनुभयं वेति शंकायाम् इदमभिधीयते
सूरिभिः — "पदं विशेषान्तरपक्षपाति" विशेषं नयत इति
२०
विशेषो द्रव्यगुणकर्मभेदात् त्रिविधः । तत्र द्नव्येप्रवर्त्तमानं
पदं द्रव्यद्वारेण विशेषांतरं गुणं कर्म वा स्वीकरोतीतिविशे
-
षान्तरपक्षपाति, पक्षपातो हि स्वीकारः परिग्रहः सोऽस्यास्तीति
९२
पक्षपाति विशेषांतरे पक्षपाति विशेषान्तरपक्षपाति । यथा दंडी
-
तिपदं संयोगिद्रव्यद्वारेण द्रव्ये देवदत्तादौप्रवर्तमानं गुणम् अपि
दंडपुरुषसंयोगलक्षणं परिगृह्णाति, कर्म च दंडगतंपुरुषगतं च
परिस्पन्दलक्षणं विशेषान्तरं स्वीकरोतीति । तदस्वीकारणेदं
-
०५
डीतिपदस्य द्रव्ये प्रवृत्तिविरोधात् । तथा विषाणीति पदंसमवा
-
यिद्रव्यविषयं समवायिविषाणिद्वारेण, गवादिसमवायिनिप्रव
-
र्तमानत्वात् । तत्र च विषाणिद्रव्ये प्रवर्त्तमानंतद्गुणमपि विशे
-
षांतरं धवलादि गृह्णात्य् एव, क्रियां च विशेषांतरंगवादिगतं
विषाणगतं वा स्वीकारोत्य् एवेति विशेषांतरपक्षपातीत्य् उच्यते ।
१०
तथा शुक्ल इति पदं, गुणद्वारेण द्रव्ये प्रवर्त्तमानंगुणविषयतां
स्वीकुर्वत् तदन्वयद्रव्यं विशेषांतरं परिगृह्णातीतिविशेषान्तरपक्ष
-
पाति । तता चरतीति पदं क्रियाद्वारेण द्रव्येप्रवर्त्तमानं क्रि
-
याविषयतां प्रतिपद्यमानम् अपि विशेषांतरंतदाधारद्रव्यं तदेका
-
र्थसमवायि कर्म च स्वीकरोतीति विशेषांतरपक्षपातिसिद्धं,
१५
विशेषं नयत इति द्रव्यं गुणं कर्म च नयते प्रापयतीत्यर्थः ।
चतुर्विधं हि पदं नामाख्यातनिपातोपसर्गभेदात् केचि
-
द् अमंसत । कर्मप्रवचनीयं च पदम् इतिपचं
[? पंच]
विधम् अन्ये । तत्र नाम
पदं किंचिद् द्रव्यमभिधत्ते गुणं वा, तद्वन्निपातपदं । आख्या
-
तपदं तु क्रियम् अभिदधाति तथा चोपसर्गपदं तस्यक्रियो
-
२०
द्योतकत्वात् । कर्मप्रवचनीयपदं तु पारिभाषिकं कर्मेतिसं
-
प्रतिपद्यते । तद् एवं सुप्तिङन्तविकल्पाद् विविधम् अपिपदं चातुर्विध्यं
पांचविध्यं वा समास्कन्दद्विशेषांतरवृत्तिसद्विशेषं नयतेसमान
-
९३
भावं समानत्वम् इति । नयतेर् द्विकर्मकत्वादभिसबंधः कर्त्तव्यस् तद् अ
-
नेन प्रधानभावेन द्रव्यादिव्यक्तिरूपं विशेषं गुणीभूतंसामान्यं
पदं प्रतिपादयतीत्य् अभिहितम् । अन्यत्पदं जातिविषयंसमानभावं
सामान्यं विशेषं नयते यथा गौर् इति पदंगोत्वजातिद्वारेण
०५
द्रव्ये प्रवर्त्तमानं जातिपदं स्वाश्रयभूतद्रव्यविशेषमपि सामान्य
-
रूपं प्रापयति तथा गुणत्वजातिपदं गुणत्वजातिद्वारेणगुणे
वर्त्तमानं गुणम् अपि स्वाश्रयं विशेषं जातिरूपतां नयते । तथा
कर्मत्वजातिपदं कर्मत्वजातिद्वारेण कर्मणि प्रवर्तमानंकर्मापि
स्वाधिकरणं विशेषं समानभावं नयते । कुत इत्य् उच्यते, "अ
-
१०
न्तर्विशेषान्तरवृत्तितः" इति अन्तर्गतं विशेषांतरम् अस्येत्यंतर्वि
-
शेषान्तरः समानभावः समानपरिणामस् तत्र वृत्तेःप्रवर्त्तना
-
त् पदस्येत्य् अर्थवशाद् विभक्तिपरिणामः । तद् एतेनप्रधानभूतसामा
-
न्यं गुणीभूतं विशेषं पदं प्रकाशयतीति निगदितं । ततोनिर्वि
-
शेषम् एव पद न नयते सामान्यं निरपेक्षं तस्यासंभावात्खर
-
१५
विषाणवद् इति न व्यक्तिवादे पदार्थः सगच्छते तत्रतस्यास
-
त्यत्वप्रसंगात् । नाऽपि सामान्यं केवलं विशेषनिरपेक्षंपदं
प्रकाशयति तस्याऽप्य् असंभवात् कूर्मरोगादिवद् इति । नजातिर् वा
व्यक्तिर् वाऽस्य पदार्थः समवतिष्ठते तस्यापि तन्मात्रेप्रवर्त्तमान
-
स्यासत्यतापत्तेः । न च परस्परानिरपेक्षम् उभयंपदार्थस् तस्या
-
२०
प्य् अप्रतीयमानत्वात् वंध्यापुत्रादिवत् । तत्रप्रवर्त्तमानस्य पद
-
स्यायथार्थत्वप्रसक्तेः । न चाप्य् अनुभयं पदम् आवेदयतितस्याप्य् अन्य
-
था वृत्तिमात्रस्यावस्तुभूतस्य प्रतिपादने पदात्प्रवृत्तिविरोधात् ।
९४
जात्यन्तरं तु सामान्यविशेषात्मकं वस्तुप्रधानगुणभावेन पदं
प्रकाशयत् यथार्थतां नातिक्रामति प्रतिपत्तुःप्रवृत्तिप्राप्तिघटनात्
प्रत्यक्षादिप्रमाणाद् इवेति देवागमपद्यवार्तिकालंकारेनिरूपि
-
तप्रायम् । तद्यथा —
०५
सामान्यनिष्ठा विविधा विशेषाः
पदं विशेषांतरपक्षपाति ।
अन्तर्विशेषान्तरवृत्तितो ऽन्य
-
त् समानभावं नयते विशेषम् ॥
४०
॥
इति वृत्तं खंडशो व्याख्यातम् ।
१०
अथवा पदं किंचिद् विशेषं संकेतकालवर्तिनंसमानभावं
नयते कुतो यस्माद् विशेषान्तरपक्षपाति, संकेतकालवर्तिनोवि
-
शेषाद् अव्यवहारकालवर्तिविशेषो ऽन्यो विशेषांतरंतत्पक्षपाति
-
त्वाद् इत्य् अर्थः । अन्यत्पदं समानभावम् अपि विशेषं नयतेकस्मा
-
द् अन्तर्विशेषान्तरवृत्तितः, विशेषान्तराणाम् अन्तःअन्तर्विशेषा
-
१५
न्तरं । अंतःशब्दस्य पूर्वनिपातो "अन्तरादेष्ठण्" इतिज्ञापका
-
द् अन्तर्मुहूर्त्तवत् । अन्तर्विशेषान्तरे वृत्तिरन्तर्विशेषान्तरवृत्तिस् ततो
विशेषान्तराणां संकेतसमयवर्त्तिसामान्यविशेषणविशेषेभ्योऽ
-
न्येषां विशेषाणाम् अन्तर्वृत्तित्त्वाद् विशेषान्तराद्व्
[? ब्]
अहिर्भावाद् इत्य् अर्थः ।
कुतः ? पुनः किंचित् पदं विशेषे द्रव्यादौ प्रवर्त्तमानंतं विशेषं
२०
सामान्यरूपतां नयते परन्तु सामान्ये प्रवर्त्तमानंद्रव्यत्वादौ
सामान्यम् अपि विशेषरूपतां प्रापयतीति चेत्, यतः सामान्य
-
९५
निष्ठा विविधा विशेषा इत्य् उपपत्तिर् अभिहिता यस्मात्सामान्ये
निष्ठा विशेषाणां तस्मात् पदं विशेषं सामान्यरूपतां नयतेय
-
स्माच् च सामान्यम् अपि पदं विशेषं नयत इत्य् अर्थः ।
किं पुनस् तत्पदं व्
[? ब्]
अहिर्भूतं वर्णात्मकमन्तर्भूतं वा चिदात्म
-
०५
किम् इति शंकायां पदस्य विशेषणम् अन्तर् इति । तेनैवंव्याख्या
-
यते — यद् अन्तःपदं ज्ञानात्मकं तद् अन्यद् एववर्णात्मकपदात् विशे
-
षांतरवृत्तितो विशेषान्तरपक्षपाति सद्विशेषं समानभावंनयते
न पुनर् वर्णसमूहलक्षणं वर्णानाम् उत्पन्नापवर्गित्वात्समूहानुपपत्तेः
पदस्यैवासंभवात् । वर्णनित्यतायाम् अपि तदभिव्यक्तेरनित्यत्वाद् अ
-
१०
भिव्यक्तवर्णसमूहात्मकं पदं न संभावयितुं शक्यं, गौर् इति पदे
गकाराभिव्यक्तिकाले तदवयवभूतयोर् औकारविसर्गयोरभिव्य
-
क्त्यभावात् तदभिव्यक्तिकाले च गकाराभिव्यक्तेर् विनाशात् । न
चाभिव्यक्तान् अभिव्यक्तवर्णानां समूहः संभवति । यदिपुनः क्रमे
-
णोत्पन्नानाम् अभिव्यक्तानां वा बुद्धौ विपरिवर्तमानानांक्रमविशे
-
१५
षात्मकः समूहः पदम् इत्य् अभिधीयते तदाऽप्येकवर्णबुद्धिकाले
वर्णान्तरबुद्धेर् अनुत्पत्तेर् उत्तरवर्णबुद्धेर् उत्पत्तिकालेच पूर्ववर्णबुद्धेः
प्रध्वंसान्नेकबुद्धौ वर्णानां नानात्मनां विपरिवर्त्तनंसंभवति । न
चैका बुद्धिर् नानाक्रंमवर्त्त्यैकवर्णकालव्यापिनीसंभवति तस्याः
कालान्तरस्थायित्वासंभवात् । बुद्धिजनितसंस्कारःकालान्तर
-
२०
स्थायीति चेत्, न, नानावर्णविज्ञानजनितसंस्काराणां क्रम
-
भुवां वर्णस्मरणजनयताम् असत्कल्पत्वात्, जनयतां तु नयुगपत्
स्मरणं संभवति, क्रमतो वर्णस्मरणसंभवे ऽपिनैकवर्णस्मरणका
-
९६
ले वर्णान्तरस्मरणम् अस्ति विरोधात् कुतःस्मर्यमाणानाम् अपि
वर्णानां समूहः, तत एव पदस्फोटःपदार्थप्रतिपत्तिनिमित्तं,
वर्णानां प्रत्येकम् अर्थप्रतिपत्तिनिमित्तत्वेवर्णान्तरवैयर्थ्यप्रसंगात् स
-
मूहस्यासंभवात् तद्बुद्धिस्मरणसमूहवद् इत्य् अपरे । तेषामपि पद
-
०५
स्फोटो नित्यो निरंशः सर्वगतो ऽमूर्तः किम् अनभिव्यक्तएवार्थप्रति
-
पत्तिहेतुर् अभिव्यक्तो वा ? प्रथमपक्षेवर्णोच्चारणानर्थक्यं सर्व
-
दा सर्वत्र सर्वथाऽप्रतिहतार्थप्रतिपत्तिः प्रसज्येत ? कदाचित् क्व
-
चित् कथंचिद् असंभवाभावात् । द्वितीयपक्षे तु पदस्फोटोऽभिव्य
-
ज्यमानः प्रत्येकं वर्णेनाभिव्यज्यते वर्णसमूहेन वा ? यदि प्रत्येकं
१०
वर्णेनाभिव्यज्यते तदैकवर्णेन सर्वात्मनांतस्याभिव्यक्तत्वात्
सर्वत्र सर्वथा वर्णान्तरोच्चारणवैयर्थ्यं कथंविनिवार्येत ? ।
पदार्थान्तरप्रतिपत्तिव्यवच्छेदार्थत्वाद्वर्णान्तरोच्चारणस्य न वै
-
यर्थ्यम् इति चेत् न, वर्णान्तरोच्चारणाद् अपिपदार्थान्तरप्रति
-
पत्तेर् एवानुषंगात्, यथा हि गौर् इति पदस्यार्थोगकारोच्चारणा
-
१५
त् प्रतीयेत तथौकारोच्चारणदौशनस इति पदस्यार्थःप्रतिपद्येता
-
द्येन गकारेण गौर् इति पदस्येव प्रथममौकारेणौशनसैति
पदस्य स्फोटस्याभिव्यक्तेः । तथा च गौर् इति पदाद् एवगौर् औ
-
शनस इति वाक्यार्थप्रतिपत्तिः प्रसज्येत, संशयो वा स्यात् ।
किम् एकपदस्फोटाभिव्यक्तये, गकाराद्यनेकवर्णोच्चारणंपदां
-
२०
तरस्फोटव्यवच्छेदेन, किंवाऽनेकपदस्फोटाभिव्यक्तयेगका
-
राद्यनेकवर्णोच्चारणम् इति ततो नैकेनैव वर्णेनपदस्फोटस्य स
-
र्वात्मनाऽभिव्यक्तिर् घटते । नाऽप्य् एकदेशेनसांशत्वप्रसंगात्,
९७
सांशस्य च स्वांशेभ्यो ऽनर्थान्तरत्वेनानात्वप्रसंगो नाना
-
वयवेभ्योनर्थान्तरस्यैकत्वविरोधात् । एकस्मादनर्थान्तरभूतानां
नानावयवानां नानात्वविरोधवत् । स्वांशेभ्यो ऽर्थान्तरत्वे
तस्यानभिव्यक्तिप्रसक्तिस् ततो भिन्नानाम् एवांशानांनानावर्णैर् अ
-
०५
भिव्यक्तित्वात् । यदि पुनर्नानावर्णाभिव्यक्तैःपटस्फोटस्यां
-
शैर् अभिव्यक्तिर् अभिधीयतेतदैकवर्णाभिव्यक्तपदस्फोटावयवेन
सर्वात्मना पदस्फोटस्याभिव्यक्तौवर्णान्तराभिव्यक्ततदवयव
-
वैयर्थ्यम् आसज्येत, तस्यैकदेशेनाऽभिव्यक्तौनानावयवत्वम् अवयवा
-
न्तरैर् इति, तेभ्यो ऽपितस्यानर्थान्तरत्वार्थान्तरत्वविकल्पयोस् तद् ए
-
१०
व दूषणम् अनवस्था च दुर्निवारा स्यात् । यदि वर्णसमूहेनपद
-
स्फोटो ऽभिव्यज्यत इति मतं, तदापि क्षणप्रध्वंसिनांवर्णानां
कथं समूहः सिद्ध्येत् यो ऽभिव्यंजकः स्यात्, नित्यानाम् अपि
वर्णानाम् अनभिव्यक्तानां समूहो न व्यंजकःसर्वदाभिव्यक्ति
-
प्रसंगात् । अभिव्यक्तानां तु समूहो न संभवत्य् एवतदेकवर्णाभि
-
१५
व्यक्तिसमये वर्णान्तराभिव्यक्त्ययोगात्, व्यक्ताव्यक्तात्मकानां
तु वर्णानां समूहो न पदस्फोटस्याभिव्यंजकः स्यात् तदु
-
भयदोषानुषंगात् ।
स्यान् मतं, पूर्वपूर्ववर्णश्रवणज्ञानाहितसंस्कारस्यात्मनोऽ
-
न्त्यवर्णश्रवणज्ञानानंतरं पदस्फोटस्याभिव्यक्तेःपदार्थप्रतिपत्ति
-
२०
र् इति । तद् अप्य् असत् । तथैव पदार्थप्रतिपत्तिसिद्धेःस्फोटपरिकल्प
-
नानर्थक्यात् । चिदात्मव्यतिर् एकेण तत्त्वांतरस्यस्फोटस्यार्थप्रका
-
शनसामर्थ्यानुपपत्तेः । स एव चिदात्मा विशिष्टशक्तिः स्फो
-
९८
टो ऽस्तु "स्फोटति प्रकटीभवत्यर्थो ऽस्मिन्न् इतिस्फोट" श् चिदात्मा,
पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टःपदस्फोटो, वा
-
क्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टो वाक्यस्फोटैति
प्रकरणाह्निकाध्यायशास्त्रमहाशास्त्रादिरंगप्रविष्टांगवाह्यविकल्पः
०५
स्फोटः प्रसिद्धो भवति, भावश्रुतज्ञानपरिणतस्यात्मनस्तथाभि
-
धानाविरोधात् । न हि निरतिशयनित्यैकान्तस्वभावो ऽयमात्मा
नानार्थग्रहणपरिणामविरोधान्निरन्वयविनश्वरक्षणिकचित्तवत्
क्रमयौगपद्यविरोधात् । नापिसातिशयनित्यैकान्तस्वभावोत्य
-
न्तार्थान्तरभूतैर् अतिशयैः संबंधानुपपत्तेः । ज्ञानादिपरिणामानाम् आ
-
१०
त्मनि समवायसंबंध इति चेत् न, तस्यकथंचित्तादात्म्यव्यतिर् एके
-
ण पदार्थान्तरस्यासंभवात् । परिणामिन् अस्तु प्रमाणबलादेव स्थित
-
स्यात्मनो नानार्थग्रहणपरिणामोपपत्तेर् अन्तःस्वरूपं पदंचिदात्म
-
कम् इति व्यवतिष्ठते । तस्मिन् सति वक्तुःक्रमविशेषविशिष्टवर्ण
-
समूहलक्षणं वाह्यं पदं श्रोत्रज्ञानविषयभावमापद्यमानम् अनुमन्या
-
१५
महे तस्यैवश्रोत्रिजनपदार्थज्ञानजनननिबंधनत्वनिर्णयात् । तत
-
स् तद् एव विशेषं समानभावं नयतेविशेषांतरपक्षपातित्वात् सा
-
मान्यं च विशेषं नयते विशेषान्तरवृत्तेः स्वयं सामान्यनिष्ठवि
-
विधविशेषविषयीकरणसमर्थत्वात् ।
एतेनांतरंगं वाक्यं प्रकरणमान्हिकम् अध्यायः शास्त्रादि
२०
भावश्रुतविशेषं विविधं समानभावं नयते, सामान्यं वानैकप्रकारं
विशेषं नयत इति प्रतिपत्तव्यम् ।
९९
अथाऽस्ति जीव इत्य् अत्राऽस्त्य् एव जीव इत्यवधार्यते वा
न वेति प्रथमकल्पनायां दूषणम् आवेदयंति सूरयः —
यद् एव कारोपहितं पदं त
-
द् अस्वार्थतः स्वार्थम् अवच्छिनत्ति ।
०५
पर्यायसामान्यविशेषसर्वं,
पदार्थहानिश् च विरोधिवत् स्यात् ॥
४१
॥
टीका —
एव कारेणावधारणार्थेन निपातेनोपहितं विशिष्टं
यत् पदं तत् स्वार्थम् अस्वार्थाद् व्यवच्छिनत्ति यथा तथास्वार्थप
-
र्यायान् व्यवच्छिनत्त्य् एव । तद्यथा — जीव एवेति पदस्यजीवत्वं
१०
स्वार्थस् तद्विरोधी चास्वार्थः स्याद् अजीवत्वं तच् चयथैव जीवत्वं
व्यवच्छिनत्ति तथा जीवपर्यायान् अपि सुरवज्ञानादीन् व्यव
-
च्छिनत्त्य् एवान्यथा सुखादिपदोपन्यासवैयर्थ्यात्जीवपदेनैव
तेषां विषयीकृतत्वात्, तथा चाहं सुखीत्य् आदिप्रयोगो न
भवेत् । सामान्यम् अपि द्रव्यत्वचेतनत्वादि सर्वंव्यवच्छिंद्यात्
१५
अन्यथा द्रव्यमहं चेतनो ऽहम् इति प्रयोगो विरुध्यतेजीवपदे
-
नैव द्रव्यत्वादेर् अभिधानात् । तथा विशेषान् अप्यर्थपर्यायान् अनंतान
-
भिधानाविषयान् व्यवच्छिंद्याद् अन्यथातद्विषयीकरणप्रसंगात् ।
तथा च पर्यायाणां क्रमभुवां धर्माणां सामान्यानां चसहभुवां
विशेषाणां चानभिधेयानां व्यवच्छेदे पदार्थस्यजीवपदाभिधे
-
२०
यस्य जीवत्वस्याऽपि हानिः स्यात् तद्विरोध्यजीवत्ववत्
(
तेषामभावे
प्य् अजीवत्ववत्
)
तेषाम् अभावे तदसंभवात् । प्रतियोगिनम् एवाजीवपदं
१००
व्यवच्छिनत्ति न पुनर् अप्रतियोगिनस्तत्पर्यायसामान्य विशेषान्
तेषाम् अप्रस्तुतत्वाद् इति चेत्, नैवंस्याद्वादानुप्रवेशप्रसंगात् ।
तर्हि द्वितीयकल्पनास् तु सर्वं पदम् अनेवकारम् इतिवदंतं प्रत्याहुः —
अनुक्ततुल्यं यद् अनेवकारं
०५
व्यावृत्त्यभावान् नियमद्वये ऽपि ।
पर्यायभावे ऽन्यतराप्रयोग
-
स् तत् सर्वम् अन्यच्युतम् आत्महीनम् ॥
४२
॥
टीका —
अस्ति जीव इत्य् अत्रास्तीति यत् पदम् अनेवकारं तद
-
नुक्ततुल्यं नास्तित्वव्यवच्छेदाभावान्नास्तित्वस्याप्रतिपादनात् ।
१०
तथा जीव इति पदम् अनेवकारम् अजीवत्वस्यापि तेनाकथनात् । निय
-
मद्वये ऽपि व्यावृत्त्यभावात् । अस्त्य् एवेति पूर्वावधारणं, जीव एवे
-
त्य् उत्तरावधारणं नियमद्वयं । तस्मिन्न् इष्ठे ऽप्येवकाराभावे व्यावृ
-
त्त्यभावात् प्रतिपक्षनिवृत्त्यसंभवाद् इत्य् अर्थः । तथाचास्तिनास्ति
-
पदयोर् जीवाजीवपदयोश् च पर्यायभावः स्याद्धटकुटशब्दवत् अस्ती
-
१५
ति पदेन नास्तित्वस्यापि प्रतिपादनान् नास्तीति पदेनचास्तित्व
-
स्यापि प्रतिपादनात् । तथा जीवपदेनाजीवार्थस्यापि वचनात्, अ
-
जीवपदेनापि जीवार्थस्यापीति, पर्यायभावे चपरस्परप्रतियोगिप
-
दयोर् अपि सकलजनस्यान्यतराप्रयोगः स्यात् घटकुटपदवदेव, तद
-
न्यतराप्रयोगे च सर्वम् अभिधेयं वस्तुजातम् अन्येनप्रतियोगिना च्युतं
२०
त्यक्तं स्याद् अस्तित्वं नास्तित्वरहितं भवेद् इतिसत्ताद्वैतम् आपद्येत ।
नास्तित्वाभावे च सत्ताद्वैतम् आत्महीनं प्रसज्येत, पररूपापोहना
-
१०१
भावे स्वरूपोपादानानुपपत्तेः कुटस्याकुटापोहनाभावेस्वात्मोपा
-
दानासंभवात् । नास्तित्वस्य चास्तित्वच्युतौ शून्यवादानुषंगः ।
न चाभावो भावम् अन्तरेण संभवतीति शून्यम् अप्य् आत्महीनमेव स्यात्,
शून्यस्य स्वरूपेणाऽप्य् अभावे पररूपापोहनासंभवात् पटस्य
०५
स्वरूपोपादानाभावे शश्वदपटरूपापोहनासंभवात्, स्वपररूपोपा
-
दानापोहनव्यवस्थापाद्यत्वाद् वस्तुनो वस्तुत्वस्य । नन्व् एवंवस्तुनो ऽ
-
प्य् अवस्तु
[? व]
पोहनेन भवितव्यं वस्तुत्वोपादानवत् तथाचावस्तु किं
-
चिद् अभ्युपगन्तव्यम् इति चेत्, न वस्तुन एवपरद्रव्यक्षेत्रकाल
-
भावचतुष्टयापेक्षायाम् अवस्तुत्वसिद्धेःसकलस्वरूपशून्यस्यावस्तु
-
१०
नो ऽप्य् असंभवात् ।
तथा चोक्तम् —
वस्
[? त्]
व् एवावस्तुतां याति प्रक्रियाया विपर्ययाद् इति
ततो न किंचिद् वस्तुप्रतिपक्षभूतावस्तुवर्जितम् आत्मानंलभते यतः
सर्वम् अन्यच्युतम् आत्महीनं भवेत् । सुदूरम् अप्य् अनुसृत्यकस्यचिद् इष्टस्य
१५
तत्त्वस्यात्महीनत्वम् अनभ्युपगच्छतान्यहीनत्वंनानुमन्तव्यं । तद् अ
-
प्य् अननुमन्यमानेन नान्यतराप्रयोगो ऽनुमन्तव्यः, तंचाननुग
-
च्छता न पर्यायभावः प्रत्येयस् तम् अप्रतीयता नियमद्वयेऽपि व्यावृत्य
-
भावो नाभ्यनुज्ञातव्यः । तम् अप्य् अनभ्यनुजानतानानेवकारं पद
-
म् अंगीकर्त्तव्यम् इति सर्वं पदम् एवकारोपहितम् एववक्तव्यं तत्र चोक्तो
२०
दोषः । नन्व् एवकारप्रयोगाभावे ऽपि प्रतिपत्तुरर्थप्रकरणलिंगश
-
ब्दांतरसन्निधिसामर्थ्यात् सामान्यवाचिनाम् अपि विशेषे स्थितिर्भ
-
विष्यतीति तथैव व्यवहारस्य प्रवृत्तेः ।
१०२
तदुक्तम् —
अर्थः प्रकरणं लिंगं शब्दस्यान्यस्य सन्निधिः ।
सामान्यवाचिशब्दानां विशेषे स्थितिहेतवः ॥ इति ॥
तद् अप्य् अनालोचिताभिधानं । अर्थप्रकरणादिभिर् अपियद्य् एवका
-
०५
रार्थे विशेषे स्थितिः क्रियतेतदैवकारोपहितपदप्रयोगपक्षभा
-
विदूषणगणः परिहर्तुम् अशक्यः । अथ ततो ऽन्यत्र विशेषेस्थि
-
तिहेतवो ऽर्थप्रकरणादयस् तदाऽनेवकारपदप्रयोग एवसमर्थितः
स्यात् । तत्र चोक्तो दोषः ।
स्यान् मतं — क्वचिद् एवकारोपहितं पदं क्वचिद् अनेवकारंयथा
१०
पूर्वावधारणे पूर्वं पदम् एवकारोपहितम् उत्तरमनेवकारं, उत्तरावधा
-
रणे पुनर् उत्तरं पदम् एवकारोपलक्षितं पूर्वम् अनेवकारमिति । तद् अप्य् अ
-
सत् पक्षद्वयाक्षिप्तदोषनुषंगात् । यदि पुनर् अस्तीति पदेना
-
भिधेयम् अस्तित्वम् अनेवकारेणापि नान्येनतत्प्रतिपक्षभूतेन नास्ति
-
त्वेन च्युतं भवति, तस्य तदभेदित्वात्, सत्त्वाद्वैतवादिनो ऽ
-
१५
स्तित्वव्यतिरेकेण नास्तित्वासंभवादन्यत्रानाद्यविद्योपप्लवात् ।
तत् सर्वथा शून्यवादिनो नास्तित्वव्यतिरेकेणास्तित्वे च
वर्त्तनेनात्महीनं प्रसंजनयितुं शक्यम् इति मतं तदापिदूषण
-
म् आहुः स्वामिनः —
विरोधि चाभेद्यविशेषभावात्
इति ।
२०
नास्तित्वम् अस्तित्वात् सर्वथाप्य् अभेदि येनाभिधीयते तस्य
तद्विरोधस्य भेदवद् भवेत् सत्ताद्वैतेऽभिधानाभिधेययोर् विरोधात् ।
कस्माद् ? अविशेषभावाद् अविशेषत्वात् सकलविशेषाणाम् अभावा
-
१०३
द् इत्य् अर्थः । अनाद्यविद्यावशाद् विशेषसद्भावाददोष इति चेत्, न,
विद्याविद्याविशेषयोर् अप्य् अयोगात्, अन्यथा द्वैतप्रसंगात् । अथवा
नास्तित्वम् अस्तित्वाद् अभेदीति विरोधि च स्यान् न केवलमात्महीनम् इ
-
ति चशब्दार्थः । कस्मात् ? अविशेषभावाद्विशेषस्यभेदस्यास्तित्व
-
०५
नास्तित्वयोरभावात् । यो हि ब्रूयादिदमस्मादभेदीति तेनतयोः
कथंचिद्भेदोऽभ्युपगतः स्यादन्यथा तद्वचनायोगात्, कथंचिदपि
भेदिनोरभावे तत्प्रतिषेधविरोधात् । अथशब्दाद्विकल्पभेदाद्भे
-
दिनोः स्वरूपभेदः प्रतिषिध्यते तदापिशब्दयोर्विकल्पयोश्च भेदं
स्वयमनिच्छन्नेव संज्ञिनो भेदं कथमपाकुर्वीत ? पराभ्युपगमादेव
१०
शब्दविकल्पभेदस्येष्टेर्न दोष इति चेत्, न, स्वपरभेदानभ्युप
-
गमे पराभ्युपगमासिद्धेः । विचारात् पूर्वं स्वपरभेदःप्रसिद्ध एवेति
चेत्, न, तदाऽपि पूर्वापरकालभेदस्यासिद्धेः । तत्सर्वथाभेदा
-
यह्नवे स्यादेवाभेदीति वचो विरोधि विशेषाभावादिति स्थितं ।
नन्वे
[? व]
म् अस्तित्वविरोधान् नास्तित्वं वस्तुनि कथमभिधीयते
१५
स्याद्वादिभिर् एवकारोपहितेनास्तीतिपदेन तस्य व्यवच्छेदाद
-
नेवकारेण तस्य वक्तुम् अशक्यत्वाद् अनुक्तसमत्वात् । ततश्चावाच्य
-
तैवापतेत् प्रकारांतराभावाद् इत्य् आशंकायाम् इदम् उच्यते —
तद्द्योतनः स्याद् गुणतो निपातः ।
विपाद्यसन्धिश् च तथांगभावा
-
२०
द् अवाच्यता श्रायसलोपहेतुः ॥
४४
॥
१०४
टीका —
तस्य विरोधिनो धर्मस्य द्योतनः स्याद् इतिनि
-
पातः स्याद्वादिभिः संप्रयुज्यते । यद्य् एवं विध्यर्थिनःप्रतिषेधे
-
[? ओम्.]
ऽपि प्रवृत्तिर् भवेत् द्वयोर् अपि प्रकाशनप्रतिपादनाद् इति नमन्तव्यं
गुण इति वचनात् । विधौ प्रयुज्यमानं पदम् अस्तीतिप्रतिषेधं
०५
गुणभावेन प्रकाशयति स्याद् इति निपातेन तथैव द्योतनात् । तथा
विपाद्यस्य विपक्षभूतस्य धर्मस्य संधिश् च स्यादंगभावाद् अंगस्याव
-
यवस्य भावाद् अवयवत्वाद् इत्य् अर्थः । सर्वथाऽप्य् अवाच्यतातु न युक्ता
तस्याः श्रायसलोपहेतुत्वान् नि
[? :ḥ]
श्रेयसतत्त्वस्याप्यवाच्यत्वात् तदुपा
-
यतत्त्ववत् । न चोपेयस्योपायस्य वचनाभावे तदुपदेशःसंभवति,
१०
न चोपदेशाभावे श्रायसोपायानुष्ठानं संभवति, नाप्युपाया
-
नुष्ठानानुपपत्तौ श्रायसमित्यवाच्यता श्रायसलोपहेतुः स्यात्ततः
स्यात्कारलाञ्छनं पदम् एवकारोपहितम् अर्थवत्प्रतिपत्तव्यम् इति
तात्पर्यार्थः ।
नन्व् एवं सर्वत्र स्याद् इति निपातस्य प्रयोगप्रसंगात्प्रति
-
१५
पदं तदप्रयोगः शास्त्रे लोके च कुतः प्रतीयत इति शंकां
प्रतिघ्नंति सूरयः —
तथा प्रतिज्ञाशयतो प्रयोगः
सामर्थ्यतो वा प्रतिषेधयुक्तिः ।
इति त्वदीया जिननाग ! दृष्टिः
२०
पराप्रधृष्या परधर्षिणी च ॥
४५
॥
टीका —
तथा स्याज् जीव एवेति प्रकारेण या प्रतिज्ञा
१०५
तस्याम् आशयो ऽभिप्रायस् तथा प्रतिज्ञाशयःप्रतिपादयितुर् अभिप्रा
-
यस् तस्मात् प्रतिपदं स्याद् इति निपातस्याप्रयोगः शास्त्रे लोके
च प्रतीयते एवकाराप्रयोगवत् । शास्त्रे तावत्सम्यग्दर्शनज्ञान
-
चारित्राणि मोक्षमार्ग इत्य् आदौ न क्वचित् स्यात्कार एवकारो वा
०५
प्रयुज्यते, शास्त्रकारैर् अप्रयुक्तो ऽपि विज्ञायते तेषां तथाप्रति
-
ज्ञाशयसद्भावात् सामर्थ्यतो वा प्रतिषेधस्यसर्वथैकान्तव्यवच्छे
-
दस्य युक्तिः स्याद्वादिनाम् अन्यथा तदयोगात्, न हि स्यात्का
-
रप्रयोगम् अन्तरेणानेकान्तात्मकत्वसिद्धिरेवकारप्रयोगमन्तरेण स
-
म्यगेकान्तावधारणसिद्धिवत् । "सद् एव सर्वं को नेच्छेत्स्वरू
-
१०
पादिचतुष्टयाद्" इत्य् आदौ स्यात्काराप्रयोग इति न मन्तव्यं,
स्वरूपादिचतुष्टयाद् इति वचनात् स्यात्कारार्थप्रतिपत्तेः, "कथं
[? :
-
]
चित् ते सद् एवेष्टंऽ इत्यादौ कथंचिद् इति वचनात्तत्प्रयोगवत्,
तथा लोके घटमानयेत्यादिषु तदप्रयोगः सिद्ध एव । इत्येवं
जिननाग ! जिनकुंजर ! त्वदीया दृष्टिः परैःसर्वथैकान्तवा
-
१५
दिभिर् अप्रधृष्या प्रमाणनयसिद्धार्थत्वात् । परेषांभावैकान्तवा
-
दिनां प्रधर्षिणी च त्वदीया दृष्टिर् इति संबंधः । तेषांसर्वथाऽ
-
विचार्यमाणानाम् अप्रयोगः — यथा चाभावैकान्तादिपक्षा न्यक्षेण
प्रतिक्षिप्ता देवागमाप्तमीमांसायां तथेह प्रतिपत्तव्या इत्यलम् इह
विस्तरेण ।
२०
कथं पुनर्विपाद्यसंधिश् च पदस्याभिधेयः स्याद् इतिस्वयं
सूरयः प्रकाशयन्ति —
विधिर् निषेधो ऽनभिलाप्यता च
१०६
त्रिरेकशास्त्रिद्विश एक एव ।
त्रयो विकल्पास् तव सप्तधामी
स्याच्छब्दनेयाः सकले ऽर्थभेदे ॥
४६
॥
टीका —
स्याद् अस्त्य् एवेति विधिः स्यान् नास्त्य् एवेति निषेधः
०५
स्याद् अनभिलाप्यम् एव सर्वम् अर्थजातम् इत्य् अनभिलाप्यता, ते ऽमी त्रयो
विकल्पाः एकशस्त्रिर् इति वचनात्, पदस्येत्य् अर्थवशाद्विभक्तिपरि
-
णामः । एषां विपाद्येन विपक्षेण संधिः संयोजना स्याद् अस्ति
नास्त्य् एव स्याद् अस्त्य् अवक्तव्यम् एव स्यान् नास्त्य् अवक्तव्यमेवेति त्रिर् द्विशो
भवति । द्वाभ्यां द्विश इति द्विसंयोगजा विकल्पास् त्रिर् इतित्रिप्र
-
१०
कारा भवन्ति । स्याद् अस्ति नास्त्य् अवक्तव्यम् एवेत्य् एक एवविकल्पो
भवति । तद् एवं विपाद्यसंधिप्रकारेण त्रयो ऽमीमूलविकल्पाः
सप्तधा भवंति । किं क्वचिद् एवार्थे किं वा सर्वत्रेतिशंकायाम् इ
-
दम् उच्यते — सकले ऽर्थभेदे निरवशेषेजीवादितत्त्वार्थपर्याये, न
पुनः क्वचिद् एवार्थपर्यायभेदे, प्रतिपर्यायंसप्तभंगीति वचनात् ।
१५
विकल्पाः सप्तधा भवंति तवेति वचनात्, न च परेषाम् अप्यमी ।
नन्व् अस्तित्वं प्रति विप्रतिपन्नमनसां तत्प्रत्यायनाययथा स्याद् अ
-
स्त्य् एवेति पदं प्रयोगम् अर्हति तथा स्यान् नास्त्य् एवेत्यादिपदान्य् अपि
प्रयोगम् अर्हेयुः सप्तधावचनमार्गस्य व्यवस्थितेर् इतिपराकूतं नि
-
राचिकीर्षवः स्याच्छब्दनेया इति प्रतिपादयंति । यथाविधिवि
-
२०
कल्पस्य प्रयोगस् तद्विवादविनिवृत्तये स्याद्वादिभिर्विधीयते तदा
निषेधादिविकल्पाः शेषाः षड् अपि स्याच्छब्देन नेयाः स्युः । न
१०७
पुनः प्रयोगम् अंर्हति तदर्थे विवादाभावात्तद्विवादे तु क्रमशस् तत्प्र
-
योगे ऽपि न कश्चिद् दोषः प्रतिभाति प्रतिपाद्यस्यैकस्यापिसप्तधावि
-
प्रतिपत्तिसद्भावात् । तावत् कृत्वः संशयोपजननात् तावज्जिज्ञासो
-
पपत्तेस् तावद् एव च प्रश्नवचनप्रवृत्तेः "प्रश्नवशादेकवस्तुन्यविरोधेन
०५
विधिप्रतिषेधकल्पना सप्तभंगीति" वार्त्तिककारवचनात् । नाना
-
प्रतिपाद्यजनानिवैकप्रतिपाद्यजनम् अपि प्रतिपादयितुमनसां सप्त
-
विकल्पवचनं न विरुध्यत एव । ननु च स्याद् इति निपातोऽने
-
कांतस्य द्योतको वाचको वा, गुणभावेन भवेत्प्रधानभावेन वा ?
तत्र यदि गुणकल्पनया द्योतको ऽभिधीयते तदातद्वाचकपदा
-
१०
न्तरेणाऽपि गुणकल्पनयैव वाच्यत्वप्रसंगः सर्वत्रपदाभिधेयस्यै
-
व निपातेन द्योतयितुं शक्यत्वात्, तदनुक्तस्यार्थस्य तेनद्योतने
तस्य वाचकत्वप्रसक्तेस् तत्प्रयोगसामर्थ्यात्तदर्थप्रतिपत्तेः ।
स्यान् मतम् एतत् — अस्तीति पदेन निपातेन तावद् अस्तित्वंप्र
-
धानकल्पनयोच्यते स्याद् इति पदेन निपातेन नास्तित्वादयो
१५
धर्मा द्योत्यंत इतिप्रधानगुणकल्पनयाऽनेकान्तप्रतिपत्तिर् एव
-
कारप्रयोगाद् अन्यव्यवच्छेदसिद्धेर् इति । तद् अप्य् असम्यक्;अस्ती
-
ति पदेनानुक्तानां नास्तित्वादिधर्माणां स्याच् छब्देन द्योतने
सर्वार्थद्योतनप्रसंगात् । सर्वार्थानाम् एवकारेणव्यवच्छेदान् न तद्
-
द्योतनप्रसंग इति वचनं न युक्तिमत् नास्तित्वादीनाम् अपितेन
२०
व्यवच्छेदाद् अनुद्योतनप्रसंगात् ततो न द्योतकः स्याच्छब्दो ऽने
-
कांतस्य युज्यते नाऽपि वाचकः स्याद् इति निपातप्रयोगाद् एव
तत्प्रतिपत्तेर् अस्तीत्यादिपदप्रयोगानर्थक्यात् ।
१०८
सर्वार्थप्रतिपादने तेनैव पर्याप्तत्ब्
[? :व्]
आत्पदान्तरस्य प्रयोगो वा
पुनरुक्तत्वम् अनिवार्यम् इति केचित्, तान् प्रति सूरयःप्राहुः —
स्याद् इत्य् अपि स्याद् गुणमुख्यकल्पै
-
कान्तो यथोपाधिविशेषवीक्ष्यः ।
०५
तत्त्वं त्व् अनेकांतम् अशेषरूपं
द्विधा भवार्थव्यवहारवत्त्वात् ॥
४७
॥
टीका —
अस्यायम् अर्थः स्याद् इत्य् अपि निपातो गुणमुख्य
-
कल्पैकान्तः स्यात्, गुणश् च मुख्यश् च गुणमुख्यौ स्वभावौ
ताभ्यां कल्प्यन्त इति गुणमुख्यकल्पाः, गुणुमख्यकल्पा
१०
एकान्ता यस्य सो ऽयं गुणमुख्यकल्पैकान्तः स्याद् भवेन्नयादेशा
-
द् इत्य् अभिप्रायः । शुद्धद्रव्यार्थिकप्रधानभावादस्तित्वैकान्तो
मुख्यः, शेषा नास्तित्वाद्यैकान्ता गुणाः, प्रधानभावेनानर्पणा
-
द् अनिराकरणाच् च नास्तित्वादिनिरपेक्षस्यास्तित्वस्यासंभवात्
खरविषाणवत् । स्याच्छब्दस् तु तद्द्योतनःप्रधानगुणभावेनैव
१५
भवेत् तथैवास्तीति पदेनाभिधानात् पदान्तरेणयथाभिधानं
निपातपदेन द्योतयितुं शक्यत्वात् । व्यवहारनयादेशात् तुना
-
स्तित्वैकान्ता मुख्याः स्युर् अस्तित्वैकांतस् तु गुणःप्राधान्येना
-
विवक्षितत्वात् तदप्रतिक्षेपाच् च तत्रास्तित्वनिराकरणे तुनास्ति
-
त्वादिधर्माणाम् अनुपपत्तेः कूर्मरोमादिवत् । नास्तित्वादिभिरपेक्ष
-
२०
माणं तु वस्तुनो ऽस्तित्वं स्याच्छब्देन द्योत्यत इतिप्रधानगु
-
णभावेनैव स्याद् इति निपातः कल्पयत्य् एकांताच् छुद्धनयादेशा
-
१०९
न् नान्यथा । कुत इति चेत्, यथोपाधि यथाविशेषणंविशेषस्य
भेदस्य भावात् सद्भावात् "धर्मे धर्मे ऽन्य एवाऽर्थोधर्मिणो
-
ऽनंतधर्मिणः " इत्य् अन्यत्रापि वचनात् । नयादेशो हिवस्तुनो
धर्मभेदाद् विशेषो न प्रमाणदेश इति । जीवादि तत्त्वम् अपितर्हि
०५
प्रधानगुणभूतैकान्तमायातम् इति न शंकनीयं । "तत्त्वंत्व् अने
-
कान्तम् अशेषरूपं" इति वचनात् । तत्त्वं जीवादिप्रमाणार्पितं
सकलादेशात् "सकलादेशः प्रमाणाधीनः" इति वचनात्
तदनेकान्तम् एव स्याद् अनेकान्तो ऽप्य् अनेकांतो न पुनर् एकान्तस्त
-
स्य नयार्पणयोक्तत्वात् । कुतस् तदनेकांतम् इत्य् उच्यते — यतोऽशे
-
१०
षरूपं
[? :म्]
अशेषं सकलं रूपं यस्य तदशेषरूपंविकलरूपस्य तत्त्वै
-
कदेशत्वात् ।
कथम् इदानीं स्याज् जीव एव स्याद् अजीव एवेत्यादिना
प्रमाणवाक्येनाभिधीयत इति शंकायाम् इदम् उच्यते —
"द्विधा भवार्थव्यवहारवत्त्वाद् इति"
१५
तत्त्वं द्वाभ्यां प्रकाराभ्यां व्यवस्थितं द्रव्यरूपंभवार्थ
-
वत्त्वात् पर्यायरूपं व्यवहारवत्त्वात् । भवार्थो हिसद्द्रव्यं विधि
-
र् व्यवहारो ऽसद्द्रव्यं गुणः पर्यायः प्रतिषेधः, तत्तत्त्वम् एव वस्तुन
इति द्विप्रकारं तत्त्वं प्रकारान्तराभावात् । तत्र यदा यदासद्द्रव्यं
जीवो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशं कालः पुद्गलो
२०
मनुष्यादिर् इति वा विधिलक्षणभवार्थप्ररूपणायां सद् इतिशब्दः
प्रयुज्यते तदाकालात्मरूपसंसर्गगुणिदेशार्थसंबंधोपकार
-
शब्दैर् अभेदेनाभेदात्मकस्य वस्तुनो ऽभिधानात्सकलादेशस्य
११०
प्रमाणाधीनस्य प्रयोगादशेषरूपं तत्त्वमभिधीयते । सद् इति
शब्दो हि सकलसद्विशेषात्मकं सदितरात्मकासद्विशेषात्मकं
च तत्त्वं प्रतिपादयति कालादिभिर् अभेदात् । तथा द्रव्यमिति
शब्दो निःशेषद्रव्यविशेषात्मकं द्रव्यतत्त्वंसकलपर्यायविशेषा
-
०५
त्मकम् अद्रव्यगुणाद्यात्मकं च प्रकाशयति । तथैव जीवैति शब्दो
जीवतत्त्वं सकलजीवविशेषात्मकं जीवपर्यायरूपंजीवाजीववि
-
शेषात्मकं च कथयति । तथैव धर्म इत्य् अधर्म इत्याकाश इति
काल इति च शब्दो धर्मम् अधर्मम् आकाशं कालं चसकलस्वविशे
-
षात्मकं निवेदयति । पुद्गल इति शब्दोऽखिलपुद्गलविशेषात्मकं
१०
पुद्गलद्रव्यम् एवेति प्रतिपत्तव्यं विधिरूपस्यभवार्थस्य प्राधान्यात् ।
यदा पुनर् असदितिशब्दः प्रयुज्यते तदाऽप्य् असत्तत्त्वंपररूपादि
-
चतुष्टयापेक्षं कालादिभिर् अभेदेनाभेदोपचारेणसकलासद्विशे
-
षात्मकं तत्त्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात् । तथैवा
-
द्रव्यम् अजीव इत्यादि प्रतिषेधशब्दः सकलासद्विशेषात्मकमद्रव्य
-
१५
त्वम् अजीवादितत्त्वं च प्रत्याययति । स्याद् इति निपातेनतथा
तस्योद्योतनाद् एवकारेणान्यथाभावनिराकरणात् । वस्तुत्वमिति
शब्दस् तु स्यात्कारलांछनः सैवकारःसकलवस्तुविशेषसदसदा
-
दिरूपं तत्त्वं कालादिभिर् अभेदेनाभेदोपचारेणप्रख्यापयति तस्य
भवार्थव्यवहारवत्त्वाद् विधिनिषेधप्राधान्येनयुगपदभिधानात्,
२०
यत्काले वस्तुनो वस्तुत्वं तत्काल एवसकलवस्तुविशेषास्तस्य
तद्व्यापकत्वाद् इति कालेनाभेदस् तेभ्योद्रव्यार्थिकप्राधान्यात् ।
यथा च वस्तुनो वस्तुत्वम् आत्मरूपं तथा सर्वेवस्तुविशेषाः
१११
इत्य् आत्मरूपेणाभेदः । यथा च वस्तुत्वेन वस्तुनःसंसर्गस् तथा
वस्तुविशेषैर् अपि, सविशेषस्यैव तस्य सम्यक् सृष्टौ व्यापा
-
रात् ततः संसर्गेणाप्य् अभेदः । यस् तु वस्तुत्वस्य गुणस्य
वस्तुगुणिदेशः स एव वस्तुविशेषाणाम् इति गुणिदेशेनाऽपि
०५
तदभेदः । य एव चार्थो वस्तुत्वस्याधिकरणलक्षणोवस्त्वात्मा स
एव सकलवस्तुधर्माणाम् इत्य् अर्थतो ऽपि तदभेदः । यश् चवस्तुनि
वस्तुत्वसंबंधः समवायो ऽविष्वग्भावलक्षणः स एवसकलधर्मा
-
णाम् इति संबंधेन तदभेदः । य एव चोपकारो वस्तुनोवस्तु
-
त्वेन क्रियते ऽर्थक्रियासाम् अर्थ्यलक्षणः स एवसकलधर्मैर् इत्य् उ
-
१०
पकारेणैव तदभेदः । यथा च वस्तुशब्दो वस्तुत्वंप्रतिपादयति
तथा सकलवस्तुधर्मान् अपि तैर् विना तस्यवस्तुत्वानुपपत्तेर् इति श
-
ब्देनाऽपि तदभेदः । पर्यायार्थिकप्राधान्येन तुपरमार्थतः का
-
लादिभिर् भेद एव धर्मधर्मिणोर् अभेदोपचारात् । वस्तुशब्देन सकल
-
धर्मविशिष्टस्य वस्तुनो ऽभिधानात् सकलादेशो न विरुध्यते ।
१५
ततः स्याद् वस्त्व् एवेत्य् आदिशब्दः तत्त्वम् अशेषरूपंप्रतिपादयतीति ना
-
नात्वरूपस्यापि वस्तुनो वाचकसंभवः सकलादेशवाक्येनतस्य
तथा वक्तुं शक्यत्वात् । ननु च द्रव्यमात्रं तत्त्वं तस्यद्रव्यपदेना
-
भिधानात् पदान्तराणामपि तत्रैव व्यापारात् तद्व्यतिरेकेण
पदार्थासंभवाद् इत्य् एके । पर्यायमात्रम् एव तत्त्वंद्रव्यस्य सकलप
-
२०
र्यायव्यापिनो विचार्यमाणस्यायोगात्, द्रव्यादिपदेनापि पर्या
-
यमात्रस्यैव कथनात् तत्र प्रवृत्तिप्राप्तिदर्शनाच् चेत्यन्ये । द्रव्यं प
-
र्यायश् च पृथग् एव तत्त्वं तयोस् तादात्म्यविरोधात्द्रव्यपदेन द्रव्य
-
११२
स्यैवाभिधानात् पर्यायपदेन पर्यायस्यैवनिवेदनाद् अन्यथासंकरव्य
-
तिकरप्रसंगाद् इत्य् अपरे । द्रव्यपर्यायद्वयात्मकंतत्त्वं, द्रव्यपदेन प
-
र्यायपदेन वा तस्यैवाभिधानात् सर्वत्रापर्यायात्मकस्यद्रव्यस्या
-
संभवात् सकलपर्यायशून्यस्य च द्रव्यस्याप्रतीतेर् इतीतरे ।
०५
तान् प्रति सूरयो वक्तुम् आरभन्ते —
न द्रव्यपर्यायपृथग्व्यवस्था
-
द्वैयात्म्यम् एकार्पणया विरुद्धम् ।
धर्मश् च धर्मी च मिथस् त्रिधेमौ
-
न सर्वथा ते ऽभिमतौ विरुद्धौ ॥
४८
॥
१०
टीका —
न तावत् द्रव्यम् एवेति द्रव्यस्य व्यवस्थासकलपर्याय
-
रहितस्य प्रमाणागोचरत्वात्, न हि प्रत्यक्षं द्रव्यविषयंतस्य व
-
र्तमानविषयत्वात् द्रव्यस्यत्रिकालगोचरानंतविवर्तव्यापित्वात् ।
न च वर्तमानमात्रविषयत्वे प्रत्यक्षस्य सर्वात्मनात्रिकालवि
-
षयद्रव्यग्राहित्वं युक्तं योगिप्रत्यक्षत्वप्रसंगात् । तर्हियोगिप्र
-
१५
त्यक्षम् एव द्रव्यविषयम् इति चेत् न, अस्मदादिप्रत्यक्षस्य
निर्विषयत्वप्रसंगात् । ननु अस्मदादिप्रत्यक्षस्यापिविधातृत्वात्
सर्वदा निषेद्धृत्वे विधिविषयत्वविरोधात्निषेध्यानामानंत्याद
-
नं तेनापि कालेन निषेधस्य कर्तुम् अशक्तेस्तत्रैवोपक्षीणशक्तिक
-
त्वात् कदाचित् कस्यचिद् विधौ प्रवृत्त्यनुपपत्तेर्विधिविषयत्वस्यैव
२०
युक्तिमत्त्वम् इति चेत्, नैतत्सारं, सद्द्रव्यमात्रेप्रत्यक्षस्य प्रवृत्तौ
शश्वदसत्त्वे प्रवृत्त्यभावात् तदव्यवच्छेदप्रसंगात् । यदि पुनः
११३
सन्मात्रे विधौ प्रवर्तमानं प्रत्यक्षंतद्विरुद्धम् असत्त्वं व्यवच्छिन
-
त्तीति कथ्यते तदाऽपि निषेद्धृ प्रत्यक्षं कथं न स्यात् ? यदि पु
-
नः प्रथमाक्षसन्निपातवेलायां निर्विकल्पं प्रत्यक्षंसन्मात्रम् एव
साक्षात्कुरुते, पश्चाद् अनाद्यविद्यावासनासामर्थ्याद् असत्, निवृत्ति
-
०५
विकल्पोत्पत्तेः प्रतिषेधव्यवहारो ऽस्मदादेः प्रवर्त्तत इतिमतं,
तदा परमार्थतो नासत्त्वनिवृत्तिर् इतिसदसदात्मकवस्तुविषयं
प्रत्यक्षं प्रसज्येत । सन्मात्रस्य विधिरेवासत्त्वप्रतिषेध इति चेत्,
(न)
कथम् एवं विधात्रेव प्रत्यक्षं निषेद्धृत्वस्यापितत्रेष्टेः ? कथं च
स्वयम् एव न निषेद्धृ प्रत्यक्षम् इति ब्रुवाणः प्रतिषेधंसर्वथा निरा
-
१०
कुर्वीत न चेदस्वस्थः । अथाविद्याबलान् न निषेद्धृप्रत्यक्षम् इति
निषेधव्यवहारः क्रियते परमार्थतस् तस्याप्य् अनभिधानात्किम् ए
-
वम् अवाच्यं प्रत्यक्षम् इष्यते ? तथेष्टौ सन्मात्रम् अप्यवाच्यं स्यात्,
तत्त्वयुक्ततरं परप्रत्यायनायोगात् — सन्मात्रं हि तत्त्वंपरं
प्रत्याययेन् न संविन्मात्रेण पराप्रत्यक्षेण प्रत्याययितुमीशः,
१५
परमार्थतः प्रत्याय्यप्रत्यायकभावाभावात् न क्वचित्किंचित्
कथंचित् प्रत्याययति सर्वस्य स्वत एवसन्मात्रतत्त्वप्रतिपत्तेर् इति
चेत्, न विप्रतिपत्त्यभावप्रसंगात् । यदि पुनः सन्मात्रेतत्त्वे
स्वपरविभागाभावात् सर्वस्य भेदस्य तत्रैवानुप्रवेशान् नकश्चि
-
त् कुतश्चित् कथंचित् कदाचिद् विप्रतिपद्यत इति चेत्, न स्यादेतद् ए
-
२०
वं यदि स्वपरविभागाभावः सिद्ध्येत्, स हि न तावत्प्रत्यक्षतः
सिद्धस् तस्याभावविषयत्वप्रसंगात्, नाऽप्य् अनुमानात्पक्षहेतुदृष्टांत
-
भेदाभावे ऽनुमानानुपपत्तेः, कल्पितस्याप्य् अनुमानस्यविधिवि
-
११४
षयत्वनियमात्, तस्य प्रतिषेधविषयत्वेप्रत्यक्षस्यापि प्रतिषेधवि
-
षयत्वसिद्धेः कुतः सन्मात्रत्वसिद्धिः? । आगमात्स्वपरविभागाभा
-
वः साध्यत इति चेत्, न, स्वपरविभागाभावे क्वचिद् आगमा
-
नुपपत्तेः । आगमो ह्य् आप्तवचनम् अपौरुषेयं वा वचनंस्यात् ? न
०५
तावद् आप्तस्य तत्प्रतिपाद्यस्य च विनेयस्याभावे वचनमाप्तस्य प्र
-
वर्त्तते । तत्सद्भावे च सिद्धः स्वपरविभाग इति कथमागमात् त
-
दभावः सिध्येत् ? यदि पुनर् अपौरुषेयं वचनम् आगमस्तदाऽपि
स्वपरविभागः सिद्धस् तद्व्याख्यातुः श्रोतुश् च सिएद्धेःस्वपरविभा
-
गोपपत्तेः । स्यान् मतं, स्वपरविभागाभावो ऽपि न कुतश्चित्प्रमा
-
१०
णात् साध्यते प्रत्यक्षतः सन्मात्रसिद्धेर् एवस्वपरविभागाभावस्य
साधनात् केवलम् अविद्याविलासमात्रंप्रतिपाद्यप्रतिपादकभावः सं
-
वेद्यसंवेदकभाववद् इति । तद् अप्य् असम्यक्, संवेद्यसंवेदकभावप्र
-
तिपाद्यप्रतिपादकभावाभावे स्वपरप्रतिपत्तिविरोधात्सर्वथा
शून्यवादावकाशप्रसंगात् ।
१५
तद् उक्तम् —
सर्वथा सदुपायानां वादमार्गः प्रवर्त्तते
।
अधिकारो ऽनुपायत्वान् न वादे शून्यवादिनः
॥ इति ॥
तद् एतद् अत्रापि संप्राप्तं । तथा हि —
सर्वथा सदुपायानां वादमार्गः प्रवर्तते
।
२०
अधिकारो ऽनुपायत्वान् न वादे सत्त्ववादिनः
॥
ननु च विचारात्पूर्वं तत्त्वाभ्युपगमः पश्चाद् वा ? यदिपूर्वं तदा
निष्फलो विचारः स्यात्, तत्त्वाभ्युपगमफलत्वाद् विचारस्य,
११५
तस्य विचारात् प्राग् एव सिद्धेः । पश्चाच् चेत्सर्वस्याविचाररमणीयेन
लोकव्यवहारेण विचारस्य प्रवृत्तेर् न पर्यनुयोगो युक्तः, विचा
-
रकाले हि न कश्चिद् अपि शून्यवादी सत्ताद्वैतवादी वा, येन
सर्वथाऽनुपायत्वाद् वादे ऽनधिकारः प्रसज्येत !अनेकान्तवादि
-
०५
नाम् अपि तद्विचारोत्तरकालम् एव सर्वम् अनेकान्तात्मकंतत्त्वम् इति
प्रतिपत्तव्यं, कथम् अन्यथा परस्पराश्रयाख्यो दोषो नस्यात्,
प्रसिद्धे ऽनेकान्तत्वे विचारप्रवृत्तिस् तस्यां च सत्यामनेकान्तप्र
-
सिद्धिर् इति गत्यंतराभावात् । किंचिद् अपि तत्त्वमनभ्युपगम्य
परीक्षाप्रवृत्तौ तु न कश्चिद् दोषः परीक्षोत्तरकालं यद्विनिश्चितं
१०
तत् तत्त्वम् इति व्यवस्थानात् । तथा च सत्ताद्वैतवादिनोऽपि वि
-
चारसामर्थ्यात् सत्ताद्वैततत्त्वव्यवस्थितौ यथादर्शनंसंवेद्यसंवेद
-
कभावस्य प्रतिपाद्यप्रतिपादकभावस्य वास्वपरविभागभाव
-
नाधीनस्य प्रतिबंधकभावात् सर्वम् अनवद्यम् इति केचित् । तद् अप्य् अति
-
मुग्धबुद्धिविजृंभितं, किंचिन् निर्णीतम् अनाश्रित्यविचारस्थैवाप्र
-
१५
वृत्तेस् तस्य संशयपूर्वकत्वात्, संशयस्य चनिर्णयनिबंधनत्वात् पू
-
र्वम् अनिर्णीतविशेषस्य पश्चात् क्वचित् संशयस्यानुपलब्धेःस्था
-
णुपुरुषसंशयवत् । य एव हिपूर्वनिश्चितस्थाणुपुरुषविशेषः प्र
-
तिपत्ता तस्यैवान्यत्रोर्ध्वतासामान्यं प्रत्यक्षतोनिश्चितवतस्
[? ]
त
-
द्विशेषयोः स्मरतः संशयोत्पत्तिदर्शनात् । न चैवंसत्ताद्वैततत्त्वं
२०
किं वा सर्वथा शून्यम् इति संशय उत्पद्यते पूर्वंतद्विषयनिर्ण
-
यानुपपत्तेः । क्वचित् तन्निर्णयोत्पत्तौ वा नसत्ताद्वैतवादिनः शून्य
-
वादिनो व स्वेष्टसिद्धिः । यदि पुनः सर्वम् अभ्युपगभ्यसत्ता
-
११६
द्वैतशून्यवादयोर् अपि क्वचित् कदाचित् तन्निर्णयात्पुनर् अन्यत्र तत्त्व
-
सामान्यम् उपलब्धवतस् तयोश् चानुस्मरतः संशयप्रवृत्तेर्विचारः, प्रव
-
र्त्तत एवेति मतं, तदापि येनात्मना सत्ताद्वैतं पूर्वंनिर्णीतं तेनैव
सर्वशून्यत्वं रूपान्तरेणा वा ? न तावत् प्रथमः पक्षोव्याधातात्,
०५
रूपान्तरेण तु तन्निर्णये स्याद्वादम् आश्रित्य विचारःप्रवर्त्तत
इत्य् एतद् आयातं । तथा च नानेकांतवादिनां विचारात् पूर्वमनेकांत
-
त्वाप्रसिद्धिस् तदप्रसिद्धौ विचाराप्रवृत्तेः । न च विचारादेवानेकां
-
तत्वसिद्धिः, प्रत्यक्षतः परमागमाच् चसुनिश्चितासंभवद्बाधकप्र
-
माणाद् अनेकांतत्वसिद्धेर् अप्रतिबंधात्, न चैवंविचारानर्थक्यं तद्ब
-
१०
लाद् एव तत्त्वसिद्धेर् अभ्युपगमात्, प्रत्यक्षाद् आगमाच् चप्रतिपन्नतत्त्वस्या
-
पि कुतश्चिद् दृष्टादृष्टानिमित्तवशात् कस्यचित् क्वचित् कथंचित्संश
-
योत्पत्तौ विचारस्यावकाशात्सर्वत्राऽहेतुवादहेतुवादाभ्यामाज्ञा
-
प्रधानयुक्तिप्रधानयोस् तत्त्वप्रतिपत्तिविधानात् । ततोऽनेकान्तवा
-
दिन एव वादे ऽधिकारः सदुपायत्वात् । क्वचित् कदाचित्कथं
-
१५
चित् कुतश्चित् कस्यचिन् निश्चयसद्भावात् । किंचिन् निर्णीतम् आ
-
श्रित्य क्वचिद् अन्यत्रानिर्णीते विचारप्रवृत्तेः सर्वत्रविप्रतिपद्यमाना
-
नां निराश्रयविचारणानुपपत्तेः ।
तथा चोक्तं
तत्त्वार्थालंकारे
—
किंचिन् निर्णीतम् आश्रित्य विचारो ऽन्यत्र वर्त्तते
।
२०
सर्वविप्रतिपत्तौ तु क्वचिन् नास्ति विचारणा ॥ इति ॥
ततो न विचारसामर्थ्यात् सद्द्रव्यतत्त्वव्यवस्था नाऽपिपर्याय
-
तत्त्वव्यवस्था, द्रव्यविकलस्य पर्यायमात्रस्यसकलप्रमाणावि
-
११७
षयत्वात् द्रव्यैकान्तवत् । प्रत्यक्षतोवर्त्तमानपर्यायः प्रतिभा
-
सत एव सर्वस्येदानींतनतया प्रतिभासमानत्वात् । नष्टानुत्पन्न
-
योर् इदानींतनतया प्रतिभासाभावाद् इति चेत्, नेदानींतनताया
एव द्रव्याभावे प्रतिभासविरोधात्, नष्टानुत्पन्नावस्थाद्वितयमनपे
-
०५
क्षमाणस्य वर्तमानताप्रतीतेर् अयोगात्, नित्यत्वसाधनाच्चेदानींतन
-
ताप्रतीतेः शश्वदविच्छेदादात्मनो ऽहंताप्रतीतिवत् — यथैवह्य् आत्मा
सुख्य् अहं दुःख्य् अहम् इति सर्वदाऽप्य् अवच्छिन्नाहंप्रत्ययविषयभावम् अ
-
नुभवन् न कदाचिद् अहंतां संत्यजतीति नित्यः, तथाव्
[? ब्]
अहिर्वस्त्व् अपि
सततम् इदानींतनतां न जहाति प्राग् अपि इदानीं पश्यामिपश्चा
-
१०
द् अपीदानीं पश्यामीति न सकलो देशो वा कश्चिद् विद्यते यत्रे
-
दानींतनताप्रतीतिर् नास्तीति तदव्यवच्छेदः सिद्धः । ततः
समस्तं वस्तु विवादापन्नं नित्यम् एवेदानीन्तनतयाप्रतीयमान
-
त्वात्, प्रतिक्षणविनाशित्वे तद्विरोधात् ।
स्यान्मतं, पूर्वेदानींतनतान्या पाश्चात्या चवर्त्तमानेदानींत
-
१५
नता, न ततस् तयोः संतानाविच्छेदः, प्रतिक्षणंतद्विच्छेदाद् इ
-
ति । तद् असत्, तद्विच्छेदग्राहिणः कस्यचिद् असंभवात् । नहि ता
-
वत् सांप्रतिकम् इदनींतनतायाः संवेदनंपूर्वापरेदानींतनतासंवे
-
दनविच्छेदं ग्रहीतुम् अलं तदा स्वयम् अभावात् । नाप्यनुमानं त
-
द्विच्छेदाविनाभाविलिंगग्रहणासंभवात् । यो हि कदाचित्
२०
क्वचित् पूर्वापरेदानींतनविच्छेदम् उपलभते स एवतत्स्वभावस्य
तत्कार्यस्य वा लिंगस्य तेनाविनाभावं साकल्येन तर्कयेत्
न पुनर् अन्यो ऽतिप्रसंगात् । न च स्वयंपूर्वापरकालमव्याप्नुवन्
११८
पूर्वापरेदानींतनतासंवदेनयोर् विच्छेदमुपलब्धुं समर्थः । सन्तान
-
स् तादृक् समर्थ इति चेत्, न, तस्यावस्तुत्वे सकलसामर्थ्या
-
नुपपत्तेः, वस्तुत्वे पुनर् आत्मन एव संतान इतिनामकरणा
-
न् नित्यात्मसिद्धेः । स्यान् मतिर् एषा ते, पूर्वापूर्वेदानींतनतासंवेद
-
०५
नाहितवासनाप्रबोधात् तद्विच्छेदनिश्चयोत्पत्तेर् ननित्यात्मसंसि
-
द्धिर् इति, साऽपि न सम्यक् । पूर्वापरेदानींतनतानिश्चयस्यैव
तत्संवेदनाहितवासनाप्रबोधाद् उत्पत्तेर्यथानुभवनिश्चयोपजननसं
-
भवात् न पूर्वापूर्वविच्छेदो ऽनुभूतः । ननु प्रत्यक्षतःस्वरूपा
-
नुभव एव संवेदनस्य पूर्वापरसंवेदनविच्छेदानुभवैति चेन् न
१०
तदविच्छेदानुभवस्यापि स्वरूपानुभवरूपत्वसिद्धेरप्रतिबंधात् ।
पूर्वस्मात् परस्माच् च संवेदनाद् इदं संवेदनं विच्छिन्नमिति निश्च
-
योत्पत्तेः संवेदनस्वरूपानुभवस् तद्विच्छेदानुभव एवेतिचेत्,
नाविच्छिन्नम् अहम् आमुहूर्त्तादेर् अन्वभवम् इत्यविच्छेदनिश्चयप्रादुर्भावा
-
त् तदविच्छेदानुभवस्यैव सिद्धेस् ततो निरंतरमिदानींतनतया
१५
v
[? :ब्]
अहिरन्तश् च वस्तुनः प्रतीयमानत्वं कथंचिन्नित्यत्वम् एव साध
-
यतीति नातः क्षणस्थितिपर्यायमात्रसिद्धिः नाप्य् अनुमानाल्लिं
-
गाभावात् । यत् सत् तत् सर्वं क्षणस्थितीति पर्यायमात्रंनित्यद्र
-
व्यमात्रे क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्सर्वानुपपत्तेर् इत्य् अनु
-
मानं पर्यायमात्रवस्तुसाधनम् इति चेत्, न, विरुद्धसाधनाद् अस्य
२०
विरुद्धत्वात् । तथा हि — यत् सत् तत् सर्वंद्रव्यपर्यायरूपं
जात्यंतरं पर्यायमात्रे सर्वथाऽर्थक्रियाविरोधात्द्रव्यमात्रवत्
सत्त्वायोगाद् इति निरूपितप्रायं । ततः सूक्तं नपर्यायैकांत
-
११९
व्यवस्था प्रमाणाभावात् द्रव्यैकांतविद् इति । पृथग्भूतपरस्पर
-
निरपेक्षद्रव्यपर्यायव्यवस्थाऽप्य् अनेन प्रत्युक्ता तत्राऽपिप्रमाणा
-
भावाविशेषात् । न हि प्रत्यक्षतः सर्वथा पृथग्भूतयोर्द्रव्यप
-
र्याययोः प्रतीतिर् अस्ति तयोर् अविष्वग्भूतयोर् एव सर्वदासंवेदनात् ।
०५
समवायात् तथा प्रतीतिर् इति चेत्, सो ऽपि समवायस् ताभ्यां
पदार्थान्तरभूतो न प्रत्यक्षतः सिद्धस् तदात्मकस्यैवकथंचित् तस्य
प्रतीतेः । अथ समवायसमवायिनोः परस्परम् आत्मनोश् चताभ्या
-
म् अभेदप्रत्ययहेतुर् इत्य् अभिधीयते, न तर्हि प्रत्यक्षतोभेदप्रति
-
भासो नाऽप्य् अनुमानात् द्रव्यपर्याययोर् भेदैकान्तः सिद्धस्तथावि
-
१०
धहेत्वभावात् । ननु द्रव्यपर्यायौ मिथो भिन्नौभिन्नप्रतिभास
-
त्वात् । यौ यौ भिन्नप्रतिभासौ तौ तौ भिन्नौ यथाघटपटौ तथा
च द्रव्यपर्यायौ भिन्नप्रतिभासौ तस्माद् भिन्नाव् इत्यनुमानात् मिथो
भिन्नद्रव्यपर्यायव्यवस्था भवत्य् एवेति चेत्, न, हेतोरसिद्धत्वा
-
त्, भिन्नप्रतिभासत्वं हि द्रव्यपर्याययोर् न प्रत्यक्षतःसर्वथाऽस्ती
-
१५
ति समर्थितं प्राक् । अनुमानाद् भिन्नप्रतिभासत्वम् इति चेत्किम् अ
-
स्माद् एवानुमानाद् अनुमानान्तराद् वा । न तावदाद्यः पक्षःपरस्परा
-
श्रयानुषंगात् । सिद्धे ह्य् अतो ऽनुमानाद् भिन्नप्रतिभासित्वेसतीदम् अनु
-
मानं सिध्यति, सिद्धे वाऽस्मिन्न् अनुमाने भिन्नप्रतिभासत्वमिति
गत्यन्तराभावात् । अनुमानान्तराद् भिन्नप्रतिभासत्वसिद्धौतद् एव
२०
वाच्यं द्रव्यपर्यायौ भिन्नप्रतिभासौविरुद्धधर्माधिकरणात्वात्
यौ यौ विरुद्धधर्माधिकरणौ तौ तौ सर्वथाभिन्नप्रतिभासौ यथा
जलानलौ तथा च द्रव्यपर्यायौ तस्माद् भिन्नप्रतिभासावित्य् अनुमा
-
१२०
नस्य प्रत्यक्षविरुद्धपक्षत्वात्कालात्ययापदिष्टत्वाच् च हेतोर् नातः
साध्यसिद्धिः । एतेनावयवावयविनोर् गुणगुणिनोः क्रियाक्रि
-
यावतोः सामान्यतद्वतोः विशेषतद्वतोश् च परस्परतःसर्वथा भेदे
साध्ये प्रयुज्यमानस्य हेतोः कालात्ययापदिष्टत्वंप्रतिवर्णितं
०५
पक्षस्य प्रत्यक्षबाधितत्वात् । कथंचित् तादात्म्यवर्त्तिनोरेवावि
-
ष्वग्भूतयोस् तयोः प्रत्यक्षबुद्धौ प्रतिभासनात् । कथंचिद्भेदे साध्ये
सिद्धसाध्यतापत्तिस् तत्र प्रत्यक्षस्य भ्रांतत्वादबाधकत्वे व्
[? :ब्]
अहिरं
-
तश् च न किंचित् प्रत्यक्षतः सिध्येत् भ्रांताद् अपिप्रत्यक्षात्
कस्यचित् सिद्धौ प्रत्यक्षतदाभासव्यवस्था किम् अर्थमास्थीयेत ?
१०
न च भ्रांतं प्रत्यक्षंधर्मिदृष्टान्तहेतुव्यवस्थापनायालं, यतो ऽ
-
नुमानम् अत्यंतभेदम् अवयवावयव्यादीनांव्यवस्थापयदभेदप्रतिभा
-
सिनः प्रत्यक्षस्य बाधकम् अनुमन्येमहि ततो ऽनुमानंकस्यचिद् बा
-
धकं साधकं वा स्वयम् अनुरुच्यमानेन प्रत्यक्षमभ्रान्तं धर्मिदृष्टां
-
तहेतुविषयम् उररीकर्त्तव्यं तच् चोररीकुर्वता नद्रव्यपर्यायौ पर
-
१५
स्परम् अत्यंतभिन्नौ प्रतिज्ञातव्यौ प्रत्यक्षबुद्धौ सकृदपि तथा
प्रतिभासाभावात् ततो न द्रव्यपर्यायपृथग्व्यवस्थायुक्तिमती
द्रव्यव्यवस्थावत् पर्यायव्यवस्थावच् चेति प्रपंचतोऽन्यत्र परीक्षितं
प्रतिपत्तव्यम् ।
अत्रा
परः
प्राह, द्वयात्मकम् एकं तत्त्वंव्यवतिष्ठते द्रव्यमात्रस्य
२०
पर्यायमात्रस्य च पृथग्भूतद्रव्यपर्यायमात्रवत्व्यवस्थानुपपत्तेर् इति ।
सो ऽप्य् एवं प्रष्टव्यः, किं सर्वथा द्वैयात्मकमेकस्यार्प्यते कथंचिद् वा ?
प्रथमपक्षे द्वैयात्म्यम् एकार्पणया विरुद्धं नव्यवतिष्ठत एव, यो ह्य् आत्म
[? :
-
]
१२१
द्रव्यप्रतीतहेतुर् यश् च पर्यायप्रतीतिनिमित्तं तौचेत् परस्परं भिन्नाव् आ
-
त्मानौ कथं तदात्मकम् एकं त
१
त्त्वं सर्वथाव्यवतिष्ठते भिन्नाभ्यामात्म
-
भ्याम् अभिन्नस्यैकत्वविरोधात् । यदा त्व् एकस्माद् अभिन्नौतावात्मानौ
स्यातां तदाप्य् एकम् एवावतिष्ठते सर्वथैकस्माद् अभिन्नयोस्तयोर् एकत्व
-
०५
सिद्धेर् इति न द्वैयात्म्यं विरुद्धत्वात् । को ह्य् अबालिशःप्रमाणम् अंगी
-
कुर्वन् द्वावात्मानौ सर्वथैकस्य वस्तुनो भिन्नो स्वयमर्पयेत्, ततो द्वैया
-
त्म्यं द्व्यात्मकत्वं तत्त्वं सर्वथैकार्पणया विरुद्धमेवेति मन्तव्यम् ।
कथम् इदानीम् अविरुद्धं तत्त्वं सिध्येद् इति चेत्, उच्यते —
"धर्मी च धर्मश् च मिथस् त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्धौ" ।
१०
ते तवः भगवतो ऽर्हतः स्याद्वादिन इमौ प्रत्यक्षतःप्रतिभासमानौ
सर्वथा सर्वेणाऽपि प्रकारेणानुमानादिप्रतिभासविशेषेण वि
-
रुद्धौ नेति संबंधः । कौ ताव् इमौ धर्मी च धर्मश्चेति धर्मिधर्माव् इ
-
त्य् अर्थः । किं तौ सर्वथा मिथो भिन्नाव् एवाभिन्नाव् एवभिन्नाभि
-
न्नाव् एव त्रिधा वा कल्प्येते । न तावत् प्रथमः पक्षःप्रमाणविरोधात् ।
१५
नाऽपि द्वितीयः सहानवस्थाविरोधात् । नाऽपि तृतीयो विकल्पः,
भिन्नौ चाभिन्नौ चेत्य् उभयदोषानुषंगेण विरुद्धत्वाद् इतिकथम् अवि
-
रुद्धौ तौ यतस् ते ऽभिमताव् इति न मन्तव्यम्, त्रिधापितयोर् अभिमत
-
त्वात् । तथा हि — धर्मिधर्मौ स्याद् अभिन्नौद्रव्यार्थिकप्राधान्यात्,
स्याद् भिन्नौ पर्यायार्थिकप्राधान्यात्, स्यान् मिथो भिन्नौचाभिन्नौ
२०
च क्रमार्पितद्वयाद् इति त्रिभिः प्रकारैःस्याद्वादन्यायवादिभि
-
र् व्यवस्थाप्यते । न पुनः सर्वथाऽर्पितौ त्रिधापिधर्मधर्मिणौ प्रत्य
-
१ द्रव्यम् इति पुस्तकान्तरे ।
१२२
क्षादिप्रमाणविरुद्धौ ते ऽभिमतौ, ततो वाक्यंन धर्ममात्रं न ध
-
र्मिमात्रं वा प्रतिपादयतीति न सर्वथाप्य् अभिन्नौधर्मधर्मिणौ न
सर्वथा भिन्नौ नाऽपि सर्वथा भिन्नाभिन्नौप्रतीतिविरोधात् ।
द्रव्यैकान्तस्य पर्यायैकान्तस्य चपरस्परनिरपेक्षपृथग्भूतद्र
-
०५
व्यपर्यायैकान्तवत् व्यवस्थानुपपत्तेः समर्थनात्, तत्रयुक्त्यनुशा
-
सनायोगात् । किं पुनर् युक्त्यनुशासनम् इत्य् आहुः —
दृष्टागमाभ्याम् अविरुद्धम् अर्थ
-
प्ररूपणं युक्त्यनुशासनं ते ।
प्रतिक्षणं स्थित्युदयव्ययात्म
-
१०
तत्त्वव्यवस्थं सद् इहार्थरूपम् ॥
४९
॥
टीका —
दर्शनं दृष्टं प्रत्यक्षं, आप्तवचनम् आगमः । दृष्टं चागमश् च
दृष्टागमौ ताभ्याम् अविरुद्धम् अबाधितविषयं यद् अर्थात्साधनरूपाद् अ
-
र्थस्य साध्यस्य प्ररूपणं तद् एव युक्त्यनुशासनंयुक्तिवचनं ते तव
भगवतो ऽभिमताम् इति पदघटना । तत्रार्थस्यप्ररूपणं युक्त्यनुशा
-
१५
सनम् इति वचने प्रत्यक्षम् अपि युक्त्यनुशासनं प्रसज्येततद्व्य
-
वच्छेदार्थम् अर्थात् प्ररूपणम् इति व्याख्यायते सामर्थ्यादर्थस्य त
-
द् इति प्रतीतेः । तथाऽपि शीतो ऽग्निर् द्रव्यत्वाज् जलवद् इति, प्रे
-
त्यासुखप्रदो धर्मः कर्मत्वाद् अधर्मवद् इति चप्रत्यक्षविरुद्धम् आगमवि
-
रुद्धं चार्थप्ररूपणं युक्त्यनुशासनं प्राप्तम् इति नशंकनीयम् । दृष्टा
-
२०
गमाभ्याम् अविरुद्धम् इत्य् आभिधानात् । तथाचान्यथाऽनुपपन्नत्व
-
नियमनिश्चयलक्षणात् साधनात् साध्यार्थप्ररूपणंयुक्त्यनुशासन
-
१२३
म् इति प्रकाशितं भवति दृष्टागमाभ्यामविरोधस्यान्यथानुपपत्ते
-
र् इति देवागमादौ निर्णीतप्रायम् । अत्रोदाहरणामुच्यते — प्रति
-
क्षणं स्थित्युदयव्ययात्मार्थरूपं सत्त्वाद् इति । न तावत्प्रत्यक्ष
-
विरुद्धः पक्षः, स्थित्युदयव्ययात्मनो ऽर्थरूपस्यव्
[? :ब्]
अहिर्घटादेर् इवांत
-
०५
रात्मनो ऽपि साक्षादनुभवात्, स्थितिमात्रस्यसर्वत्रासाक्षात्कर
-
णाद् उदयव्ययमात्रवत् । न चायं स्थित्युदयव्ययात्मनोऽर्थरूप
-
स्यानुभवः सुनिश्चितासंभवद् बाधकप्रमाणात् प्रतिक्षणमनुपपन्नः
कालान्तरे स्थित्युदयव्ययदर्शनात् तत्प्रतीतिसिद्धेर् अन्यथासकृद् अपि
तदयोगात् खरविषाणादिवद् इति न प्रत्यक्षविरोधः । नाऽप्याग
-
१०
मविरोधो ऽस्य युक्त्यनुशासनस्य संभाव्यते । "उत्पादव्ययध्रौव्य
-
युक्तं सद् इति" परमागमस्य प्रसिद्घत्वात्सर्वथैकान्तागमस्या
-
प्रसिद्धेर् दृष्टेष्टविरुद्धार्थाभिधायित्वात्प्रतारकपुरुषवचनवद् इति नि
-
रवद्यः पक्षः प्रतिक्षणं स्थित्युदयव्ययात्मकस्यविवादाध्या
-
सितस्य साध्यधर्मस्य जीवादेर् अर्थरूपस्य चसाध्यधर्मिणः प्र
-
१५
सिद्धस्याभिधानात् । तथा हेतुश् च सत्त्वाद् इति नासिद्धःसर्व
-
त्रार्थरूपे तदभावे सर्वाभावप्रसंगात् । नाऽपि संदिग्धःसर्वत्र
सत्त्वस्य संदेहे संदेहस्याऽपि सत्त्वनिश्चयविरुद्धत्वात् । नाप्य् अ
-
ज्ञातासिद्धो हेतुः सर्वस्य वादिनः सत्त्वपरिज्ञानाभावेवादित्व
-
विरोधात् । नाप्य् अनैकान्तिकः कार्त्स्न्यतो देशतो वा विपक्षावृ
-
२०
त्तित्वात् । द्रव्येण स्थितिमता जन्मव्ययरहितेन सतापर्यायमा
-
त्रेण चोत्पादव्ययवता स्थितिशून्येन हेतोर् अनेकान्त इति चेत्, न
सत्त्वस्य वस्तुत्वस्वरूपस्य हेतुत्वात् सत्त्वधर्मस्यनयविषयस्य
१२४
हेतुत्वानभ्युपगमात् । न च द्रव्यमात्रं वस्तुपर्यायमात्रं वा तस्य
वस्त्वेकदेशत्वात् द्रव्यपर्यायात्मनो जात्यंतरस्य वस्तुनःप्रमाण
-
सिद्धत्वात् । न च द्रव्यस्य पर्यायस्य वावस्तुत्वाभावादवस्तु
-
त्वप्रसंगस् तस्य वस्त्वेकदेशत्वेन वस्तुत्वावस्तुत्वाभ्यामव्यवस्था
-
०५
नात् समुद्रैकदेशस्य समुद्रत्वासमुद्रत्वाभ्यामव्यवस्थानवत् ।
न च वस्तुत्वस्य सत्त्वस्य हेतुत्वे तदेकदेशेनद्रव्यसत्त्वेन पर्या
-
यसत्त्वेन वा व्यभिचारोद्भावना युक्ता सर्वस्य हेतोर्व्यभिचारप्र
-
संगात् सकलजनप्रसिद्धस्य वह्न्यादिसिद्धौधूमादिसाधन
-
स्यापि तदेकदेशेन पांडुत्वादिना व्यभिचारम् उद्भावयन्कथ
-
१०
म् अनेनापाक्रियेत ? धूमस्य हेतुत्वे तदेकदेशेनपांडुत्वादिना न
व्यभिचारस् तन्मात्रस्याहेतुत्वाद् इति चेत् तर्हि सत्त्वस्यवस्तु
-
त्वरूपस्य हेतुत्वेन तदेकदेशेन द्रव्यसत्त्वेनपर्यायसत्त्वेन वा
कथम् अनैकांतिकत्वम् उद्भावयेत् न चेद् अस्वस्थः । ननु चसत्त्वं
वस्तुत्वविरुद्धं विपर्ययस्यैव साधनाद् इति न मन्तव्यम् ।
१५
स्थितिमात्र इवोदयव्ययमात्रे ऽपि तदसंभवात् । तथाहि — सत्त्व
-
म् इदम् अर्थक्रियया व्याप्तं तदभावे तद्विरोधात्खपुष्पवत्, सा च
क्रमयौगपद्याभ्यां व्याप्ता तदभावे तदभावात् तद्वत् । तेच
क्रमयौगपद्ये प्रतिक्षणं स्थित्युदयव्ययात्मकत्वेनव्याप्ते तद्स्थि
-
त्येकान्ताद् उदयव्ययैकान्ताद् इव निवर्त्तमानं ततःक्रमयौगपद्ये
२०
निवर्त्तयेत्, ते च निवर्त्तमाने स्वव्याप्याम् अर्थक्रियांनिवर्त्तयतः,
सा च निवर्त्तमाना स्वव्याप्यं सत्त्वं निवर्त्तयतीति, ततो
निवर्त्तमानं सत्त्वं तीरादर्शिशकुनिन्यायेन प्रतिक्षणंस्थित्यु
-
१२५
दयव्ययात्मन्येवार्थरूपे ब्
[? :]
यतिष्ठत इति कथंविपर्ययं साध
-
येद् यतो विरुद्धम् अभिधीयेत । सपक्षे सत्त्वाभावादसाधारणानै
-
कान्तिको हेतुर् इति चेत्, को ऽयम् असाधारणो नाम ? सपक्षवि
-
पक्षयोर् असन्न् असाधारण इति चेत् स किं तत्रनिश्चितासद्भावः
०५
संदिग्धासद्भावो वा ? प्रथमपक्षे नानैकांतिकः स्यात्, सर्वथा
विपक्षे निश्चितासत्त्वस्य सम्यग्धेतुत्वात्, सम्यघेतोर्विपक्षासत्त्व
-
नियमनिश्चयलक्षणत्वात् तदभावे सपक्षे सतो ऽपिगमकत्वायो
-
गात् । सपक्षसत्त्वनियमस्य हेतुलक्षणत्वाव्यवस्थितेस्तदभावे
-
ऽपि हेतोर् गमकत्वसिद्धेः । यदि पुनर्द्वितीयः पक्षःसपक्षविप
-
१०
क्षयोः संदिग्धासद्भावो ऽनैकांतिक इति चेत् तदा न सत्त्वादिति
हेतुर् असाधारणानैकांतिकः प्रमाणबलाद् विपक्षेतस्यासद्भावनि
-
श्चयात् संशयासंभवाद् अनैकांतिकत्वविरोधात् । संशयहेतुर् अ
-
नैकांतिक इति सामान्यतो ऽनैकान्तिकलक्षणप्रसिद्धेः ।
ततो ऽसिद्धविरुद्धानैकांतिकत्वविमुक्तत्वात् सूक्तम् इदंयुक्त्यनुशा
-
१५
सनोदाहरणं प्रतिक्षणं स्थित्युदयव्ययात्मकमर्थरूपंसत्त्वाद् इ
-
ति । ननु च येन रूपेण स्थितिर् वस्तुनस् तेन स्थितिर् एवयेनोद
-
यस् तेनोदय एव येन व्ययस् तेन व्यय एवेति व्यवस्थायांनाने
-
कान्तात्मकवस्तुसिद्धिः स्थित्याद्येकान्तस्यैव प्रसिद्धेः, इतिन
मन्तव्यं, तत्त्वव्यवस्थम् इति वचनात्, तत्रस्थित्युदयव्ययात्मार्थ
-
२०
रूपं प्रतिक्षणम् अव्यवस्थं न विद्यते व्यवस्थाऽस्येतिव्याख्यानात् ।
येन हि रूपेण वस्तु तिष्ठति तेनोत्पद्यते नश्यति च, स्थितं
स्थास्यति च उत्पन्नम् उत्पत्स्यते च नष्टं नंक्ष्यति च । येन
१२६
चोत्पद्यते तेन तिष्ठति नश्यति च उत्पन्नं स्थितंनष्टं च उत्प
-
त्स्यमानं स्थास्यन्नंक्ष्यंश् च । येन च नश्यतितेनोत्पद्यते तिष्ठति
च तथा नष्टम् उत्पन्नं स्थितं च नंक्ष्यत्य् उत्पत्स्यतेस्थास्यति चेति न
क्वचिद् व्यवस्था येनैकान्तप्रसंगः; कथंचिदव्यवस्थितस्यैव
०५
तत्त्वस्यार्थक्रियाकारित्वप्रसिद्धेः । पटम् उदाहरणीकृत्यसर्वम् एत
-
द् वक्तव्यं, तथा हि — पटः प्रारंभक्षणापेक्षयोत्पद्यतेतिष्ठति विनश्यति
चानारंभसमयापेक्षया द्वितीयक्षणापेक्षया तूत्पत्स्यतेस्थास्यति
नंक्ष्यति च निर्वृत्तस्वरूपापेक्षयोत्पन्नः स्थितो नष्टश् चपूर्वावि
-
निर्वृत्तरूपेणेति, प्रातीतिकम् एतत् ।
१०
ननु चैकम् एव वस्तु नानास्वभावम् एवम् आयातं तच् चविरुद्धं
कुतो ऽवतिष्ठत इत्य् आहुः —
नानात्मताम् अप्रजहत् तद् एक
-
म् एकात्मताम् अप्रजहच् च नाना ।
अंगांगिभावात् तव वस्तु तद् यत्
१५
क्रमेण वाग् वाच्यम् अनंतरूपम् ॥
५०
॥
टीका —
यद् एकं वस्तु सत्त्वैकत्वप्रत्यभिज्ञानात् सिद्धं
तन् नानात्मताम् अपरित्यजद् एव वस्तुत्वं लभते, समीचीननानाप्र
-
त्ययविषयत्वात् यत् तु नानात्मतां जहाति न तद् वस्तु यथापर
-
परिकल्पितात्माद्यद्वैतं, वस्तु च विवादापन्नं जीवादितस्मान् ना
-
२०
नात्मताम् अप्रजहद् एव प्रतिपत्तव्यं । तथा यदबाधितनानाप्रत्ययब
-
लान् नाना प्रसिद्धं तद् एकात्मताम् अजहद् एव तव वस्तुसम्मतं तस्या
-
१२७
न्यथा वस्तुत्वविरोधात्पराभ्युपगतनिरन्वयनानाक्षणवत् ।
ततो जीवादिपदार्थजातं परस्पराजहद्वृत्त्येकानेकस्वभावंवस्तु
-
त्वान्यथानुपपत्तेर् इति युक्त्यनुशासनं । तत् कथं वाचावक्तुं
शक्यत इति न शंकनीयं क्रमेण तस्य वाग्वाचित्वात् । न हि
०५
युगपद् एकात्मतया नानात्मतया च वस्तूच्यते वाचा तादृश्या
वाचो ऽसंभवात् । न चैवं क्रमेण प्रवर्त्तमानाया वाचोऽसत्यत्व
-
प्रसंगस् तस्याः स्वविषये नानात्वे चैकत्वे चांगांगिभावात्प्रवृ
-
त्तेः । स्याद् एकम् एवेति वाचा हि प्रधानभावेनैकत्वं वाच्यंगुण
-
भावेन नानात्वं स्यान् नानैव वस्त्व् इति वाचा प्रधान्येननानात्वं
१०
वाच्यं गुणभावेनैकत्वम् इति कथम् एवमेकत्वनानात्ववाचोर
-
सत्यता स्यात् ? सर्वथैकत्ववाचा नानात्वनिराकरणात् नाना
-
त्वनिराकरणे हि तथैकत्वस्यापि तदविनाभाविनोनिराकरण
-
प्रसंगाद् असत्यत्वपरिप्राप्तेर् अभीष्टत्वात्तथाऽनुपलभ्यमानत्वात् ।
नानात्ववाचा चैकत्वस्य निराकरणात् तन्निराकरणे तदविना
-
१५
भाविनानात्वनिराकृतिप्रसंगात् सत्यत्वविरोधात् । ततःक्रमे
-
णानंतरूपं यद् वस्तु तत् तवांगांगिभावाद् एव वाग्वाच्यंबोद्धव्यम् ।
अंगं ह्य् अप्रधानमंगि प्रधानं तद्भावोगुणप्रधानभावस् तम् आ
-
श्रित्य नानात्वैकत्ववचने यथार्थाभिधायित्वम् एव वाच्यंव्यव
-
तिष्ठते ।
२०
ननु च भवतु नामानंतधर्मविशिष्टं वस्तु ते तुधर्माः पर
-
स्परनिरपेक्षा एव, पृथग्भूतश् च तेभ्यो धर्मीति मतमपाचिकी
-
र्षवः प्राहुः —
१२८
मिथो ऽनपेक्षाः पुरुषार्थहेतु
-
र् नांशा न चांशी पृथग् अस्ति तेभ्यः ।
परस्परेक्षाः पुरुषार्थहेतु
-
र् दृष्टा नयास् तद्वद् असि क्रियायाम् ॥
५१
॥
०५
टीका —
अंशा धर्मा वस्तुनो ऽवयवास्ते च परस्परनिरपे
-
क्षाः पुरुषार्थस्य हेतवो न संभवन्तितथाऽनुपलभ्यमानत्वात् ।
यद् यथाऽनुपलभ्यमानं तत् तथा न व्यवतिष्ठतेयथाऽग्निः शीतत
-
याऽनुपलभ्यमानस् तद्रूपतयाऽनुपलभ्यमानाश् चपुरुषार्थहेतुतया
परस्परनिरपेक्षाः सत्त्वादयो धर्माः क्वचिद् अवयवा वातस्मान् न
१०
पुरुषार्थहेतुतया व्यवतिष्ठन्त इति युक्त्यनुशासनंदृष्टागमाभ्या
-
म् अविरुद्धत्वात्, तथांशाः परस्परापेक्षाःपुरुषार्थहेतुतया व्यव
-
तिष्ठंते तथैव दृष्टत्वात् । यद् यथा दृष्टं तत् तथैवव्यवतिष्ठते, यथा
दहनो दहनतया दृष्टः, तत्स्वभावतया दृष्टाश् चपुरुषार्थहेतु
-
तयांऽशाः परस्परापेक्षाः तस्मात् तथैव व्यवतिष्ठंत इतिस्वभावो
-
१५
पलब्धिः स्वभावविरुद्धोपलब्धिर् वास्वपरपक्षविधानप्रतिषेधयो
-
र् बोद्धव्या । तथा नांशेभ्यो ऽṃशी पृथग् अस्तितथाऽनुपलभ्यमान
-
त्वात्, यद् यथाऽनुपलभ्यमानं तत् तथा नास्त्य् एव यथातेजः शीत
-
तया, सर्वदाऽनुपलभ्यमानश् चांशेभ्यः पृथगंशी तस्मान्ना
-
स्तीति स्वभावानुपलब्धिः । न चात्र दृष्टिविरोधःपरस्परविभि
-
२०
न्नानाम् अर्थानां सह्यविंध्यादीनाम् अंशांशिभावस्यादृष्टत्वात् । न
चागमविरोधस् तत्प्रतिपादकागमाभावात्, परस्परविभिन्नांशां
-
१२९
शिभावप्रतिपादकागमस्य युक्ति विरुद्धत्वादागमाभासत्वसिद्धेः ।
स्यान् मतम् अंशेभ्यो ऽṃशी पृथगेवपृथक्प्रत्ययविषयत्वात् । यो
यतः पृथक्प्रत्ययविषयः स
[[? ]
ततः पृथगेवयथास्तम्भेभ्यः कु
-
ड्यं, पृथक्प्रत्ययविषयश् चांशेभ्यो ऽṃशी, तस्मात् पृथगेवेति । तद् अप्य् अ
-
०५
सम्यक्, सर्वथा पृथक्प्रत्ययविषयत्वस्य हेतोरसिद्धत्वात् कथंचि
-
द् अपृथक्प्रत्ययविषयत्वात् । समवायाद् अपृथकप्रत्यय इतिचेत्,
न, सर्वथा भिन्नयोः समवायासंभवात् सह्यविंध्यवत् । संभव
-
न्न् अपि समवायः पदार्थान्तरभूतः कथम् इहांशेष्व् अंशीतिप्रत्यय
-
हेतुर् उपपद्यते ! सह्ये बिंध्य इतिप्रत्ययहेतुत्वप्रसंगात् । प्रत्या
-
१०
सत्तिविशेषादिहांशेष्व् अंशीति प्रत्ययम् उपजनयति समवायोन
पुनर् इह सह्ये विंध्य इति प्रत्ययम् उत्पादयतिप्रत्यासत्तिविशे
-
षाभावाद् इति चेत्, कः पुनः प्रत्यायसत्तिविशेषःसमवायसमवा
-
यिनोः संभाव्येत ? विशेषणविशेष्यभाव इति चेत्, तर्हि
समवायिनोः समवायो विशेषणं किम् अर्थान्तरभूतमनर्थान्तभूतं
१५
वा ? यद्य् अर्थान्तरभूतं विशेषणं तदांशांशिनोर् इवसह्यविंध्ययो
-
र् अपि समवायो विशेषणं स्याद् अर्थान्तरभूतत्वाविशेषात् । यदि
पुनर् अनर्थान्तरभूतं विशेषणं समवायः समवायिनोरग्नेर् औष्णयवद् उ
-
पवर्ण्यते तदा
[? ]
कथंचित्तादात्म्यम् एव समवाय इतिनांशेभ्यो
-
ऽṃशी सर्वथा पृथग् अवतिष्ठतेतत्समवायस्याविष्वग्भावलक्षणस्य
२०
कथंचित्तादात्म्यस्यैव प्रसिद्धेस् ततः परस्परापेक्षाएवांशांशिनः
पुरुषार्थहेतुर् इति निश्चितप्रायं । तद्वद् एव नयानैगमादयः पर
-
स्परापेक्षा एवासिक्रियायां दृष्टा इति घटनीयं । तथा हि
-
१३०
नैगमादयो नयाः परस्परापेक्षाः पुरुषार्थहेतवस्तथादृष्टत्वा
-
द् अंशांशिवत् । तद् अनेन स्थितिग्राहिणो द्रव्यार्थिकभेदानैगम
-
संग्रहव्यवहाराः, प्रतिक्षणम् उत्पादव्ययग्राहिणाश् चपर्यायार्थिक
-
भेदा ऋजुसूत्रशब्दसमभिरूढैवं भूताः परस्परापेक्षाएव वस्तु
-
०५
साध्यार्थक्रियालक्षणपुरुषार्थनिर्णयहेतवो नान्यथेतिदृष्टाग
-
माभ्याम् अविरुद्धम् अर्थप्ररूपणं यत् सत् तत् सर्वंप्रतिक्षणं स्थित्युदय
-
व्ययात्मकम् अन्यथा सत्त्वानुपपत्तेर् इति युक्त्यनुशासनमुदाहृतं
प्रतिपत्तव्यम् ।
ननु च परस्परनिरपेक्षाः नयाः क्वचिद् अपि पुरुषार्थमसा
-
१०
धयन्तो ऽपि सत्तामात्रेण व्यवस्थितिं प्रतिपद्यंत एवसांख्या
-
भिमतपुरुषवद् इति न मन्तव्यम् । तेषाम् असिक्रियायाम् अपिहेतु
-
त्वानुपपत्तेस् तद्वत्, यथैव हि परस्परनिरपेक्षा नयाःपुरुषार्थ
-
क्रियायां धर्मार्थकाममोक्षलक्षणायां हेतवो न संभवंतितथा
-
सिक्रियायाम् अपि सत्तालक्षणायां खरविषाणादिवत्, ततः
१५
परस्परापेक्षा एव प्रतिक्षणं स्थित्युत्पत्तिव्ययाः सत्त्वंवस्तुल
-
क्षणं प्रतिपद्यंत इत्य् अनेकांतसिद्धिः । स्याद् आकूतं, जीवादिव
-
स्तुनो ऽनेकांतात्मकत्वेन निश्चये स्वात्मनीव परात्मन्यपिरागः
स्यात् कथंचित् स्वात्मपरात्मनोर् अभेदात् तथा परात्मनीवस्वात्मन्य् अपि
द्वेषः स्यात् तयोः कथंचिद्भेदात्, रागद्वेषनिबंधनाश्चेर्ष्यासू
-
२०
यामदमानादयो दोषाः संसारहेतवः सकलविक्षेपकारिणः
स्वर्गापवर्गप्रतिबंधकारिणः प्रवर्त्तन्ते, ते चप्रवर्तमानाः
समत्वं मनसो निवर्त्त्ययन्ति, तद्विनिवर्तनं समाधिंनिरुणद्धीति
१३१
समाधिहेतुकं निर्वाणं कस्यचिन् न स्यात् ततोमोक्षकारणं मनः
-
समत्वं समाधिलक्षणम् इच्छता नानेकांतात्मकत्वंजीवादिवस्तु
-
नो ऽभ्युपगन्तव्यम् इति । तद् अपि न समीचीनम् इत्य् आहुः —
एकान्तधर्माभिनिवेशमूला
०५
रागादयो ऽहंकृतिजा जनानाम् ।
एकान्तहानाच् च स यत् तद् एव
स्वाभाविकत्वाच् च समं मनस्ते ॥
५२
॥
टीका —
एकान्तो नियमो ऽवधारणं, धर्मो नित्यत्वादिस्व
भावः, एकान्तेन निश्चितो धर्म एकान्तधर्म इतिमध्यमपद
-
१०
लोपी समासः । ऽतृतीयान्तात् क्त उत्तरपदेऽ इत्य् उपसंख्यानात्
"गुडेन संस्कृता धाना गुडधानाः" इत्यादिवत् । एकान्तधर्मेऽ
-
भिनिवेश एकान्तधर्माभिनिवेशः, नित्यम् एव सर्वथा नकथं
[? :
-
]
चिद् अनित्यम् इत्यादि मिथ्यात्वश्रद्धानं मिथ्यादर्शनम् इतियावत् ।
एकांतधर्माभिनिवेशो मूलं कारणं येषां तेएकान्तधर्माभिनिवे
-
१५
शमूलाः, रागादयो रागद्वेषमायामाना अनंतानुबन्धिनोऽप्रत्या
-
ख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश् च कषायाः,
तथा हास्यादयो नव नोकषायाश् चादिग्रहणेन गृह्यन्ते । ननु
च रागो लोभस् तदादयो दोषाः कथं मिथ्यादर्शनमूलाः
स्युर् असंयतसम्यग्दृष्ट्यादिषु सूक्ष्मसांपरायां तेषुमिथ्यादर्शना
-
२०
भावे ऽपि भावात् इति न मन्तव्यम्, तेषाम् अनन्तसंसारकार
-
णानां मिथ्यादर्शनाभावे संभवाभावात् मिथ्यादृशां मिथ्या
-
१३२
दर्शनसद्भाव एव भावात्मिथ्यादर्शनमूलत्वसिद्धेः । परेषां
पुनर् असंयतसम्यग्दृष्ट्यादिषु लोभादीनामसंयमप्रमादकषायपरि
-
णाममूलत्वे ऽपि मिथ्यादृशि मिथ्यादर्शनसद्भाव एव भावा
-
न् मिथ्यादर्शनमूलत्वसिद्धिः । यद्य् एवम् उदासीनावस्थायामपि
०५
मिथ्यादर्शनानाम् एकांतवादिनां रागादयो जायेरन्न् इति नशंक
-
नीयम् अहंकृतिजा इति वचनात् । अहंकृतिर् अहंकारो ऽहमस्य
स्वामीति जीवपरिणामः सामर्थ्याद् इदं मम भोग्यम् इत्य् आत्म
-
परिणामो ममकारः प्रतिपादितो भवति, अहंकृतेर् जाता अहं
-
कृतिजा ममकाराहंकारजा इत्य् अर्थः । तेन मिथ्यादर्शनप
-
१०
रिणाम एव यदा ममकारो ऽहंकारसचिवो भवति तदैवरागा
-
दीनुपजनयति न पुनर् उदासीनदशायाम् इत्य् एकान्ताभिनिवे
-
शमहामोहराजजनिता एव रागादयः ।
तथा चोक्तम् —
ममकाराहंकारौ सचिवाव् इव मोहनीयराजस्य
।
१५
रागादिसकलपरिकरपरिपोषणतत्परौ सततम्
॥ इति ॥
ननु च भवंतु नाम रागादयो ऽहंकारजन्मानो जानानांमोहवतां,
वीतमोहानां तु सत्य् अप्य् अहंकारे रागाद्यभावात् कथं तेतज्जाः
स्युर् इति न चोद्यं, मिथ्यादर्शनादिसहकारिण एवाहंकारस्यरागा
-
दिजनने सामर्थ्यात् तद्विकलस्यासामर्थ्यात् । न चावश्यंकारणा
-
२०
नि कार्यं जनयंति मुर्मुरांगांगारावस्थाग्निवत् । ननुचैकान्ताभिनि
-
वेशो मिथ्यादर्शनम् इति कुतो निश्चीयत इति चेत्, अनेकां
-
तात्मकस्यैव वस्तुनः प्रमाणतो निश्चयात्, सन्नयाच् चसम्यग् ए
-
१३३
कान्तस्य प्रतिपक्षापेक्षस्य व्यवस्थापनाच्चैकान्ताभिनिवेशस्य
मिथ्यादर्शनत्वप्रसिद्धेर् इति निर्णीतप्रायं । ततःसम्यग्दृष्टेर् ए
-
कांतहाने तद्विरोधिनो ऽनेकांतस्य निश्चयात्तस्यैवैकांतहानाच् च
स एकांतधर्माभिनिवेशो यत् तद् एव स्यात् यत् किंचित् स्यान् न
०५
स्याद् इत्य् अर्थः । सति ह्य् एकांतधर्मे कस्यचित्तदभिनिवेशः संभा
-
व्यते तस्य तद्विषयत्वात्, तदभावे तु यद् वास्तवं रूपमात्मनो
यथार्थदर्शनं तद् एव स्याद् एकांताभिनिवेशाभावस्यसम्यग्दर्श
-
नभावरूपत्वात्, तस्यैव स्वाभाविकत्वं सिद्ध्येद् आत्मनःस्वाभा
-
विकत्वाच् च समं मनस्ते तव भगवतो ऽर्हतोयुक्त्यनुशासने
१०
सद्दृष्टेर् भवतीति वाक्यार्थः । दर्शनमोहोदयमूले हिचारित्रमो
-
होदये जायमाना रागादयो जनानाम् अस्वाभाविका एव ते
-
षाम् औदयिकत्वात्, दृङ्मोहहानाच् च चारित्रमोहोदयहाने
रागादीनाम् अभवात् सम्यग्दर्शनज्ञानचारित्रपरिणामानां स्वा
-
भाविकत्वं । तत्सम्यग्दर्शनस्यौपशमिकत्वंक्षायोपशमिकत्वं
१५
क्षायिकत्वं वा स्वाभाविकत्वम् आत्मरूपत्वात् । सम्यग्ज्ञानस्यच
क्षायोपशमिकत्वं क्षायिकत्वं वा । सच्चारित्रस्य तुसद्दर्शनवदौ
-
पशमिकत्वादित्रयं स्वाभाविकत्वं न पुनः पारिणामिकत्वं
तस्य कर्मोपशमादिनिरपेक्षत्वात् । कथमसंयतसम्यग्दृष्टेः समं
मनः स्यादप्तंयमस्य
[? ]
रागद्वेषात्मनः सद्भावाद् इति चेत्, क्वचि
-
२०
द् एकांते रागाभावात् परत्र द्वेषाभावाच् चविवक्षिताविवक्षितयोर् ए
-
कान्तयोर् उदासीनत्वसिद्धेर् अविवक्षितस्याप्य् अनिराकरणात्, तन्मा
-
त्रस्य मनःसमस्य सद्भावाद् इति ब्रूमः । नन्व् एवमसंयतसम्यग्दृ
-
१३४
ष्टेर् अपि संयतत्वप्रसंगो मनसः समत्वस्यैवसंयमरूपत्वाद् इति
चेत्, क एवम् आह सर्वथा संयमस्याभावोऽसंयतसम्यग्दृष्टेर् इति
तस्यानंतानुबंधिकषायात्मनो ऽसंयमस्याभावात्संयतत्वसिद्धेः ।
कथम् अस्यासंयतत्वम् इति चेत्, मोहद्वादशकात्मनोऽसंयमस्य स
-
०५
द्भावात् तत एवानंतानुबंध्यप्रत्याख्यानकषायात्मनोऽसंयमस्या
-
भावात् प्रत्याख्यानसंज्वलनकषायात्मनो ऽसंयमस्यसद्भावात् सं
-
यतासंयतसम्यग्दृष्टिः समभिधीयते । नन्व् एवंप्रमत्तसंयतादि
सूक्ष्मसाम्परायान्तः संयतासंयतः प्रसज्येतसंज्वलनकषाया
-
त्मनो नोकषायात्मनश् चासंयमस्य सद्भावाद् इति चेत्, न,
१०
संज्वलनकषायादेर् असंयमत्वेनाविवक्षितत्वादुदकराजिसमानत्वेन
मोहद्वादशकाभावरूपसंयमाविरोधित्वात्परमसंयमानुकूलत्वाच् चेति
कषायप्राभृताद् अवबोद्धव्यम् । यथा चासंयतसम्यग्दृष्टेःस्वानुरूप
-
मनःसाभ्यापेक्षया समं मनः सिद्धं तथासंयतासंयतस्य च
नवविधस्येति न किंचिद् असंभाव्यं ततोऽनेकान्तयुक्त्यनुशा
-
१५
सनं न रागादिनिमित्तं तस्य मनः समत्वनिमित्तत्वात् ।
नन्व् अनेकान्तवादिनो ऽप्य् अनेकान्ते रागात् सर्वथैकान्ते च
द्वेषात् कथम् इव समं मनः स्यात् यतो मोक्ष उपपद्यते ? सर्वदा
मनःसमत्वे वा न बंध इति स्वमताद्वाह्यौ बंधमोक्षौस्यातां
मनसः समत्वे चासमत्वे च तदनुपपत्तेर् इति वदन्तंप्रत्याहुः —
२०
प्रमुच्यते च प्रतिपक्षदूषी
जिन ! त्वदीयैः पटुसिंहनादैः ।
१३५
एकस्य नानात्मतयाज्ञवृत्ते
-
स् तौ बंधमोक्षौ स्वमतादवाह्यौ ॥
५३
॥
टीका —
प्रतिपक्षं प्रतिद्वंद्विनं दृषयति निराकरोत्य् एवंशीलः
प्रतिपक्षदूषी प्रतिद्वान्द्विनिराकारी नित्यत्वैकान्तवादीक्षणिका
-
०५
द्येकान्तवादी च । स प्रमुच्यते च प्रमुच्यतएवानेकांतवादिना न
पुनस् तत्र द्वेषः क्रियते सामर्थ्यात् प्रतिपक्षस्वीकारीवाऽनेकांतवादी
स्वीकृत एव न पुनस् तत्र रागः क्रियत इति चशब्दस्यैवकारार्थ
-
त्वाद् व्याख्यायते । कैः पुनर् हेतुभूतैर् इत्य् उच्यते — जिन !त्वदीयैः
पटुसिंहनादैः । किं रूपतयेत्य् अभिधीयते — एकस्यनानात्मतयेति
१०
स्याद् एकम् एव वस्तु स्यान् नानात्मेत्य् आदायः शब्दाः सिंहनादाः ।
सिंहनादा इव सिंहनादा इति समाधिः शब्दान्तरैर्न्यक्कर्तुमश
-
क्यत्वात् । यथैव हि सिंहनादा कुंजरादिनादैर् नतिरस्कर्तुं श
-
क्यन्ते तथा जिननाथस्य नादाः सम्यगनेकान्तप्रतिपादकाः
क्षणिकाद्येकान्तप्रतिपादकैः सुगतादिशब्दैर् न कथंचिन्निराक्रि
-
१५
यन्ते इत्य् उक्तं भवति । पटवश् चैते निःसंशयत्वात्सिंहनादा
-
श् चाबाध्यत्वात् पटुसिंहनादास् तैर् एव हेतुभूतैःप्रतिपक्षदूषी प्रमु
-
च्यते व्यवच्छिद्यते युक्तिशास्त्राविरोधिभिःपरमागमवाक्यैर् ना
-
नात्मकैकवस्तुनिश्चयस्यैव सर्वथैकान्तप्रमोचनस्यसिद्धेस् तत्र
द्वेषासंभवाद् अनेकान्तरागासंभववत् । न हि तत्त्वनिश्चयएव
२०
रागः क्षीणमोहस्यापि रागप्रसंगात्, नाप्य् अतत्त्वव्यवच्छेदएव
द्वेषः शक्यः प्रतिपादयितुं यतो ऽनेकांतवादिनः समं मनोन
भवेत्, तन् निमित्तश् च मोक्षः कथं न स्यात् ? न चसर्वथा सम
-
१३६
त्वमेव मनसः सर्वत्र सर्वदोत्पद्यते यतोरागद्वेषाभावाद् बंधाभावः
प्रसज्येत ? कथंचित् क्वचित् किंचित् कदाचित् गुणस्थानापे
-
क्षया पुण्यबंधस्योपपत्तेस् ततस् तौ बंधमोक्षौ स्वमतादनंतात्मकत
-
त्त्वविषयादवाह्यौ तत्रैव भावात् तयोर् ज्ञवृत्तेः । जानातीति ज्ञ
०५
आत्मा । ज्ञे वृत्तिर् ज्ञवृत्तिस् तत इति प्रधाने नैकात्ममन्यपि तौ
तस्याज्ञत्वाद् इति निवेदितं भवति ।
स्यान् मतं, नैकस्य नानात्मनो ऽर्थस्य प्रतिपादकाःशब्दाः
षटुसिंहनादाः प्रसिद्धाः सौगतानाम् अन्यापोहसामान्यस्यवागा
-
स्पदत्वाद् वाचां वस्तुविषयत्वासंभवाद् इति । तद् असद् एवयस्मात् —
१०
आत्मान्तराभावसमानता न
वागास्पदं स्वाश्रयभेदहीना ।
भावस्य सामान्यविशेषवत्त्वा
-
द् ऐक्ये तयोर् अन्यतरन्निरात्म ॥
५४
॥
टीका —
गोः स्वभावादन्यः स्वभावः स्वभावान्तरम् आत्मान्त
-
१५
रमगवात्मा ? तस्याभावो व्यावृत्तिः स एव समानता सामा
-
न्यं, सा वाचाम् आस्पदं न भवत्य् एव, कीदृशी सा नवागास्पदं,
स्वाश्रयभेदहीना स्वस्था आत्मान्तराभावसमानताया आश्रयाः
स्वाश्रयाः । स्वाश्रयास् ते च भेदाश् च, तैर् हीनाअन्यापोहसामा
-
न्यविशेषवाक्शून्येति यावत् । कुतः सा न तादृशी वागास्पद
-
२०
म् इति साध्यते ? भावस्य वस्तुनः सामान्यविशेषवत्त्वात् । ननु
च समान्यविशेषवत्त्वे ऽपि भावस्य सामान्यस्यैववागास्पदत्वं
१३७
युक्तं विशेषस्य तदात्मकत्वात् सामान्यविशेषयोरैक्यसिद्धिर् इति
वचने दूषणम् उच्यते — ऐक्ये तयोः सामान्यविशेषयोरन्यतरत्सा
-
मान्यरूपं विशेषरूपं वा निरात्म स्यात् । तत्र विशेषरूपस्य
निरात्मत्वे तदविनाभाविनः सामान्यरूपस्यापिनिरात्मत्वापत्तेः
०५
सर्वं निरात्मकत्वं प्रसज्येत, सामान्यरूपस्य चनिरात्मत्वे
विशेषरूपस्यापि तदविनाभाविनो निरात्मत्वानुषंगान् न तयोरै
-
क्यम् अभ्युपगन्तव्यम् ।
ननु च सर्वगतं सामान्यं विशेषैर् अश्लिष्टम् एववागास्पदं,
न पुनरात्मान्तरापोहसामान्यं तस्यावस्तुत्वाद् इति वदंतंप्रति
१०
वदन्ति —
अमेयम् अश्लिष्टम् अमेयम् एव
भेदे ऽपि, तद्वृत्त्यपवृत्तिभावात् ।
वृत्तिश् च कृत्स्नांशविकल्पतो न,
मानं च नानन्तसमाश्रयस्य ॥
५५
॥
१५
टीका —
नियतदेशकालाकारतया न मीयत इत्य् अमेयं, सर्व
व्यापि नित्यं निराकारं सत्त्वादिसामान्यं तदश्लिष्टं विशेषैर
-
मेयम् एवाप्रमेयम् एव प्रमाणतः प्रमातुम् अशक्तेः । प्रत्यक्षतस् तत्प्रमिति
-
र् अप्रसिद्धा तत्र तदप्रतिभासनात् ब्रह्मवत् । नाप्यनुमानतस् तत् प्र
-
मीयते तदविनाभाविलिंगाभावात् । सत् सदित्याद्यनुवृत्तिप्रत्य
-
२०
यो लिंगम् इति चेत् न, असद् असद् इत्याद्यनुवृत्तिप्रत्ययेनव्यभिचा
-
रात्, तस्यासत्त्वसामान्याभावे ऽपि भावात्पदार्थत्वसामान्याभा
-
१३८
वे ऽपि षट्सु पदार्थेषु पदार्थः पदार्थ इत्यनुवृत्तिप्रत्ययस्य सिद्धेः ।
स्यादाकूतं, प्रागसदादिष्व् असद् असद् इत्य् अनुवृत्तिप्रत्ययेनन व्यभि
-
चारस् तस्य मिथ्यात्वात् न हि सभ्यगनुवृत्तिप्रत्ययस्यमिथ्यात्वानु
-
वृत्तिप्रत्ययेन व्यभिचारो युक्तो ऽतिप्रसंगाद् इति । तद् अप्यसम्यक्,
०५
तस्य मिथ्यात्वासिद्धेः । प्रागसदादिषु मिथ्यैवासद् इत्यनुवृत्ति
-
प्रत्ययो बाधकसद्भावाद् इति चेत्, किं तद्बाधकं ? प्रागभावादयो
न सामान्यवंतो द्रव्यगुणकर्मभ्यो ऽन्यत्वात्सामान्यविशेषसमवा
-
यवद् इत्य् अनुमानं तद्बाधकं । तदविषयस्य सामान्यस्यतेन निराकर
-
णाद् इति चेत्, न, अस्यानुमानस्य साध्याविनाभावनियमनिश्च
-
१०
यासत्त्वात् । यस् तु सामान्यवान् न स द्रव्यगुणकर्मभ्यो ऽन्योयथाऽ
-
यम् अर्थ इति व्यतिरेकाश्रयासिद्धिः । स्यान् मतिर् एषाद्रव्यादिपदार्थ
-
त्वेन सामान्यवत्त्वं व्याप्तं विनिश्चित्य प्रागभावादिषुद्रव्य
-
गुणकर्मपदार्थत्वस्य व्यापकत्वस्याभावात् तद्व्याप्यस्यसामा
-
न्यत्वस्याभावः साध्यते ततो नाविनाभावनियमो ऽसिद्ध इति,
१५
साऽपि न साध्वी द्रव्यादिपदार्थत्वेन सामान्यवत् त्व् अस्यव्याप्त्य
-
सिद्धेस् तेषाम् अपि सामान्यशून्यत्वात् । तथा हि — सामान्यशून्यानि
द्रव्यगुणकर्माणि तत्त्वात्मकत्वात् प्रागभावादिवत् । नेहसाध
-
नशून्यो दृष्टान्तः प्रागभावादेर् असद्वर्गस्यतत्त्वरूपत्वाभ्यनु
-
ज्ञानात् सदसद्वर्गस् तत्त्वम् इति वचनात् तस्यातत्त्वरूपत्वेसर्वत्रा
-
२०
सत्प्रत्ययस्य मिथ्यात्वापत्तेरनाद्यनंतसर्वात्मतत्त्वानुषंगात् ।
तथा चोक्तम् —
"कार्यद्रव्यम् अनादि स्यात् प्रागभावस्य निह्नवे
।
१३९
प्रध्वंसस्य च धर्मस्य प्रच्यवे ऽनंततांव्रजेत्
॥
सर्वात्मकं तदेकं स्याद् अन्यापोहव्यतिक्रमे
।
अन्यत्र समवायेन व्यपदिश्येत सर्वथा
॥ " इति ।
द्रव्यगुणकर्माणि सामान्यवंति मुख्यसद्वर्गत्वात्, ये
०५
तु न सामान्यवंतस् ते न मुख्यसद्वर्गां यथासामान्यविशेषस
-
मवाया इति केवलव्यतिरेकिणानुमानेन प्रतिपक्षेण सत्प्र
-
तिपक्षत्वात् सामान्यवत्त्वाभावसाधनस्य तत्त्वात्मकत्वा
-
द् इत्य् एतस्य हेतोर् न गमकत्वम् इति चेत्, नाऽस्यप्रतिपक्षानुमा
-
नस्य प्रत्यक्षबाधितविषयतया कालात्ययापादिष्टत्वात् । नहि
१०
प्रत्यक्षबुद्धौ द्रव्यादिषु सामान्यम् एकं पदार्थान्तरंप्रतिभासते
समानानि द्रव्याणीमानि गुणा वा कर्माणि वेति प्रतिभास
-
नात् सदृशपरिणामस्यैव प्रतीतेस् तद् अयम् अनुवृत्तिप्रत्ययस्तद् एवेदम् इ
-
त्य् आकारो ऽसिद्ध एवेति । न सामान्ये लिंगं यतः सामान्यमनु
-
मानतो मेयं स्यात् । तत एव नागमतो मेयंयुक्त्यननुगृहीत
-
१५
स्यागमस्याप्रमाणत्वाद् अन्यथाऽतिप्रसंगात् । न चोपमानतोमेयं
सामान्यसदृशस्य कस्यचिद् वस्तुनो ऽसंभवाद् इति न सामान्यं
तद्वतो भिन्नम् अनियतदेशकालाकारं प्रमेयम् अवतिष्ठते । तथा भे
-
दे
[? :’]
प्य् अभ्युपगम्यमाने सामान्यस्य स्वाश्रयेभ्यो न तत्प्रमेयं तद्वृ
-
त्त्यपवृत्तिभावात् । तेषु द्रव्यादिषु वृत्तिस् तद्वृत्तिस् तस्याअपवृ
-
२०
त्तिर् व्यावृत्तिस् तस्या भावः सद्भावस् तस्मात्तद्वृत्त्यपवृत्तिभा
-
वान् न सामान्यं प्रमेयं भेदे ऽपीत्य् अर्थः । सामान्यस्यस्वाश्रयेषु
वृत्तिर् न तावत् संयोगः कुंडे वदरवत् संभवतितस्याद्रव्यत्वात्
१४०
संयोगानाश्रयत्वात्, संयोगस्य द्रव्यनिष्ठत्वात् । नाऽपि सम
-
वायो वृत्तिस्तस्यायुतसिद्धिविषयत्वात्, न च सामान्यतद्वतोर
-
युतसिद्धिः संभवति । सा हि शास्त्रीया वा स्याल् लौकिकी वा ? न
तावत् शास्त्रीया तयोः पृथगाश्रयाश्रयित्वेन युतसिद्धेर् एवसंभवात्,
०५
पृथगाश्रयाश्रयित्वं युतसिद्धिर् इति वचनात् । यथैव हिकुंडे
परमाणुर् इत्य् अत्र परमाणोः पृथग्भूतेषु कुंडावयवेषुस्वाश्रयेषु कुंड
-
स्याश्रयित्वं पृथगाश्रयित्वं तथा सामान्यात्पृथग्भूतेषुस्वाश्रयेषु
द्रव्यादेर् आश्रयित्वं पृथगाश्रयित्वं युतसिद्धिलक्षणंविद्यत एव ।
यदि पुनः कुंडस्य स्वाश्रयेषु स्वावयवेषु वदरस्य चस्वावय
-
१०
वेष्व् आश्रयेष्व् आश्रयित्वम् इति कुंडवदरयोःपृथगाश्रयाश्रयित्वं पृथ
-
गाश्रययोर् आश्रयणी पृथगाश्रयणी तयोर् भावःपृथगाश्रयाश्रयित्वं
चतुराश्रयम् एवाभिधीयते तदा कथम् इह कुंडे परमाणुरिति परमा
-
णुकुंडयोर् युतसिद्धिः स्यात् तल्लक्षणाभावात् । अथ मतमेतत्, न
परमाणोः कुंडे वृत्तिस् तस्य निरवयवत्वाद् आकाशादिवत् । तद
-
१५
प्य् असारं, भवदभ्युपगतस्य सामान्यस्य निरवयविनोगुणादेश् च
क्वचिद् वृत्त्यभावप्रसंगान् निरंशत्वाविशेषात्, परमाणुकुंडयोर् युतसि
-
द्ध्यभावे चायुतसिद्धिप्रसंगात् संयोगविरोधात्समवायप्रसंगो दु
-
र्निवार इति तयोः संयोगम् इच्छता पृथगाश्रयाश्रयित्वंयुतसि
-
द्धिलक्षणं त्र्याश्रयम् अपि प्रतिपत्तव्यं । नित्यानां चपृथग्गति
-
२०
मत्त्वम् इति लक्षणांतरस्यासंभवाद् आत्माकाशादीनामयुतसिद्धि
-
प्रसंगात् तद्वत्सामान्यतद्वतोर् अपि तत्सिद्धम् इति नशास्त्रीयाऽयुत
-
सिद्धिः । नाऽपि लौकिकी देशकालाभेदलक्षणा दुग्धांभसोर
-
१४१
प्य् अयुतसिद्धिप्रसंगात् ततो न सामान्यस्यद्रव्यादिषु वृत्तिः संभ
-
वति । ऽवृत्तिश् च कुत्स्नांशविकल्पतो नऽवृत्तिरभ्युपगम्यमानापि
सामान्यस्य तद्वस्तुनेति संबंधः, चशब्दस्यापिशब्दार्थत्वात् ।
तथा हि — कुत्स्नविकल्पे वृत्तिः स्याद् अंशविकल्पे वा ? न तावत्
०५
कुत्स्नविकल्पे कृत्स्नस्य सामान्यस्य देशकालाकारभिन्नासु
व्यक्तिषु सकृद्वृत्तिः साधयितुं शक्यासामान्यबहुत्वप्रसंगात्
तस्यैकस्यानंशस्य तदयोगात्, सामान्यंयुगपद्भिन्नदेशकालव्य
-
क्तिसंबंधि सर्वगतनित्यामूर्तत्वाद् आकाशवद् इत्य् अनुमानमपि न
सम्यक् । साधनस्येष्टविघातकारित्वात् । यथैव ह्य् अयंहेतुः सा
-
१०
मान्यस्य युगपद्भिन्नदेशकालव्यक्तिसंबंधित्वं साधयतितथा
सांशत्वम् अपि व्योमवद् एव, निरंशेसकृत्सर्वगतत्वविरोधाद् एकपर
-
माणुवत् । ननु निरंशम् एवाकाशम् अकार्यद्रव्यत्वात्परमाणुवत्, यत् तु
सांशं तत्कार्यद्रव्यं दृष्टं यथा पटादिकम् अकार्यद्रव्यंचाकाशं
तस्मान् निरंशम् एव तद्वत् सामान्यम् इति नेष्टविघातकारीहेतुः सर्व
-
१५
गतत्वादि स्वेष्टसाध्यसाधनत्वाद् इति चेत्, किमनेनाकार्यद्र
-
व्यत्वेनारंभकाभावान् निरंशत्वं साध्यते, स्वात्मभूतप्रदेशाभावा
-
द् वा ? प्रथमविकल्पे सिद्धसाध्यता स्यादाकाशस्यारंभकावय
-
वानभ्युपगमात् निरवयवत्वसिद्धेः । द्वितीयविकल्पे तुसाध्य
-
शून्यो दृष्टांतः परमाणोर् अपि स्वात्मभूतेनैकेन प्रदेशेनसांशत्व
-
२०
व्यवस्थितेः । स्याद्वादिनां मते साधनशून्यश् च दृष्टांतःपरमाणो
र् अकार्यद्रव्यत्वासिद्धेः ।
स्यान् मतं ते ऽकार्यद्रव्यं परमाणुर् आरंभकरहितत्वादाकाशव
-
१४२
द् इति । तद् अप्य् अतथ्यं हेतोर् असिद्धत्वात् । आरंभकरहितत्वं हि
यद्य् उत्पादककारणरहित्वं हेतुस् तदा परमाणोर्द्व्यणुकविनाशा
-
द् उत्पत्तिः कथं सिध्येत् ? द्व्यणुकविनाशो न परमाणोरुत्पादकः
संभवति द्व्यणुकोत्पादात् पूर्वम् अपि सद्भावात् । कालादिवदिति
०५
चेत्, न, तस्य द्व्यणुकोत्पादे विनाशाद् अविनाशे तु द्व्यणुका
-
दिकाले ऽपि प्रतीतिप्रसंगात् । तथा च घटप्रतीतिकाले ऽपिघ
-
टारंभकपरमाणूपलब्धिः कथं वार्येत ?
स्यान् मतं — पटप्रतीतौ तदारंभकास् तंतवः प्रतीयन्तएव सा
-
क्षात् परंपरया तु तदारंभकाः परमाणवोऽस्मदाद्यप्रत्यक्षत्वान् न
१०
प्रतीयन्ते ऽस्मदादिभिर् अनध्यक्षतस् तेषाम् अनुमेयत्वात् । तथा हि
द्व्यणुकावयवि द्रव्यं स्वपरिमाणाद् अणुपरिमाणकारणारब्धंका
-
र्यद्रव्यत्वात् पटादिवत् यद् द्व्यणुकपरिमाणकारणं तौपरमाणू स
-
मनुमीयेते । परमाणोः कारणस्यासंभवान् नतदारभंकत्वं संभाव्यते
यतस् तस्य कार्यद्रव्यत्वं स्यात् ततो नाकाशादेर् अनंशत्वेसाध्ये
१५
परमाणुवद् इति दृष्टांतः साधनशून्य इति । तद् एतद् अपिस्वदर्श
-
नरुचिप्रकाशनमात्रं, परमाणोर् अप्य् अनुमानात्कार्यद्रव्यत्वसिद्धेः ।
तथा हि — परमाणवः स्वपरिमाणान्महापरिमाणावयविस्कंधवि
-
नाशकारणकास् तद्भावभावित्वात् कुंभविनाशपूर्वककपालवत्य
-
द् विनाशात् परमाणवः प्रादुर्भवंति तत् द्व्यणुकादि द्रव्यमित्य् अनुमा
-
२०
नसिद्धं परमाणोः कार्यद्रव्यत्वं ततः साधनशून्यमेवोदाहरणं ।
न च परमाणूनां स्कन्धविभेदनभावभावित्वम् असिद्धंद्वयणुका
-
दिविनाशस्य भावे सद्भावाभ्युपगमात् । सर्वदास्वतंत्रपरमा
-
१४३
णूनां स्कन्धभेदम् अन्तरेणाभावाद् असिद्धोव्यतिरेकस् ततस् तद्भाव
एव भवनशीलत्वाभावाद् असिद्धं साधनम् इति चेत्, न, सदा
स्वतंत्रपरमाणूनाम् असंभवात् । तथा हि — विवादापन्नाःपरमाणवः
स्कंधभेदपूर्वकाः परमाणुत्वात्द्व्यणुकादिभेदपूर्वकपरमाणु
-
०५
वद् इति न ते सर्वदा स्वतंत्रास् ततस् तद्भावभावित्त्वंसाधनं सिद्ध
-
म् एव । एतेन कपालानां कुंभभेदकारणत्वं साधितंतद्भावभावि
-
त्वाविशेषात् । ननु च पटभेदपूर्वकाणां केषांचित् तन्तूनामुपलंभा
-
त् तद्भावे भावस्य प्रसिद्धाव् अपि परेषांपटपूर्वकालभाविनां पटभे
-
दाभावे ऽपि भावान् न तद्भाव एव भावः सिध्येद् इति चेत्न,
१०
तेषाम् अपि कार्पासप्रवेणीभेदपूर्वकत्वेनोपालंभात्स्कंधभेदपूर्वक
-
त्वसिद्धेः । स्यान् मतं, महापरिमाणप्रशिथिलावयवकार्पासपिं
-
डसंघातपूर्वकस्याल्पपरिमाणघनावयवकार्पासपिंडस्यस्कंधभे
-
दम् अन्तरेण भावात् कथं परमाणूनांस्कंधभेदपूर्वकत्वसिद्धि
-
र् इति । तद् अप्य् असत्, परमाणूनाम् एवस्कंधभेदपूर्वकत्वनियमसाध
-
१५
नात्, परेषां स्कंधानां स्कंधान्तरसंघातपूर्वकत्वस्याऽपिप्रसि
-
द्धेः, यद् धि यद्भावभाव्येव प्रसिद्धं तत्कारणम् इतिस्याद्वादिनां
मतं, ततो ये स्कंधभेदभावभाविन एव तेस्कंधभेदपूर्वका एव
यथा परमाणवो ऽभेदादणुर्ऽ इति वचनात् । ये तुसंघातभाव
-
भाविन एव ते संघातपूर्वका एव यथा घनः कार्पासपिंडैति
२०
सर्वम् अनवद्यं परमाणोर् अपि कार्यद्रव्यत्वसिद्धेः । तदेवम् आकाश
-
म् अनंशम् अकार्यद्रव्यत्वात् परमाणुवद् इत्य् अनुमानं नसाध्यसिद्धि
-
निबंधनम् उदाहरणस्य साधनविकलत्वाद् धेतोश्चासिद्धत्वात् पर्या
-
१४४
यार्थादेशाद् आकाशस्यापि कार्यद्रव्यत्वसिद्धेःस्याद्वादिनां सर्वथा
नित्यस्य कस्यचिद् अर्थस्याभावात् । खस्यानंशत्वाप्रसिद्धौचानं
-
शं सामान्यं सर्वगतत्वाद् आकाशवद् इत्य् अत्र साध्यशून्यत्वादुदा
-
हरणस्य नातः सामान्यस्य निरंशत्वसिद्धिः । सर्वगतत्वादित्य् अस्य
०५
हेतोर् असिद्धत्वाच् च न हि सामान्यं सर्वं सर्वगतंप्रमाणतः
सिद्धं । सत्तामहासामान्यं सर्वं सर्वगतं सिद्धम् एवसर्वत्र सत्प्र
-
त्ययहेतुत्वाद् इति चेत् न, तस्यानंतव्यक्तिसमाश्रयस्यैकस्य
ग्राहकप्रमाणाभावात् । तद् एवाहुः
सूरयः
—
"मानं च नानंतसमाश्रयस्य" इति ।
१०
न ह्य् अनंतसद्व्यक्तिग्रहणम् अन्तरेण तत्र सकृत् सन्निति प्रत्ययस्यो
-
त्पत्तिर् असर्वविदां संभवति यतः सर्वत्रसत्प्रत्ययहेतुत्वं सिद्ध्ये
-
त् । तदसिद्धौ च न तदनुमानं प्रमाणं सामान्यस्यानंत
-
समाश्रयस्यास्तीति न कृत्स्नविकल्पतो वृत्तिः सामान्यस्य
सामान्यबहुत्वप्रसंगाद् इति स्थितं । एतेन व्यक्तिसर्वगतंसामा
-
१५
न्यं कुत्स्नतः स्वाश्रयेषु प्रवर्त्तत इति वदन्न् अपिनिरस्तः तस्या
-
प्य् अनंतव्यक्तिसमाश्रयस्य मानाभावाविशेषात् । एतेन देशतः
सामान्यस्य स्वाश्रयेषु वृत्तिर् इत्य् अपि विकल्पो दूषितः, देशतो
ऽनंतेषु स्वाश्रयेषु युगपत्सामान्यस्य वृत्तिर् इत्य् अत्रप्रमाणाभा
-
वात्, ततो ऽस्मिन्न् अपि पक्षे "मानं च नानंतसमाश्रयस्य"इति
२०
संबंधनीयं । सप्रदेशत्वप्रसंगाच् च सामान्यस्य नचैवम् अभ्युपगन्तुं
युक्तं स्वसिद्धान्तविरोधात् तस्य निरंशत्ववचनात् । ततोनैकं
सामान्यम् अमेयरूपं कुतश्चित् प्रमाणात् सिद्धं यतस् तदमेयम् एव न स्यात् ।
१४५
संप्रति सामान्यम् अनंतसमाश्रयम् अप्रमाणकमवस्थाप्य पक्षां
-
तरम् अनूद्य दूषयंति —
नानासदेकात्मसमाश्रयं चे
-
द् अन्यत्वम् अद्विष्ठमनात्मनोः क्व ।
०५
विकल्पशून्यत्वम् अवस्तुनश् चे
-
त् तस्मिन्न् अमेये क्व खलु प्रमाणम् ॥
५६
॥
टीका —
नाना च तानि संति च नानासंति विविधद्र
-
व्यगुणकर्माणि तेषां नानासताम् एकात्मा सदात्मा वा द्रव्या
-
त्मा वा गुणात्मा वा कर्मात्मा वा स एवाश्रयो यस्य सामा
-
१०
न्यस्य तन्नानासदेकात्मसमाश्रयं । एको हि सदात्मा समा
-
श्रयः सत्तासामान्यस्य स चैकसद्व्यक्तिप्रतिभासकाले
प्रमाणतः प्रतीयत एवतदन्यद्वितीयादिसद्व्यक्तिप्रतिपत्ति
-
काले ऽपि स एवाभिव्यक्तताम् इयर्तीति तन्मात्राश्रयस्य सामा
-
न्यस्य प्रमाणं ग्रहणनिमित्तम् अस्त्य् एवतस्यानंतस्वभावासमाश्रयस्यैव
१५
मानं नास्तिति व्यवस्थितेः । तथैको द्रव्यात्मा समाश्रयोद्रव्य
-
त्वसामान्यस्य, गुणात्मा गुणत्वसामान्यस्य, कर्मात्माकर्मत्वसा
-
मान्यस्येति, तस्यैकां द्रव्यव्यक्तिं द्वितीयां च प्रतीयन्द्रव्यस्व
-
भावम् एकम् एव प्रत्येति तत्समाश्रयं च द्रव्यत्वसामान्यमिति स
-
दात्मा समाश्रयः, न तस्यामानता, एवं गुणव्यक्तीःकर्मव्यक्तीर् वा
२०
द्विव्
[? :त्र्]
आः पश्यन् गुणस्वभावं कर्मस्वभावं चपश्यतीति गुणैका
-
त्मसमाश्रयं कर्मैकात्मसमाश्रयं वा गुणत्वसामान्यंकर्मत्वसा
-
१४६
मान्यं वा प्रत्येतुं प्रमाणतः शक्नोतीति नतस्याप्रमाणता
शक्या समापादयितुम् अनंतसमाश्रयस्यैव सामान्यस्यमानताऽघ
-
टनाद् इति यदि मन्यन्ते सामान्यवादिनस् तदैवंप्रष्टव्याः
-
[? :ओम्]
किम् एतत् सामान्यं स्वव्यक्तिभ्यो ऽन्यद् अनन्यद् वा ? न तावदन्यत्व
-
०५
म् अस्य सदेकस्वभावाश्रयसामान्यस्य स्वव्यक्तिभ्यो भेदेतासाम् अ
-
सदात्मकत्वप्रसंगात् प्रागभावादिवत्, व्यक्तेर् असदात्मकत्वेच सत्सा
-
मान्यस्याप्य् असदात्मकत्वापत्तिर् असद्व्यक्तित्वाद् अभावामात्रवत् । तत
-
श् चानात्मनोर् व्यक्तिसामान्ययोर् अन्यत्वं क्व स्यान् नैव स्यादित्य् अर्थः । त
-
द् अद्विष्ठम् इह प्रसिद्धं द्वयोर् अभावे पुनरद्विष्ठमन्यत्वं क्वेति संबंधनीयं
१०
एवं द्रव्यव्यक्तेर् द्रव्यैकात्मसमाश्रयस्यद्रव्यत्वसामान्यस्य भेदे ऽ
-
प्य् अद्रव्यत्वप्रसंगो गुणादिवत् । तदद्रव्यत्वे चद्रव्यत्वसामान्य
-
स्यानात्मत्वापत्तिर् इत्य् अनात्मनोर्द्रव्यव्यक्तिद्रव्यत्वसामान्ययोर् अ
-
न्यत्वं क्व स्यात् ? तस्याद्विष्ठत्वेन च द्वयोर् अभावेक्वाद्विष्ठमन्यत्वम् इति
घटनीयं । तथा गुणत्वसामान्यस्य कर्मत्वसामान्यस्यचैकगु
-
१५
णात्मसमाश्रयस्यैककर्मात्मसमाश्रयस्य च गुणव्यक्तेःकर्मव्य
-
क्तेर् वा भेदे गुणव्यक्तेर् अगुणत्वप्रसंगः कर्मव्यक्तेश्चाकर्मत्वप्रसंग
-
स् तदनात्मकत्वे च गुणत्वसामान्यस्य कर्मत्वसामान्यस्यचाऽ
-
नात्मकत्वापत्तिर् इत्य् अनात्मनोर् गुणव्यक्तिगुणत्वसामान्ययोःकर्म
-
व्यक्तिकर्मत्वसामान्ययोश् चान्यत्वं क्व स्यात् ? द्वयोर् अभावेचा
-
२०
द्विष्ठम् अन्यत्वं क्वेति प्रतिपत्तव्यं ततो नान्यत् सामान्यंस्वव्यक्तिभ्यो
व्यवतिष्ठते । नाऽप्य् अनन्यत्, सामान्यस्य व्यक्तौ प्रवेशेव्यक्तिर् एव
स्यान् न च सामान्याभावे सा संभवतीत्य् अनात्मा स्यात्तदनात्मत्वे
१४७
सामान्यस्याप्य् अनात्मत्वम् इत्य् अनात्मनोर्व्यक्तिसामान्ययोर् अनन्यत्वं
क्व्
[? ]
एति योजनीयं । न च तद्द्विष्ठम् अनन्यत्वम् अस्तीतिक्वानन्यत्वं ।
एतेनोभयम् अपि निरस्तम् उभयदोषानुषंगात् । ननु चवस्तुभूतस्य
सामान्यस्यानभ्युपगमाद् अवस्तुन एव सामान्यस्यान्यापोहलक्ष
-
०५
णस्येष्टत्वात् तस्य चान्यत्वानन्यत्वादिविकल्पशून्यत्वंखरविषा
-
णवद् इति चेत्, तर्हि तस्मिन्न् अवस्तुनि सामान्ये क्व खलुप्रमाणं
संप्रवर्त्तेत नैव किंचित् प्रमाणं स्यात् तस्यामेयत्वादन्यापोहस्य
सर्वप्रमाणातिक्रान्तत्वात् । तथाहि — न तावत् प्रत्यक्षमवस्तुनि प्रव
-
र्त्तते तस्य वस्तुविषयत्वात् । नाप्य् अनुमानं लिंगाभावात् । न हि
१०
तत्र स्वभावलिंगं निःस्वभावस्यावस्तुनःस्वभावविरोधात्, स्व
-
भावस्य कस्यचित् सद्भावे वस्तुत्वप्रसंगात् । नाऽपिकार्यलिंगं सक
-
लकार्यशून्यत्वाद् अवस्तुनः, कस्यचित् कार्यस्य भावेतस्यावस्तुत्व
-
विरोधात् । तत्रानुपलंभो लिंगम् इति चेत्, सो ऽपि क्वचिदग्नौ
तदन्यस्यानग्नेर् अभावो ह्य् अन्यापोहः सामान्यं, तस्यचानग्नेः क
-
१५
स्यचिद् एवोपलब्धिलक्षणप्राप्तस्य जलादेर् अनुपलंभः स्यात्सर्वस्य
वा ? प्रथमविकल्पे न सर्वस्माद् अनग्नेर् अपोहः सिध्येत् । द्वितीय
-
विकल्पे देशकालस्वभावविप्रकृष्टस्यद्वीपान्तररावणपरमाष्वा
-
देर् अनग्नेर् अनुपलब्धिलक्षणप्राप्तस्यानुपलंभः कथमभावं क्वचिद् अग्नौ
साधयेद् अभावव्यवहारं वा स्वाभ्युपगमविरोधाद् इति, नावस्तु
२०
सामान्यं केनचित् प्रमाणेन मेयं, तस्मिंश् चामेये क्व खलुप्रमाणं
प्रवर्त्तते पराभ्युपगतवस्तुभूतसामान्यवद् इति न किंचित्सामान्यं
परेषां व्यवतिष्ठते प्रमाणाभावात् ।
१४८
ननु चानुवृत्तिप्रत्ययलिंग सामान्यं कथमप्रमाणम् इत्य् अपरे ।
अतद्व्यावृत्तिप्रत्ययसाध्यमन्यापोहसामान्यम् इत्य् अन्ये । स्वस्वसं
वेदनमात्रं साध्यं सन्मात्रं शरीरं व्
[? :ब्]
रह्मेति केचित्संप्रतिपद्यन्ते,
तान् प्रति प्राहुर् आचार्याः —
०५
व्यावृत्तिहीनान्वयतो न सिद्ध्ये
-
द् विपर्यये ऽप्य् अद्वितये ऽपि साध्यम् ।
अतद्व्युदासाभिनिवेशवादः
पराभ्युपेतार्थविरोधवादः ॥
५७
॥
टीका —
येषां तावत् — द्विविधं सामान्यं परमपरं चेतितेषां
१०
च न परं सामान्यं सत्ताख्यं साध्यं सद् इत्य् अन्वयादसद्व्यावृत्ति
-
हीनाद् एव सिद्ध्येत् सदसतोः संकरेण सिद्धिप्रसंगात् । सदन्वय
एवासद्व्यावृत्तिर् इत्य् अयुक्तम् अनुवृत्तिव्यावृत्त्योर्भावाभावस्वभावयो
-
र् भेदाभ्युपगमात् । सामर्थ्यात् सदन्वये ऽसद्व्यावृत्तिःसिद्ध्ये
-
द् इति चेत्, तर्हि न व्यावृत्तिहीनाद् अन्वयतः साध्यं सिध्येत् ।
१५
एतेनापरं सामान्यं द्रव्यत्वादि द्रव्यम् इत्य् आद्यन्वयादद्रव्यादिव्या
-
वृत्तिहीनान् न सिध्येद् इति निवेदितं, सामर्थ्यसिद्धादद्रव्यादिव्या
-
वृत्तिसहिताद् एव द्रव्याद्यन्वयात् द्रव्यत्वादिसामान्यस्यसिद्धेः
तत एव तस्य सामान्यविशेषाख्यत्वव्यवस्थापनात् । ये ऽपिके
-
षांचिद् विपर्यये तद्व्यावृत्तेर् एवान्वयहीनायाः सामान्यंप्रतीयन्त
२०
इति तस्मिन् विपर्यये ऽपि साध्यं न सिद्ध्येत्सर्वथान्वयरहिता
-
द् अतद्व्यावृत्तिप्रत्ययाद् अन्यापोहसिद्धाव् अपि तद्विधेरसिद्धेस् तत्र प्रवृ
-
१४९
त्तिविरोधात् तदर्थक्रियालक्षणस्य साध्यस्यसिद्ध्यभावात् । दृ
-
श्यविकल्प्ययोर् एकत्वाध्यवसायात् प्रवृत्तौ साध्यंसिद्ध्यतीति
चेत्, न, तदेकत्वाध्यवसायस्यासंभवात्, न हि दर्शनंतदेक
-
त्वम् अध्यवस्यति तस्य विकल्पाविषयत्वात्, नापितत्पृष्ठभाविविक
-
०५
ल्पस् तस्य दृश्याविषत्वान् न चोभयविषयं ज्ञानान्तरम् एकंसंभ
-
वति यतस् तदेकत्वाध्यवसायात् व्यावृत्तिमात्राद् अन्वयहीनाद
-
न्यापोहसामान्यं सिद्ध्येत् । स्वलक्षणेष्व् इति न साध्यसिद्धिः ।
तथान्वयव्यावृत्तिहीनाद् अद्वितयाद् एव सन्मात्रप्रतिभासात्सत्ताद्वैत
-
सिद्धिर् इत्य् अपि न सम्यक्, सर्वथाऽप्य् अद्वितयेसाध्यसाधनयोर् भे
-
१०
दासिद्धौ कुतः साधनात् साध्यं सिद्ध्येद् असिद्धौचाद्वितयवि
-
रोधात् । यदि पुनर् अद्वितये ऽपि संविन्मात्रेऽसाधनव्यावृत्त्या सा
-
धनम् असाध्यव्यावृत्त्या च साध्यम् इत्यतद्व्युदासाभिनिवेशवादः स
-
माश्रीयते, तदाऽपि पराभ्युपेतार्थविरोधवादः सौगतस्यस्यात् ।
पराभ्युपगतो हि संविदद्वैतलक्षणो ऽर्थस् ताथागतैः सचात
-
१५
द्व्युदासाभिनिवेशवादेनातद्व्यावृत्तिमात्राग्रहवचनरूपेण वि
-
रुध्यते कस्यचिद् असाधनस्यासाध्यस्य चार्थाभावेतदव्यावृत्त्या
साध्यसाधनव्यवहारानुपपत्तेर् भावे च द्वैतसिद्धेरप्रतिक्षेपार्हत्वा
-
द् इति सौगतानां पूर्वाभ्युपेतार्थविरोधवादः प्रसज्येत ।
यदि तु साधनम् अनात्मकम् एव न वास्तवं सौगतैरभ्युपेयते
२०
नाऽपि साध्यं तस्य संवृत्या कल्पिताकारत्वात् ततो नपराभ्यु
-
पेतार्थविरोधवादः स्याद् इति निगद्यते । तदा दूषणम् आवे
-
दयन्ति —
१५०
अनात्मनानात्मगतेर् अयुक्तिः,
॥
५८अ
॥
इति । अनात्मना निःस्वभावेन सांवृतेनासाधनव्यावृत्ति
-
मात्ररूपेण साधनेन साध्यस्यापि तथाविधस्यानात्मनो या
गतिः प्रतिपत्तिस् तस्याः सर्वथाप्य् अयुक्तिर् अयोग एव ।
०५
अत्र परिहारम् आशंक्य निराकुर्वन्ति —
वस्तुन्ययुक्तेर् यदि पक्षसिद्धिः ।
अवस्त्वयुक्तेः प्रतिपक्षसिद्धिः,
॥
५८ब्च्
॥
इति । वस्तुनि संविदद्वैतरूपे साधनेनानात्मना सा
-
ध्यस्यानात्मनो गतेर् अयुक्तेः पक्षसिद्धेर् एवंसंविदद्वैतवादिनः
१०
साध्यसाधनभावशून्यस्य संवेदनमात्रस्य पक्षत्वात्सिद्धं नस्त
-
त्त्वम् इति यदि मन्यते परस् तदाप्य् अवस्तुनि विकल्पिताकारेसा
-
ध्यसाधनयोर् अयुक्तेः प्रतिपक्षस्य द्वैतस्य सिद्धिः स्यात् । न
ह्य् अवस्तु साधनं साधयति साध्यम् अद्वैततत्त्वमतिप्रसंगात् ।
साधनाद् विना स्वत एव संविदद्वैतसाध्यसिद्धिर् इतिपरम
-
१५
तम् अपाकुर्वन्ति —
न च स्वयं साधनरिक्तसिद्धिः
॥
५८
॥
॥
५८द्
॥
साधनेन रिक्ता शून्या सिद्धिः स्वयं संविदद्वैतस्य न
पुज्यते, पुरुषाद्वैतस्यापि स्वयं सिद्धिप्रसंगात् कस्यचित्तत्र
विप्रतिपत्त्यभावप्रसंगाच् च ।
२०
तद् एवम् —
१५१
निशायितस् तैः परशुः परघ्नः
स्वमूर्ध्नि निर्भेदभयानभिज्ञैः ।
वैतण्डिकैर् यैः कुसृतिः प्रणीता
मुने ! भवच्छासनदृक्प्रमूढैः ॥
५९
॥
०५
टीका —
परपक्षदूषणप्रधानैर् वैतण्डिकैःसंवेदनाद्वैतवादिभिर् यैः
कुसृतिः कुत्सिता गतिः प्रतीतिः प्रणीता । मुने ! भगवन् !
भवतः शासनस्य स्याद्वादस्य दृशि प्रमूढैस् तैःस्वमूर्ध्नि नि
-
र्भेदभयस्यानभिज्ञैर् निर्भेदभयम् अजानद्भिः परघ्नःपरशुर् निशायित
इति वाक्यार्थघटना । यथैव हि कैश्चित् परशुःपरघाताय नि
-
१०
शायितः स्वमूर्ध्नि भेदाय च प्रवर्त्तत इतितद्भयानभिज्ञास् ते, त
-
थैव वैतण्डिकैः परपक्षनिराकरणायमानैः प्रणीयमानोन्यायः
स्वपक्षम् अपि निराकरोतीति ते ऽपि स्वपक्षघातभयानभिज्ञाएव ।
ते हि स्याद्वादन्यायनायकस्य गुरोः शासनदृक्प्रमूढाः किंजा
-
नंते दर्शनमोहोदयाक्रान्तान्तःकरणत्वाद् इति विस्तरतस्तत्त्वा
-
१५
र्थालङ्कार प्रतिपत्तव्यं ।
ननु च यद् उक्तं "न च स्वयं साधनरिक्तसिद्धिः" इति ।
तत्र, संविदद्वैतस्यापि सिद्धिर् मा भूत् सर्वाभावस्यशून्यतालक्षणस्य
विचारबलाद् आगतस्य परिहर्त्तुम् अशक्यत्वाद् इति केचिदाचक्षते
तान् प्रत्याहुः —
२०
भवत्यभावो ऽपि च वस्तुधर्मो
भावान्तरं भाववद् अर्हतस् ते ।
१५२
प्रमीयते च व्यपदिश्यते च
वस्तुव्यवस्थांगम् अमेयम् अन्यत् ॥
६०
॥
टीका —
न हि वहिरन्तश् च वस्तुनो ऽसंभवे तदभावःसर्व
-
शून्यतालक्षणः संभवति तस्य वस्तुधर्मत्वात्, स्वधर्मिणो ऽसंभवे
०५
कस्यचिद् धर्मस्याप्रतीतेः । स ह्य् अभावः स्वरूपेण भवतिन वा ?
भवति चेद् अभावे ऽपि वस्तुधर्मसिद्धेः कस्यचिद्धर्मस्याभावे धर्मा
-
न्तरम् एव स च कथं वस्तुधर्मो न सिद्ध्येत् । न भवतिचेद् अभाव
एव न स्याद् अभावस्याभावे भावस्य विधानात् । अथधर्मिणो
-
ऽभावास् तदा भावान्तरं स्याद्भाववत् कुंभस्याभावो हिभूभागो
१०
भावान्तरम् एवार्हतो भगवतस् ते, न पुनस् तुच्छःसकलशक्तिवि
-
रहलक्षणो यौगस्येवेति प्रत्येतव्यं । कुत एतत् ? यस्मात्प्रमीयते
चाभावो व्यपदिश्यते च वस्तुव्यवस्थांगं च निगद्यते । अभावो
हि धर्मस्य धर्मिणो वा यदि कुतश्चित् प्रमाणान् न प्रमीयतेतदा
कथं व्यवतिष्ठते ? प्रमीयते चेत्, तदा स च वस्तुधर्मोभावान्तरं
१५
वा धर्मधर्मिस्वभावभाववत् । तथा यद्य् अभावो नव्यपदिश्यते तदा
कथं प्रतिपद्यते ? व्यपदिश्यते चेत्, वस्तुधर्मोवस्त्वंतरं वा
स्याद् अन्यथा व्यपदेशानुपपत्तेः, तथा वस्तुनो घटादेर्व्यवस्थायाम् अं
-
गम् अभावो ऽनंगं वा । यद्य् अनंगं, किं तत्परिकल्पनया । घटे पटादेर् अ
-
भाव इति पटादिपरिहारेण
(तु)
घटव्यवस्थाकारणमभावः परि
-
२०
कलप्यते ऽन्यथा वस्तुसंकरप्रसंगाद् इतिवस्तुव्यवस्थांगमभावो ऽ
-
भ्युपगन्तव्यः । ततो वस्तु धर्म एवाभावोवस्तुव्यवस्थांगत्वाद् भाव
-
१५३
वत् । ननु च यथा प्रमाणं प्रमेयव्यवस्थांगमपि न प्रमेयधर्म
-
स् तथा वस्तुव्यवस्थांगम् अप्य् अभावो न वस्तुधर्मः स्यात्, यो यद् व्य
-
वस्थांगं स तद् धर्म इति नियमाभावात्, व्यभिचारदर्शनात्, न
ह्य् अभावव्यस्थांगं घटदिर् भाग इति तस्याभावधर्मत्वंप्रतीये
-
०५
तेति कश्चित् । सो ऽप्य् अनालोचितवचनः, प्रमाणस्यापि प्रमेय
-
धर्मत्वाविरोधात् । प्रमाणं हि ज्ञानम् अविसंवादकम् इष्यतेतच् च
प्रमेयस्यात्मनो धर्मः करणसाधनतापेक्षायां प्रतीयते, एवं प्र
-
मितिः प्रमाणम् इति भावसाधनापेक्षायां तुप्रमाणस्यात्मार्थस्य
धर्मत्वम् अपीति सिद्धं प्रमेयधर्मत्वम् आत्मनः प्रमितिरर्थस्य प्रमिति
-
१०
र् इति संप्रत्ययात् । तथा घटादेर् भावस्याभावधर्मत्वमपि न
विरुद्ध्यते, मृदो घट इति यथा मृद्धर्मो घट इति तथासुवर्णाद्य
-
भावस्य मृदो धर्म इत्य् अपि प्रयुज्यत एवसुवर्णाद्यभावस्यासुव
-
र्णमृदादिस्वरूपत्वात् ततो न व्यभिचारः । किं च हेतोर्विपक्षे का
-
र्त्स्न्येनाभावो हेतुधर्म इति स्वयम् इच्छन् कथंहेतुलक्षणवस्तुव्य
-
१५
वस्तांगस्याभावस्य हेतुरूपवस्तुधर्मत्वं नेच्छेत् । यत्तुन वस्तु
व्यवस्थांगम् अभावतत्त्वं तद् अमेयम् एवंभावैकान्ततत्त्ववत् ।
तद् एवं परपरिकल्पितं सामान्यं वस्तुरूपम् अरूपं वायथा
न वाक्यार्थस् तथा व्यक्तिमात्रं परस्परनिरपेक्षम् उभयंवा न वा
-
क्यार्थः समवतिष्ठते तस्यामेयत्वात्सकलप्रमाणगोचरातिक्रां
-
२०
तत्त्वात् ।
किं तर्हि वाक्यम् अभिदधातीति सूरिभिर् अवस्थाप्यते । —
विशेषसामान्यविषक्तभेद
-
१५४
विधिव्यवच्छेदविधायि वाक्यम् ।
अभेदबुद्धेर् अविशिष्टता स्याद्
व्यवृत्तिबुद्धेश् च विशिष्टता ते ॥
६१
॥
टीका —
विसदृशपरिणामो विशेषः सदृशपरिणामः सा
-
०५
मान्यं । ताभ्यां विषक्ताश् च ते च ते भेदाश् चद्रव्यपर्यायव्यक्तिरू
-
पास् तेषां विधिव्यवच्छेदौ तद्विधायि वाक्यम् इति घटना । तत्र
घटमानयेति वाक्यं नाघटानयनव्यवच्छेदमात्रविधायीतिघ
-
टानयनविधेर् अपि तेनाभिधानात्, अन्यथा तद्विधानायवाक्या
-
न्तरप्रयोगप्रसंगात्, तस्याप्य् अतद्व्यवच्छेदविधायित्वेतद्विधाना
-
१०
यापरवाक्यप्रयोग इत्य् अनवस्थानुषंगात् न कदाचिद्घटानयन
-
विधिप्रतिपत्तिः स्याद् इति प्रधानभावेन व्यवच्छेदविधाय्यपि
वाक्यं गुणभावेन विधिविधायि प्रतिपत्तव्यं । विधिमात्रविधा
-
य्य् एव वाक्यम् इत्य् अप्य् अयुक्तं तदन्यव्यच्छेदेन विनाविधिप्रति
-
पत्तेर् अयोगात्, तदितरव्यवच्छेदाय वाक्यान्तरप्रयोगापत्तेस्त
-
१५
स्यापि तद्विधिमात्रविधायित्वे ऽतद्व्यवच्छेदायवाक्यान्तरप्रयो
-
गाद् अनवस्थितिप्रसंगात्, ततः प्रधानभावेनविधिप्रतिपादकं
वाक्यं गुणभावेन व्यवच्छेदविधायि प्रतिपादनीयं ।
जातेर् एव विधिव्यवच्छेदोभयं प्रधानगुणभावेन वाक्यमभि
-
धत्ते, घटानयनसामान्यस्य विधानादघटानयनादिसामान्यस्य
२०
तत्प्रतिपक्षस्य व्यवच्छेदाद् इति मतान्तरम् अपि न युक्तिमत् ।
भेदविधिव्यवच्छेदविधायित्वाद् वाक्यस्य, भेदो हि व्यक्तिर्द्रं
-
१५५
व्यगुणकर्मलक्षणा, तत्र द्रव्यगुणयोर् गुणभावेनक्रियायाः, प्राधा
-
न्येन विधिव्यवच्छेदविधायित्वप्रतीतेर् वाक्यस्य न जातेरेव वि
-
धिव्यवच्छेदविधायि वाक्यं व्यवतिष्ठते । एतेन करोत्यर्थस्य क्रि
-
यासामान्यस्यार्थभावनारूपस्य विधायकं वाक्यंशब्दभावनारू
-
०५
पस्य वा शब्दव्यापारलक्षणस्येति प्रतिक्षिप्तं, यज्यादिक्रिया
-
विशेषस्यापि वाक्येनाभिधानान् नियोगविशेषवद् अन्यथा तद्वि
-
शेषे प्रवृत्त्यभावप्रसंगात्, लक्षितलक्षणया तत्रप्रवृत्तौ शब्दप्रवृ
-
त्तिविरोधात्, शब्दप्रतिपन्नसामान्यलिंगादेव विशेषेप्रवर्त्तनात्,
शब्दमूलत्वात् तत्प्रवृत्तेः शाब्दत्वे परंपरयाश्रोत्रेंद्रियपूर्वकत्वात्
१०
तत्प्रवृत्तेः अक्षजज्ञाननिमित्तत्वप्रसंगात् । एतेनैवसन्मात्रसामान्य
-
स्य विधायकं वाक्यम् इत्य् अपि व्युदस्तं सद्विशेषस्यापिवाक्येना
-
भिधीयमानस्य प्रतीतेर् धात्वर्थविशेषवत् । भेदस्यैवविधिव्यवच्छे
-
दविधायि वाक्यम् इति मतम् अपि न श्रेयः, सामान्यविषक्तभेद
-
विधिव्यवच्छेदविधायित्वाद् वाक्यस्यसदृशपरिणामलक्षणासा
-
१५
मान्यविशिष्टस्यैव हि भेदस्य द्रव्यगुणक्रियाख्यस्यविधिव्य
-
वच्छेदविधायितायां वाक्यस्य संकेतव्यवहारकालान्वयःस्या
-
न् नान्यथाऽतिप्रसंगात् । सामान्यविषक्तभेदस्यैवविधिव्यवच्छे
-
दविधायि वाक्यम् इति दर्शनम् अपि स्वरुचिविरचितम् एव । विशे
-
षसामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वाद् वाक्यस्यसा
-
२०
दृश्यसामान्यविशिष्टस्येव विसदृशपरिणामलक्षणविशेषविशि
-
ष्टस्यापि भेदस्य विधिव्यवच्छेदविधानप्रतीतेरबाध्यमानायाः
प्रेक्षावद्भिर् आश्रयणीयत्वात् । तत्र भेदस्यद्रव्यादिव्यक्तिरूपस्या
-
१५६
विशिष्टता समानता सामान्यविषक्तता स्यादभेदबुद्धेः समा
-
नबुद्धेस् तेन समानो ऽयम् अनेन समानः स इत्यभेदबुद्धिः सदृशपरि
-
णामात्मकसामान्यम् अंतरेणानुपपद्यमाना तद् एव साधयतीतिकिं
नश्चिन्तया । नन्व् एकसामान्ययोगात् समानबुद्धिर् अन्वायिनी नपुनः
०५
समानपरिणामयोगाद् इति चेत्, न, सामान्यवान् इति प्रत्यय
-
प्रसंगात्, सामान्यतद्वतोर् भेदात् तयोर् अभेदोपचारात्समानप्रत्यय इति
चेत्, न, तथाऽपि सामान्यम् इति प्रत्ययप्रसंगात् । यथैवहि
यष्टियोगात् पुरुषो यष्टिर् इति प्रतीयते तदभेदोपचारात्तथा
सामान्ययोगात् द्रव्यादिः सामान्यम् इति स्यान् न तु समान इति
१०
भावप्रत्ययलोपलक्षणाभावात् ।
स्यान् मतं, सामान्यस्य वाचकः समानताशब्दो ऽस्तीति
तेन समानेन योगात् सामानो द्रव्यादिर् इति प्रत्ययः स्याद् इति
तद् अप्य् असद् एव । सामान्यशब्दवाच्यस्य वस्तुनःसमानशब्दवा
-
च्यत्वाप्रतीतेः समानानां भावः सामान्यं जातिर् न पुनःसमान
१५
एव सामान्यम् इति स्वार्थिकष्ट्यण्
[? ]
प्रत्ययः क्रियते येनसमान
-
शव्दवाच्यं सामान्यं स्यात् । न च द्रव्यादिभ्यो भिन्नंसामान्य
-
म् अन्वयप्रत्ययात् सिद्ध्यति नाम, परापरसामान्येषुसामान्यान्तर
-
सिद्धिप्रसंगात्, तथा चानवस्था स्यात् सुदूरम् अपिगत्वाऽन्वयप्र
-
त्ययात् सामान्यान्तरस्यासिद्धौ प्रथमतो ऽपितदन्वयप्रत्ययात् सा
-
२०
मान्यं मा भवतु
(सिद्धेत्)
सर्वथा विशेषाभावात् । द्रव्यादिष्व् अन्व
-
यबुद्धिर् अबाधिततयाऽनुपचरिता सामान्येष्व् अन्वयबुद्धिरुपचरिता
-
ऽनवस्था प्रसंगेन बाधितत्वाद् इति विशेषाभ्युपगमो ऽपि नयुक्तः
१५७
सर्वव्यक्तिषु सामान्यस्यैकस्यानेशस्यदेशकालादिभिन्नासु युग
-
पद्वृत्तिविरोधेन बाधितस्यान्वयबुद्धयाविषयीक्रियमाणस्यासं
-
भवाद् अस्याप्य् अन्वयप्रत्ययस्यानुपचरितत्वासिद्धेःसमर्थनात् । नन्व् ए
-
वं सदृशपरिणामरूपस्यापि सामान्यस्यान्वयबुद्धेः कुतःप्रसिद्धिः
०५
समानपरिणामेष्व् अप्य् अन्वयबुद्धेःसमानपरिणामान्तरप्रसंगाद् अनव
-
स्थायाः बाधिकायाः संभवता, समानपरिणामस्यैकैकत्रभेदे
बाधासंभवात् तस्यानेकस्थत्वाद् इति चेत्, न, समानपरिणा
-
मानाम् अपि समानपरिणामान्तरप्रतीतेस् तेषाम् अनन्तत्वादनवस्थान
[? :आ]
-
वकाशात् । यथैव हि घटेषु घटाकारसमानपरिणामःप्रत्येक
-
१०
म् अपरघटपरिणामापेक्षः प्रतीयते "समाना एते घटाः" इतितथा
घटसमानपरिणामेष्व् अपि मृदाकारसमानपरिणामान्तरंप्रतिभा
-
सत एव ऽमृदाकारेण समाना एते घटसमानपरिणामाःऽ इति
तेष्व् अपि मृदाकारसमानपरिणामान्तरेषुपार्थिवाकारसमानपरि
-
णामान्तराणि पार्थिवाकारेण समाना एते मृदाकारसमानप
-
१५
रिणामा इति प्रतिभासनात् । पार्थिवाकारसमानपरिणामेष्व् अपि
मूर्त्तत्वाकारसमानपरिणामान्तराणि, तेष्व् अपिद्रव्यत्वाकारस
-
मानपरिणामान्तराणि, तेष्व् अपि सत्त्वपरिणामान्तराणि, तेष्वपि
वस्तुत्वपरिणामान्तराणि, तेष्व् अपि प्रमेयत्वपरिणामान्तराणि,
तेष्व् अपि वाच्यत्वपरिणामान्तराणि, तेष्व् अपिज्ञेयत्वपरिणामान्त
-
२०
राणि तेष्व् अपि पुनः सत्त्वादिपरिणामान्तराणि प्रतिचकासंति
भेदनय प्राधान्यान् न तेषां वलयवदादिर् अंतो वा विद्यतेयतो ऽनवस्था
बाधिका स्यात् । नाप्य् एकैकत्र भेदे समानपरिणामो विरुध्य
-
१५८
ते तस्य सं
१
योगवदनेकस्थत्वाभाबात् । ब्
[? :व्]
इशेषवदनेकापेक्ष
-
यैव तदभिव्यक्तेः कृशत्वाद्यपेक्षया स्थूलत्वादिवत् । नच स
-
मानपरिणामो ऽर्थानाम् अपारमार्थिक एवापेक्षिकत्वाद् इतिनिश्चेतुं
शक्यं संविद्वैशद्येन व्यभिचारात् । न हिवृद्धाक्षसंवेदनापे
-
०५
क्षया कुमारसंवेदनानां विशदतरत्वम् आपेक्षिकं न भवतितदविशे
-
षप्रसंगात् । नाऽपि तदपारिमार्थिकं येन न व्यभिचारःस्यात् ।
यदा तु परिणामपरिणामिनोर् अभेदन
२
यप्राधान्यात् कथंचित्तादात्म्यं
प्रतिपाद्यते तदा द्रव्येषु द्रव्यत्वसमानपरिणामोद्रव्यस्वरूप
-
म् एव, तस्य च द्रव्यत्वपरिणामस्य सत्त्वादिसमानपरिणामा
-
१०
न्तरं द्रव्यस्यैव प्रतीयते ततो ऽर्थान्तरभूतस्यद्रव्यत्वपरिणाम
-
स्यासंभवाद् इति कुतो ऽनवस्थाऽवकाशं लभते ? यदि वायेष्व् एव
द्रव्येषु द्रव्यत्वसमानपरिणामस् तेष्व् एवसत्त्वादिपरिणामान्तराणि
व्यवतिष्ठंते, केवलं तैर् इवैकार्थसमवायबलात्द्रव्यत्वसमानपरि
-
णामो व्यपदिश्यते संख्यादिगुणान्तरैर् इव रूपादिगुणा इतिसर्वं
१५
निरवद्यंभेदाभेदोभयनयप्रधानभावार्पितसमानपरिणामल
-
क्षणासामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वनिश्चयाद्वाक्य
-
स्यान्यथा निर्विषयत्वप्रसंगात् । यथा चाभेदबुद्धेर्द्रव्यत्वादि
-
व्यक्तेर् अविशिष्टता स्यात् तथा व्यावृत्तिबुद्धेश् च विशिष्टताते भगवतः
स्याद् वाददिवाकरस्येति संप्रतीयते, विसदृशपरिणामलक्षणोहि
२०
विशेषस् तद्विषक्तताविशिष्टता सा चेदम् अस्माद्व्यावृत्तम् इतिव्या
-
१ प्रथमपुस्तके ऽअनेकर्थात्वाभावाद् इति पाठःऽ । २ द्वितीयपुस्तके "भेद
-
नयादानात्" । इति पाठः
१५९
वृत्तिबुद्धेर् अध्यवसीयते । ननु चायं विशेषोऽस्माद्विशेषान्तराद्
व्यावृत्त इति व्यावृत्तिबुद्धेर् अपि विशेषेषुविशेषांतरसिद्धिप्रसं
-
गाद् अनवस्था स्यात् तत्र विशेषान्तराभावे ऽपिव्यावृत्तिबुद्धेः संभ
-
वे सर्वत्र ततो विशेषसिद्धिर् न भवेद् इति केचित् । ते ऽपिन
०५
समीचीनबुद्धयः, समानपरिणामद्भेदाभेदनयप्राधान्यादनव
-
स्थानुपपत्तेः, भेदनयाद् आनंत्यसिद्धेर् विशेषाणामभेदनयाच् च
द्रव्येष्व् एव विशेषान्तराणाम् अपि संभवात्, भेदाभेदनयात्तु तदे
-
कार्थसमवायिभिर् विशेषान्तरैर् विशेषस्यविवक्षितव्यपदेशसिद्धेः
व्यावृत्तिबुद्धेर् विशिष्टतासाधनं साधीय एवान्वयबुद्धेःसमान
-
१०
तासाधनवत् ततोविशेषसामान्यविषक्तभेदविधिव्यवच्छेदवि
-
वायि वाक्यम् इति सूरिभिर् अभिधीयते प्रातीतिकत्वात् ।
यथा च विशेषसामान्यविषक्तभेदविधिव्यवच्छेदात्मको
विषयः प्रतीतिबलाद् वाक्यस्य व्यवस्थापितस् तथा वाक्यमपि
परमागमलक्षणं तदात्मकम् एवेति प्रतिपादयन्ति —
१५
सर्वान्तवत् तद्गुणमुख्यकल्पं
सर्वान्तशून्यं च मिथोनपेक्षम् ।
सर्वापदाम् अन्तकरं निरन्तं
सर्वोदयं तीर्थम् इदं तवैव ॥
६२
॥
टीका —
सर्वे च ते ऽन्ताश् चेति स्वपदार्थवृत्तेर्मत्वर्थीयः प्रत्ययो
२०
युज्यते ऽन्यपदार्थवृत्तेः परत्वे ऽपि सर्वशद्बादौतदपवादाज् जात्य
-
र्थादिवत्, सर्वे ऽन्ताः यस्य तत्सर्वान्तम् इति परत्वाद्बहुब्
[? :व्]
रीहौ सति
१६०
तेनैव मत्त्वर्थस्य प्रतिपादनात् मत्वर्थीयो नस्याद् वीरपुरुषको
ग्राम इति यथा, सर्वशब्दादेस् तु पदाद् अन्यत्रबहुब्
[? :व्]
रीहिर् इत्य् अप
-
वादवचनात् सर्वशब्दादेः पदस्य कर्मधारय एव भवतियथा सर्व
-
वीजी कर्षकः सर्वकेशी नट इति तेन सर्वान्ताः संत्यस्मिन्निति
०५
सर्वान्तवत्तीर्थम् इदं परमागमवाक्यम् इति संबंधनीयं । तरति
संसारमहार्णवं येन निमित्तेन तत् तीर्थम् इति व्युत्पत्तेः । सर्वा
-
न्ताः पुनरशेषधर्माविशेषसामान्यात्मकद्रव्यपर्यायव्यक्तिवि
-
धिव्यवच्छेदाः प्रतिपत्तव्याः समासतस् तैर् एवानंतानामपि धर्मा
-
णां संग्रहात् । तत्र स्याद् अस्त्य् एव वाक्यंस्वरूपादिचतुष्टया
-
१०
द् इति विधिधर्मवाक्यं, स्यान् नास्त्य् एव पररूपादिचतुष्टयादिति
व्यवच्छेदधर्मवाक्यं स्वरूपं तु व्
[? :ब्]
अहिर्वाक्यस्यपरस्परापेक्षया
पदसमूहो निराकांक्षः सहभुवाम् इव ना
१
नाप्रवक्तृकाणांक्रमभुवा
-
म् अपि समूहस्य व्यवहारसिद्धेः प्रत्यासत्तिविशेषसद्भावात् । अ
-
न्तर्वाक्यस्य तु पूर्वपूर्वपदज्ञानाहितसंस्कारस्यात्मनोऽन्त्यपदज्ञा
-
१५
नात् समुदायार्थप्रतिभासस् तद्व्यतिरिक्तस्य स्फोटस्य प्रागेव प्र
-
तिक्षिप्तत्वात् तद् एतत् द्विविधम् अपि वाक्यं स्वरूपत एवास्तिन पुनः
पररूपतः सर्वात्मकत्वप्रसंगात्, पररूपत एव च नास्तिन पुनः
स्वरूपतः सर्वाभावप्रसंगात् । ततो वस्तुत्वसिद्धिःस्पपररूपो
-
पादानापोहनात्मकत्वाद् वस्तुनः तथा स्वद्रव्यं शब्दस्य तद्योग्य
-
२०
पुद्गलद्रव्यं शब्दात्मनो वाक्यस्यशुद्गलपर्यायत्वव्यवस्थितेः ।
पर्यायो हि कार्यद्रव्यरूपो गुणरूपः क्रियारूपोवानाद्यपर्यन्तद्र
-
१ प्रथम पुस्तके ऽअनंतप्रवक्तृकाणाम्ऽ इति पाठः ।
१६१
व्यस्य स्याद्वादिभिर् अभिधीयते । तत्रपुद्गलद्रव्यस्यानादिनिध
-
नस्य पर्यायः शब्दो द्रव्यम् अनित्यम् इति तावन् निश्चीयते, द्रव्यं शब्दः
क्रियागुणयोगित्वात् पृथिव्यादिवत्, क्रियावांश् च शब्दः प्रव
-
क्तृदेशाद् देशान्तरप्राप्तिदर्शनात्, सायकादिवत् तथासंख्यासंयोग
-
०५
विभागादिगुणाश्रयत्वेन प्रतीयमानत्वात् गुणवान् अपि शब्दः
प्रसिद्धः पृथिव्यादिवद् एव । न हि शब्देषु संख्या नप्रतिभासते
कस्यचिद् एकं वाक्यं द्वे वाक्ये त्रीणि वाक्यानीत्यादिसंख्या
-
प्रत्ययस्याबाध्यमानस्य प्रतीयमानत्वात्, तथा क्षकारादीनां
संयुक्ताक्षराणां प्रतीतेः संयोगो
[? :’]
पि शब्दानां प्रतीयतएव,
१०
क्षकारादेर् जात्यन्तरस्योत्पत्तेरसंयोगात्मकत्वपरिकल्पनायां दंड
-
पुरुषसंयोगो ऽपि मा भूत् तथा दंडिनो जात्यंतरस्यद्रव्यस्य प्रादु
-
र्भावाद् इति सर्वं प्रतितिबाधितम् अनुषज्यते । ततःप्रतीतिम् अ
-
बाधिताम् इच्छद्भिः शब्दः क्रियागुणयोगी तथा प्रतीतेरभ्युपगं
-
तव्यः । एतेन न क्रियागुणयोगी शब्दो ऽवरगुणत्वात्तन्महत्त्वव
-
१५
द् इत्य् अनुमानं प्रत्युक्तं पक्षस्य प्रत्यक्षानुमानबाधित्वात्कालात्य
-
यापदिष्टत्वाच् च हेतोः शब्दस्याकाशगुणत्वासिद्धेश् च । आकाशवि
-
शेषगुणः शब्दः सामान्यविशेषवत्त्वेसत्याकाशात्मककरणग्राह्य
-
त्वात् । यो पदात्मककरणग्राह्यः स तद्विशेषगुणो दृष्टोयथा पृथि
-
व्यात्मककरणग्राह्यो गंधः पृथिवीविशेषगुणः, आकाशात्मकश्रो
-
२०
त्रग्राह्यश् च शब्दस् तस्माद् आकाशविशेषगुण इत्यनुमानादाकाशवि
-
शेषगुणत्वसिद्धिर् इत्य् अपि न सम्यक्, सत्प्रतिपक्षत्वादनुमानस्य ।
तथा हि — नाकाशविशेषगुणः शब्दः सामान्यविशेषवत्त्वे सति
१६२
वाह्योन्द्रियप्रत्यक्षत्वाद् गंधादिवद् इतिप्रतिपक्षानुमानस्य सत्यस्य
सद्भावः, तथा न गुणः शब्दः संस्कारवत्त्वाद् वाणादिवदित्य् अनुमा
-
नस्य च प्रतिद्वंद्विनः संप्रत्ययात् । संस्कारवत्त्वमसिद्धं शब्दस्येति
चेत्, न, वेगस्य संस्कारस्य शब्देषु भावात् वक्तृव्यापाराद् उ
-
०५
त्पन्नस्य शब्दस्य यावद् वेगं प्रसर्पणात् । शब्दस्यप्रसर्पणम् असिद्धं
शब्दान्तरारंभकत्वाद् इति चेत्, स तर्हि वक्तृव्यापारादेकःशब्दः
प्रादुर् भवत्य् अनेको वा ? यद्य् एकस् तर्हि कथं नानादिक्कान्नानाशब्दा
-
न् आरभेत सकृद् इति चिंतनीयं । सर्वदिक्कनानाताल्वादिंसंयोगज
-
नितवाय्वाकाशसंयोगानाम् असमवायिकारणानां भावात्, सम
-
१०
वायिकारणस्य चाकाशस्य सर्वगतत्वात्, सर्वादिक्कनानाशब्दा
-
न् आरभते सकृद् एको ऽपि शब्द इति चेत्; नैवं, तेषांशब्दस्यारंभ
-
कत्वस्याप्य् अनुपपत्तेः । यथैव ह्य् आद्यः शब्दो नशब्दान्तरजस्ता
-
ल्वाद्याकाशसंयोगाद् एवासमवायिकारणाद् उत्पत्तेस् तथासर्वदिक्क
-
शब्दान्तराण्य् अपि न शब्दारब्धानि ताल्वादिव्यापारजनितवा
-
१५
य्वाकाशसंयोगेभ्य एवासमवायिकारणेभ्यस् तेषामुत्पत्तिघटना
-
त्, तथोपगमे च संयोगाद् विभागाच् छब्दाच् चशब्दास्योत्पत्तिर् इति
सिद्धांतव्याघातः । शब्दान्तराणां प्रथमः शब्दोऽसमवायिकारणं
तत्सदृशत्वाद् अन्यथा तद्विसदृशशब्दान्तरोत्पत्तिप्रसंगोनियामका
-
भावाद् इति
(केचि)
चेत्, न, प्रथमशब्दस्यशब्दान्तरसदृशस्यान्य
-
२०
शब्दाद् असमवायिकारणाद् उत्पत्तिप्रसंगात् तस्याप्यपरपूर्वशब्दाद् इति
शब्दसंतानस्यानादित्वापत्तिः । यदि पुनः प्रथमः शब्दःप्रवक्तृ
-
व्यापाराद् एव प्रतिनियताद् एवोत्पन्नः स्वसदृशानिशब्दान्तराण्य् आ
-
१६३
रभत इति मतं तदा तत एव प्रवक्तृव्यापारात्प्रतिनियतवाय्वाका
-
शसंयोगेभ्यस् तत्सदृशानि शब्दान्तराणि प्रादुर्भवन्तु किमाद्येन
शब्देनासमवायिकारणेनेति न शब्दाच् छब्दस्योत्पत्तिर्घटते,
नैकः शब्दः शब्दान्तराणाम् आरंभकः संभवति । अथाऽनेकः शब्दः
०५
प्रथमत उत्पन्नः शब्दान्तराणि नानादिक्कान्यारभते इतिद्विती
-
यः पक्षः कक्षीक्रियते तत्राऽप्य् एकस्मात्ताल्वाद्याकाशसंयोगात् क
-
थम् अनेकः शब्दः प्रादुर्भवेद् अहेतुकत्वप्रसंगाद् एकस्मादेकस्यैवोत्पत्तेः
शेषस्य हेत्वभावात् । न चानेकताल्वाद्याकाशसंयोगः सकृद् ए
-
कस्य वक्तुः संभवति प्रयत्नैकत्वात्, न च प्रयत्नमन्तरेण ताल्वा
-
१०
दिक्रियापूर्वको ऽन्यतरकर्मजस् ताल्वाद्याकाशसंयोगःप्रसूयते
यतो ऽनेकः शब्दः स्यात् । प्रादुर्भवन् वा कुतश्चिद् आद्यःशब्दो
-
ऽनेकः स्वदेश शब्दान्तराण्य् आरभते देशान्तरे वा ? न ताव
-
त् स्वदेशे देशान्तरेषु तच्छ्रवणविरोधात्भिन्नदेशस्थश्रोतृजन
-
श्रोत्रेषु समवायाभावात्, तत्रासमवेतस्याप्य् अनेकस्यशब्दान्तरस्य
१५
श्रवणो श्रोत्रस्याप्राप्यकारित्वापत्तेःशब्दान्तरारंभपरिकल्पना
-
वैपर्थ्याच् चाद्यस्यैव शब्दस्य नानादिक्कैर्यौग्यदेशस्थैः श्रोतृभिः
श्रवणस्योत्पत्तेः, अनेकाद्यशब्दपरिकल्पनावैयर्थ्याच् चतस्यैकस्यै
-
व स्वदेशे प्रादुर्भूतस्य नानाश्रोतृभिर् उपलंभात् स्वदेशेसतो
रूपस्य नानादृष्टिभिर् उपलंभवत् । स्यान् मतं, नायनरशमयः प्राप्य
२०
रूपम् एकदेशवर्त्त्य् अपि नानाद्रष्टृजनानां रूपोपलंभंजनयंति न
पुनर् अप्राप्य येन रूपोपलंभो दृष्टान्तःशब्दोपलंभस्याप्राप्तेर् एव
श्रोत्रैः साध्यत इति तद् अपि न श्रेयः । श्रोत्रविवत्तविशेषैः प्रा
-
१६४
प्तस्यैव शब्दस्योपलंभप्रसंगात् । शक्यं हिवक्तुं नानादेशस्थ
-
जनकरणानि प्राप्य शब्दम् एकम् उपलंभयन्ति सकृन्नानादिग्देश
-
वर्तिभिः प्रतिपत्तृभिर् उपलभ्यमानत्वात् रूपवद् इति । गंधेन व्य
-
भिचार इति चेत् न, तस्यापि पक्षीकृतत्वात्, सो ऽपि कस्तूरि
-
०५
कादिद्रव्यवर्त्ती नानादिग्देशवर्तिभिर् जनैर् उपलभ्यमानःस्वस्व
-
घ्राणकरणैः कथंचित् संप्राप्त एवोपलंभहेतुर् घटतेगंधस्य देशान्त
-
रस्थजनघ्राणेषु गमनासंभवाद् गुणस्य निष्क्रियत्वाद्गंधपरमा
-
णूनां गमने ऽपि तत्समवेतगंधस्यानुपलभ्यमानत्वात्, अनेकद्रव्ये
-
ण समवायाद्रुपविशेषाच् च रूपोपलब्धिर् इत्य् अनुवर्त्तमाने, एतेन गंध
-
१०
रसस्पर्शेषु ज्ञानं व्याख्यातम् इति वैशेषिकैर् अभिधानात् । गन्ध
-
द्रव्यावयविनाम् उपलब्धिलक्षणप्राप्तानां देशान्तरेषु गमनेतु मौल
-
कस्तूरिकादिद्रव्यव्ययप्रसंगस् तस्यैव सर्वदिक्कंखंडावयविरूपा
-
वयवानां तदारंभकानां गमनात् । यदि पुनने कस्तूरिकादि
-
द्रव्यस्य परमाणवो गंधसमवायिनो गच्छंति नाऽपिखंडावय
-
१५
विनस् तदारंभकावयवास् ततो गन्धद्रव्यान्तराणाम् उत्पत्तेरिति मतं,
तदाऽपि तदारंभकैः पार्थिवैः परमाणुभिर् भवितव्यंद्व्यणुकादि
-
भिर् वाऽनुपलंभैर् एवोपलब्धिलक्षणप्राप्तानांपार्थिवावयविनाम् उप
-
लब्धिप्रसंगात् । न चानुपलब्धिलक्षणप्राप्तैःपार्थिवद्रव्यैर् आरब्धेषु
द्रव्यांतरेषु समवेतस्य गंधस्योपलब्धिर् युज्यतेपरमाणुसमवेतगं
-
२०
धवद् इति न गन्धद्रव्यान्तराणि कस्तूरिकादिगन्धद्रव्यामारभन्ते
यतः प्राप्तान्य् एव दूरस्थप्रतिपत्तृघ्राणतद्विषयतामनुभवेयुर् घ्राणेन्द्रि
-
यविवृतिभिस् तु गत्वा गन्धस्य ग्रहणे प्रोक्तदोषानवकाशैति
१६५
श्रोत्रघ्राणरसनस्पर्शनानि गत्वा स्वविषयज्ञानंजनयन्ति वा
-
ह्येन्द्रियत्वाच् चक्षुर्वदन्यथा तेषाम् अप्राप्यकारित्वप्रसंगात् । ततो न
व्यभिचारः शब्दस्य नानादिक्कजनकरणैर्ग्रहणासाधनस्योक्तहे
-
तोर् इति नाद्याद् अनेकस्माद् अपि शब्दाच् छाब्दान्तरोत्पत्तिःसंभव
-
०५
तीति सर्वदिक्कपरापरशब्दप्रसर्पणं यावद् वेगमभ्युपगन्तव्यं । तथा च
संस्काराख्यगुणयोगित्वं नासिद्धं यतः सूक्तम् इदं न स्यात्ऽन
गुणः शब्दः संस्कारवत्त्वाद् वाणादिवद् इति । ऽपुद्गलद्रव्यपर्यायात्म
-
कत्वे तु गंधादिवद् इत्य् अभ्यनुज्ञायमाने न किंचिद् बाधकमस्ति । ननु
च न स्पर्शवत् द्रव्यगुणः शब्दो ऽस्मदादिप्रत्यक्षत्वेसत्यकारणगु
-
१०
णपूर्वकत्वात् सुखादिवद् इति बाधकसद्भावान् नपुद्गलद्रव्यपर्यायत्वं
शब्दस्य व्यवतिष्ठते सुखादेर् अपि तथाभावप्रसंगाद् इतिकश्चित् । सो ऽ
-
पि स्वदर्शनपक्षपाती, परीक्ष्यमाणस्याकारणगुणपूर्वकत्वस्यासिद्ध
-
त्वात्, कारणगुणपूर्वकः शब्दः पुद्गलस्कन्धपर्यायत्वाच्छायात
-
पादिवत्, पुद्गलस्कंधपर्यायः शब्दोऽस्मदादिवाह्येन्द्रियप्रत्यक्षत्वा
-
१५
त् तद्वत् । न घटत्वादिसामान्येन व्यभिचारस् तस्यापिसमानपरिणा
-
मलक्षणस्य पुद्गलद्रव्यपर्यायत्वसिद्धेः तदसिद्धमेवाकारणगुण
-
पूर्वकत्वं शब्दस्य न साध्यसिद्धिनिबंधनंकारणगुणपूर्वकत्वेन
साधनात् । हेतुविशेषणं चास्मदादिप्रत्यक्षत्वे सतीतिव्यर्थम् एव ।
परमाणुरूपादिव्यभिचारनिवृत्त्यर्थं तद् इति चेत् न, परमाणु
-
२०
रूपादीनाम् अपि कारणगुणपूर्वकत्वसिं
[? :ओम्.]
द्धेः, परमाणूनां स्कंधभे
-
दकार्यत्वात् तदगुणपूर्वकव्यवस्थितेः परमाणु रूपादीनामिति
निर्णीतप्रायं । यद् अप्य् उक्तं न स्पर्शवद्द्रव्यगुणः शब्दोऽस्मदादि
-
१६६
प्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वात् सुखादिवदिति, तद् अप्य् अयुक्तं
विरुद्धत्वात् साधनस्य । तथा हि — स्पर्शवद्द्रव्यगुणःशब्दो ऽस्मदा
-
दिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्त्वाद् रूपादिविशेषवत्, नात्र
साधनिविकलम् उदाहरणं रूपादिविशेषाणांयावत्पुद्गलद्रव्यम् अ
-
०५
भावात् पूर्वरूपादिविनाशाद् उत्तररूपादिविशेषप्रादुर्भावात् ।
नाऽपि साध्यविकलं रूपादिविशेषाणां स्पर्शवद्द्रव्यगुणत्वाव
-
स्थितेः । सुखादिभिर् व्याभिचारः साधनस्येति चेत्, नास्मदा
-
दिप्रत्यक्षत्वे सतीति विशेषणात् । न च सुखादयःशब्दवद्ऽस्म
-
दादीनां बहूनां प्रत्यक्षाः, स्वसंवेदनप्रत्यक्षेण तुकस्यचित्
१०
सुखादयः स्वस्यैव प्रत्यक्षा न पुनर् नानास्मदादीनाम् इतिन तै
-
र् व्यभिचारः । स्वस्याप्य् अस्मदादिग्रहणेन गृहीतत्वात्स्वप्रत्यक्ष
-
त्वम् अप्य् अस्मदादिप्रत्यक्षत्वं सुखादीनांप्रत्यक्षसामान्यापेक्षयास्म
-
दादिप्रत्यक्षत्ववचनाद् इति चेत्, तथाऽपि न सुखादिभिर्व्य
-
भिचारः, स्याद्वादिभिः सांसारिकसुखादीनां कथंचित्स्पर्शवद्
-
१५
द्रव्यगुणत्वस्य प्रतिज्ञानात् । यथैव ह्य् आत्मपर्यायाःसुखादयश् चिद्रू
-
पसमन्वयास् तथा सद्वेद्यादिपौद्गलिककर्मद्रव्यपर्यायाश्च, स्वपरतं
-
त्रीकरणरूपसमन्वयाद्
[? ]
औदयिकभावानांकर्मद्रव्यस्वभावत्वसिद्धेः ।
मुक्तसुखज्ञानदर्शनादिभिस् तु गुणैरस्पर्शवद्द्रव्यात्मगुणैर् न व्य
-
भिचारस् तेषाम् अस्मदाद्यप्रत्यक्षत्वादस्मदादिविशिष्टयोगिप्रत्यक्ष
-
२०
विषयत्वात् तेषाम् अयावदू
[? ]
द्रव्यभावित्वाभावाच् चानंतत्वेनयावद् आत्म
-
द्रव्यं भवनशीलत्वात् । ततो निरवद्यम् एवविरुद्धसाधनत्वम् एतस्य
हेतोर् इति स्पर्शवद् द्रव्यपर्याय एव शब्दः प्रतीतिबलात्सिद्धिः ।
१६७
शब्दयोग्यपुद्गलानां सर्वत्र भावाद् अन्यथाकचित्त
[? ]
ल्वादिकारण
-
सद्भावे ऽपि शब्दपरिणामानुत्पत्तिप्रसंगात् । न चशब्दपरिणा
-
मनिमित्तसन्निधौ क्वचित् कदाचिच् छब्दानुत्पत्तिः स्यात् स चश
-
ब्दपरिणामो नैक एव नानाश्रोतृभिः श्रवणविरोधात् । श्रोत्रस्या
-
०५
प्राप्यकारित्वान् न तद्विरोध इति चेत्; न, तस्याप्राप्यकारित्वे
कर्णशष्कुल्यन्तः प्रविष्टमशकशब्दग्रहणयोगात् चक्षुषोऽप्रा
-
प्यकारिणः तारकाप्राप्तांजनादिग्रहणदर्शनात् तथा चेदमभिधी
-
यते — नाप्राप्यकारि श्रोत्रं प्राप्तशब्दग्रहणात् स्पर्शनादिवत्, यत् पु
-
नर् अप्राप्यकारि तन् न प्राप्तविषयग्राहि दृष्टं यथा चक्षुरिति नि
-
१०
श्चितव्यतिरेकाद् अनुमानाद् अप्राप्यकारित्वप्रतिषेधः श्रोत्रस्यश्रेया
-
न् एव । ननु चाप्राप्यकारिणा मनसा प्राप्तस्य सुखादेर्ग्रहणाद्
व्यभिचार इति चेन् न सुखादेर् आत्मनि समवेतस्य मनसाप्राप्त्य
-
भावात् । मनसा संयुक्ते पुंसि सुखादेः समवायात्संयुक्तस
-
मवायाप्राप्तिर् इति चेत् न, दूरस्थैर् अपि मनसःप्राप्तिप्रसंगात्,
१५
मनसा संयुक्तस्यात्मनस् तैः संयोगात् संयुक्तसंयोगस्यप्राप्ति
-
त्वात्, साक्षात् तैर् अप्राप्तिर् मनस इति चेत्, सुखादिभिर् अपिसाक्षा
-
त्प्राप्तिः किम् अस्ति ? परंपरया तैर् भनसः प्राप्तिस् तु नप्राप्यकारित्वं
साधयति दूरार्थैर् इवेति सर्वत्राऽप्य् अप्राप्यकारित्वेमनसस् ततो
न तेन व्यभिचार इति श्रेयान् एव श्रोत्रस्यप्राप्यकारित्वसाधनो
२०
हेतुः । ये त्व् आहुः शब्दो ऽप्राप्त एवेंद्रियेण गृह्यतेदूरादित्वेन
गृह्यमाणत्वाद् रूपवद् इति । ते ऽपि न परीक्षकाः, गंधेनव्यभिचा
-
रात् साधनस्य । गन्धद्रव्यस्य गन्धाधिष्ठानस्यदूरादित्वात्
१६८
गंधस्य दूरादित्वेन गृह्यमाणत्वान् न तेनव्यभिचार इति चेत्
न, शब्दस्यापि तदधिष्ठानभेर्यादिदूरादित्वेन दूरे शब्दोदूरतरे
दूरतमे वेति ग्रहणाद् उपचारात्, दूरादित्वेन गृह्यमाणत्वस्यहेतोः
परमार्थतो ऽसिद्धत्वापत्तेः । ततः प्राप्त एव शब्दोविवादा
-
०५
पन्नः परिगृह्यते शब्दत्वात्कर्णशष्कुल्यन्तःप्रविष्टमशकशब्द
-
वद् इति प्राप्यकारि श्रोत्रं सिद्धं । तथा चैकस्य शब्दस्ययुग
-
न्नानादेशस्थजनश्रोत्रैः प्राप्त्यसंभवान्नानाशब्दपरिणामाः सर्व
-
दिक्काः प्रजायन्ते स्वप्रतिबन्धककुड्याद्यसंभवेस्वावरोधकनलि
-
काद्यसंभवे च स्वप्रतिघातकघनतरकुड्यादिविरहे चसति गंध
-
१०
परिणामवत्, समानाश् च सर्वे गवादिशब्दविवर्त्ताःसमानताल्वा
-
दिकारणप्रभवत्वात् समानकस्तरिकादिद्रव्यप्रभवगन्धविवर्त्तवत्,
शब्दोपादानपुद्गलानां सर्वशब्दपरिणामसमर्थानां सर्वत्रसद्भा
-
वे ऽपि प्रतिनियतहेतुवशात् प्रतिविशिष्टशब्दपरिणामाश् चनिश्ची
-
यन्ते, गन्धोपादानपुद्गलानां सर्वेषां सर्वत्रसर्वगन्धपरिणाम
-
१५
समर्थानां संभवे ऽपि प्रतिनियतहेतुगन्धवशात्प्रतिविशिष्टगन्ध
-
परिणामवत् ।
ननु च वायव एव शब्दोपादानं तेषां सर्वत्र सर्वदासद्भा
-
वाद् अन्यथा व्यंजनादिना तदभिव्यक्तेर् अयोगाद्वेगवद्वाय्वन्तरेणा
-
भिघाताच् चेति केचित् । ते ऽपि वायवीयं शब्दम् आचक्षाणाःश्रो
-
२०
त्रग्राह्यं कथम् आचक्षीरन् तस्य स्पर्शनग्राह्यत्वप्रसंगात्स्पर्शवत् ।
तथा हि — वायवीयस्पर्शनेन्द्रियग्राह्यः शब्दोवाय्वसाधारणगु
-
णत्वात्, यो यदसाधारणगुणः स तदिन्द्रियग्राह्यः सिद्धोयथा
१६९
पृथिव्यप्तेजो ऽसाधारणगुणोगंधरसरूपविशेषगुणः पार्थिवाप्य
-
तैजसघ्राणरसननयनेन्द्रियग्राह्यः, वाय्वसाधारणगुणश्च शब्द
-
स् तस्माद् वायवीयस्पर्शनेन्द्रियग्राह्य इतिश्रोत्रपरिकल्पनावैयर्थ्य
-
म् आपद्यते । यदि पुनर् आकाशसहकारिकरणात्वाच्छब्दस्याकाश
-
०५
समवायेन श्रोत्रेण ग्रहणम् उररीक्रियते तदा स्पर्शस्याऽपिश्रोत्र
-
ग्राह्यत्वप्रसंग स्तस्याप्य् आकाशसहकारिवायूपादानत्वाच्छब्दवत् ।
गन्धादीनां च श्रोत्रवेद्यत्वं स्यादाकाशसहकारिपृथिव्याद्युपा
-
दनत्वात् । न ह्याकाशं कस्यचिद् उत्पत्तौ स्वोपादानात् सहकारिन
भवेत्, सर्वोत्पत्तिमतां निमित्तकारणात् कालादिवत् । स्यान्मतं,
१०
नाऽयं नियमो ऽस्ति यो यदसाधारणगुणः स तदिन्द्रिय
-
ग्राह्य इति पार्थिवस्य पंचप्रकारस्य वर्णस्यषट्प्रकारस्य रसस्या
-
नुष्णाशीतस्य पाकजस्य स्पर्शस्य चपार्थिवघ्राणेंद्रियग्राह्यत्व
-
प्रसंगात् तथा शीतस्पर्शस्य शीतस्य च रूपस्याप्यरसनेन्द्रियवेद्य
-
त्वं, तैजसस्य चोष्णस्पर्शस्य तैजसचक्षुर् वेद्यत्वंकथं विनिवार्येत ?
१५
तन्नियमकल्पनायाम् इति यस्य यस्माद् इंद्रियाद् विज्ञानमुत्पद्यते तस्य
तदिंद्रियग्राह्यत्वं ब्यवतिष्ठते तथा प्रतीतेरतिलंघयितुम् अशक्तेः केव
-
लमिंद्रियस्य प्रतिनियतद्रव्योपादानत्वं साध्यतेप्रतिनियतगुण
-
ग्राहयकत्वाद् इति । तद् एतद् असारं, प्रतिनियतद्रव्योपादनत्व
-
स्य घ्राणादीनां साधयितुम् अशक्यत्वात् । पार्थिवं घ्राणंरूपा
-
२०
दिषु सन्निहितेषु पार्थिवगन्धस्यैवाभिव्यंजकत्वान्नागकर्णि
-
काविमर्दककरतलवद् इत्य् अनुमानस्य सूर्यरश्मिभिर् उदकसेकेन
चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य सूर्यमरीचि
-
१७०
भिर् गन्धाभिव्यक्तिर् भूमेस् तूदकस् एकेनेति । तथारसनेंद्रियम् आप्य
-
म् एव रूपादिषु सन्निहितेषु रसस्यैवाभिव्यंजकत्वाल् लालावदि
-
त्य् अत्राऽपि हेतोर् लवणेन व्यभिचारात् तस्यानाप्यत्वेनरसाभिव्यं
-
जकत्वसिद्धेः । तथा चक्षुस् तैजसम् एव रूपादिषुसन्निहितेषु रूप
-
०५
स्यैवाभिव्यंजकत्वात् प्रदीपादिवद् इत्य् अत्राऽपि हेतोर्माणिक्योद्यो
-
तेन व्यभिचारात् । न च माणिक्यप्रभा तैजसीमूलोष्णद्रव्य
-
वती प्रभा तेजस्तद्विपरीता भूर् इति वचनात् । तथावायव्यं स्पर्शनं
रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यंजकत्वात्तोयशीतस्पर्शव्यंज
-
कवाय्ववयविवद् इत्य् अत्राऽपि कर्पूरादिनासलिलशीतस्पर्शव्यंजकेन
१०
हेतोर् व्यभिचारात्, पृथिव्यप्तेजःस्पर्शाभिव्यंजकत्वाच् चस्पर्शनेन्द्रियस्य
पृथिव्यादिकार्यत्वप्रसंगाच् च वायुस्पर्शाभिव्यंजकत्वाद्वायुकार्यत्ववत्
एतेन चक्षुषस् तेजोरूपाभिव्यंजकत्वात् तेजःकार्यत्ववत्पृथिव्यप्स
-
मवायिरूपव्यंजकत्वात् पृथिव्यप्कार्यत्वप्रसंगःप्रतिपादितः । रस
-
नस्य चाप्य् अरसाभिव्यंजकत्वादपकार्यत्ववत्पृथ्वीरसाभिव्यंजक
-
१५
त्वात् पृथिवीकार्यत्वप्रसंगश् च तथा नाभसं श्रोत्रंरूपादिषु सन्निहि
-
तेषु शब्दस्यैवाभिव्यंजकत्वात्, यत् पुनर् न नाभसं तत्रशब्दाभि
-
व्यंजकं यथा घ्राणादि, शब्दस्याभिव्यंजकं च श्रोत्रंत
-
स्मान् नाभसम् इत्य् अनुमानस्याप्य् अप्रयोजकत्वात्नभोगुणत्वासिद्धेः
शब्दस्य समर्थनात् नभसि समवेतस्य ग्रहणसंभवात् । ततो
२०
नेन्द्रियाणि प्रतिनियतभूतप्रकृतीनि व्यवतिष्ठन्तेप्रमाणाभा
-
वात् प्रतिनियतेंद्रिययोग्यपुद्गलारब्धानि तु द्रव्येंद्रियाणिप्रति
-
नियतभावेन्द्रियोपकरणत्वान्यथाऽनुपपत्तेर् भावेन्द्रियाणामेव स्प
-
१७१
र्शनादीनांस्पर्शादिज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषलक्ष
-
णानां स्पर्शादिप्रकाशकत्वसिद्धेर् इति पौद्गलिकः शब्दःपौद्गलि
-
कद्रव्येन्द्रियाभिव्यंग्यत्वात् स्पर्शरसगन्धवर्णवत्, नपुनर्वायवीयो
नभोगुणो वा सर्वगतमूर्त्तनित्यद्रव्य वा प्रमाणाभावात् । प्रपं
-
०५
चतः प्रतिपादितं चैतत् तत्त्वार्थालंकारे प्रतिपत्तव्यं । तेन
शब्दस्य द्रव्यं पुद्गलाख्यं व्
[? :ब्]
बहिरंगस्य निश्चीयते, तथा च स्वद्र
-
व्यतः शब्दात्मकं वाक्यम् अस्ति न परद्रव्यतःसर्वात्मकत्वप्रसं
-
गात्, परद्रव्यतश् च नास्ति वाक्यं न पुनः स्वद्रव्यतस्तस्याद्र
-
व्यात्मकत्वप्रसंगाद् इति विधिप्रतिषेधात्मकं वाक्यंसिद्धम् ।
१०
तथा स्वक्षेत्रकालाभ्याम् अस्ति वाक्यं न परक्षेत्रकालाभ्यांसर्व
-
क्षेत्रकालात्मकत्वप्रसंगात्, परक्षेत्रकालाभ्याम् एव नास्तिन पुनः
स्वक्षेत्रकालाभ्यां, तस्याक्षेत्रकालत्वापत्तेः । तद् एवंसामान्यतो
विधिनिषेधात्मकं, वाक्यं सर्वान्तवत् कथ्यते सर्वान्तानांविधिनि
-
षेधाभ्यां संग्रहात्, तदनात्मकस्य कस्यचिदन्तस्यासंभवात् । वि
-
१५
शेषतस् तु भेदाभेदात्मकं द्रव्यपर्यायव्यक्त्यात्मकत्वात्, तत्र द्रव्यं
शब्दः क्रियावत्त्वाद् वाणादिवद् इतिशब्दयोग्यपुद्गलद्रव्यार्थादेशाद्
द्रव्यत्वसिद्धिः तथा पर्यायः शब्दःप्रादुर्भावप्रध्वंसवत्त्वाद् गंधादिव
-
द् इति श्रवणज्ञानग्राह्यशब्दपर्यायार्थादेशाद् इतिपर्यायत्वसिद्धिः ।
तथा विसदृशपरिणामविशेषात्मकंसदृशपरिणामसामान्यात्मकं
२०
च वाक्यं शब्दद्रव्याणां शब्दपर्यायाणां च नानात्वात्परस्परा
-
पेक्षया समानेतरपरिणामसिद्धेर् गन्धादिद्रव्यपर्यायवदिति सर्वा
-
१७२
न्तवद्वाक्यं सिद्धं द्रव्यपर्यायसामान्यविशेषेषुसर्वान्तानाम् अन्तर्भा
-
वात् सर्वस्यान्तस्य तत्स्वभावानतिक्रमात् ।
नन्व् एवं द्रव्यपर्यायसामान्यविशेषात्मकस्यसर्वान्तवत्त्वे
वाक्यस्य युगपत् तथा व्यवहारप्रसंग इति न शंकनीयं, तद्गु
-
०५
णमुख्यकल्पम् इति वचनात् । द्रव्यस्य हि गुणत्वकल्पनायां
पर्यायस्य मुख्यत्वकल्पनात् पर्यायो वाक्यम् इति व्यवहारःप्रव
-
र्त्तते पर्यायस्य तु गुणकल्पनत्वे मुख्यकल्पं द्रव्यम् इतिवाक्ये
द्रव्यत्वव्यवहारः प्रतीयते तथा सामान्यस्य गुणकल्पत्वेविशे
-
षस्य मुख्यकल्पत्वाद् विशेषो वाक्यम् इति व्यवह्रियते, विशेषस्य
१०
च गुणकल्पत्वे सामान्यस्य मुख्यकल्पनात् सामान्यं वाक्यमिति
व्यवहारात्, सुनिर्णीतासंभ
[? :व]
द्बाधकप्रमाणात्सर्वान्तवद्वाक्यं नि
-
श्चीयते, संकरव्यतिकरव्यतिर् एकेण सर्वान्तानां तत्रव्यवस्था
-
नाद् विरोधादीनां तत्रानवकाशात् परस्परापेक्षत्वात् । नचैवं पर
-
स्परनिरपेक्षम् अपि सर्वान्तवद् वाक्यं कल्पयितुं शक्यं"सर्वान्तशून्यं
१५
च मिथो ऽनपेक्षम्" इति वचनात् । न हि विधिनिरपेक्षोनिषेधो
[? :’]
-
स्ति कस्यचित् कथंचित् क्वचिद्विधीयमानस्यैवान्यत्राऽन्यदान्यथा
निषेध्यमानत्वदर्शनात्, नाऽपि निषेधनिरपेक्षोवि
[? ]
धिरस्ति सर्वस्य
सर्वात्मकत्वप्रसंगात् । तथा न द्रव्यपर्यायौ मिथोऽनपेक्षौ तत्त
-
द्भावान्यथानुपपत्तेः, नापि सामान्यविशेषौ मिथो ऽनपेक्षौविद्येते
२०
तद्भावविरोधाद् इति सर्वान्तशून्यं न मिथोनपेक्षं वाक्यंसिद्धं;
तद्विषयत्वात् परस्परनिरपेक्षाणां सर्वेषाम् अन्तानामेकत्वादीनां नि
-
रूप्यमाणानां सर्वथाऽप्य् असंभवात् ।
१७३
तेन यद् उक्तं धर्मकीर्तिना
-
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्माद् अनेकम् एकं च रूपं तेषां न विद्यते ॥ इति ।
तत् स्याद्वादिनाम् अभिमतम् एव ।
०५
तद् एतत् तु समायातं यद् वदन्ति विपश्चितः ।
यथा यथार्थाश् चिंत्यन्ते विशीर्यन्ते तथा तथा ॥
इत्यादिवत् । परस्परनिरपेक्षाणां केनचिद् रूपेणार्थानां
व्यवस्थापयितुम् अशक्यत्वात् । ततः सर्वापदाम् अन्तकरंतवैव
परमागमलक्षणं तीर्थं सकलदुर्नयानाम् अंतकरत्वात्तत्कारणशा
-
१०
रीरिकमानसिकविविधदुःखलक्षणानाम् आपदामन्तकरत्वोपपत्तः ।
मिथ्यादर्शननिमित्ता हि सर्वाः प्राणिनाम् आपद इति सर्वमि
-
थ्यादर्शनानाम् अन्तकरं तीर्थं सर्वापदाम् अन्तकरंसिद्धं । तत एव
निरंतं केनचिन् मिथ्यादर्शनेन विच्छेत्तुम् अशक्तेरविच्छेदत्व
-
सिद्धेः । तथा सर्वोदयं तीर्थम् इदं तवैत्र सर्वेषामभ्युदयकार
-
१५
णानां सम्यग्दर्शनज्ञानचारित्रभेदानां हेतुत्वादभ्युदयहेतुत्वोप
-
पत्तेः । सर्व उदयो ऽभ्युदयो ऽस्माद् इति सर्वोदयं तीर्थमिदं तवै
-
वेति वचनात् । परेषां तदसंभवः सिद्ध एव ।
ननु परो ऽप्य् एवं ब्रूयान् नैरात्म्यवादिन एव तीर्थंसर्वोदयं
सर्वापदामन्तकरं न पुनः परेषाम् इति । तद् उक्तम् —
२०
साहंकारे मनसि न शमं याति जन्मप्रबंधो
नाहंकारश् चलति हृदयाद् आत्मदृष्टौ च सत्याम् ।
अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादा
-
१७४
न् नान्यस् तस्माद् उपशमविधेस् त्वन्मताद् अस्ति मार्गः ॥ इति
तथाऽन्यः परमात्मवादी ब्रूयात् परमब्रह्मण एवतीर्थं स
-
र्वोदयं न परेषां नैरात्म्यवाद्यादीनां तत्रसंशयहेतुत्वात् ।
तथा चोक्तम् —
०५
यो लोकाञ्ज्वलयत्य् अनल्पम् अहिमा सो ऽप्य् एष तेजोनिधि
-
र् यस्मिन् सत्य् अवभाति नासति पुनर् देवो ऽṃशुमाली स्वयम् ।
तस्मिन् बोधमयप्रकाशविशदे मोहान्धकारापहे,
ये ऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः ॥
एवम् अन्योपिश्वरवादीश्वरादेर् एव तीर्थं सर्वोदयम् इतिस्या
-
१०
द्वादितीर्थम् अनेकधा द्वेष्टि । सो ऽपि —
कामं द्विषन्न् अप्य् उपपत्तिचक्षुः
समीक्षतां ते समदृष्टिर् इष्टम् ।
त्वयि ध्रुवं खंडितमानशृंगो
भवत्य् अभद्रो ऽपि समन्तभद्रः ॥
६३
॥
१५
टीका —
कामं यथेष्टं स्वदुरागमवासनावशीकृतान्तःक
-
रणः सर्वथैकान्तवादी द्विषन्न् अपितवानेकान्तामृतसमुद्रस्य तीर्थं
दर्शनमोहोदयाकुलितबुद्धिस् ते तवेष्टम् अनेकान्तात्मकमन्तर्व्
[? :ब्]
अहिश् च
जीवादितत्त्वं समीक्षतां परीक्षतां समदृष्टिःसन्मध्यस्थवृत्तिरूपप
-
त्तिचक्षुर् भूत्वा, मात्सर्यचक्षुषस् तत्त्वसमीक्षायामनधिकाराद् असमदृ
-
२०
ष्टेश् च रागद्वेषकलुषितात्मन इत्य् उभयविशेषेणवचनमुपपत्तिचक्षुः स
-
मदृष्टिर् इति, स तथा समीक्षमाणस् तवेष्टं शासनं त्वय्येव भगवति
१७५
खंडितमानशृंगो भवति ध्रुवम् इति संबंधः । मानो हि सर्वथै
-
कान्ताभिमानः स एव शृंगं स्वाश्रयस्य विवेकशून्यतयापशुकर
-
णात्, खंडितं प्रतिध्वस्तं मानशृंगं यस्य सखंडितमानशृंगः,
परित्यक्तसर्वथैकान्ताभिमान इत्य् अर्थः । तथा चाऽभद्रोऽपि
०५
मिथ्यादृष्टिर् अपि समंतभद्रः समन्ततः सम्यग्दृष्टिर्भवतीति
तात्पर्यं । अभद्रं हि संसारदुःखम् अनंतं तत्कारणत्वान्मिथ्याद
-
र्शनम् अभद्रं तद्योगान् मिथ्यादृष्टिर् अभद्र इति कथ्यतेस च समदृष्टि
-
र् भूत्वोपपत्तिचक्षुषा समीक्षमाणस् तवैवेष्टंश्रद्धत्त्
[? :ओम्.]
ए सर्वथैकान्त
-
वादीष्टस्योपपत्तिशून्यत्वात् तत्रोपपत्तीनां मिथ्यात्वात्तदभिमा
-
१०
नविनाशात्, तथा तवेष्टं श्रद्दधानश् च सम्यग्दृष्टिः स्यात्समन्ताद् भ
-
द्रस्य कल्याणस्यानंतसुखकारणस्य सम्यग्दर्शनस्यप्रादुर्भावा
-
त् समन्तभद्रो भवत्य् एव । सति दर्शनमोहविगमेपरीक्षायास् तत्का
-
रणत्वात्, तत्त्वपरिक्षा हि कुतश्चित्परीक्ष्यज्ञानावरणवीर्यान्तरा
-
यक्षयोपशमविशेषात् कस्यचित् क्वदाचित् कथंचित्प्रवर्त्तेत, सा च
१५
प्रवर्तमाना तत्त्वनिश्चयम् अतत्त्वव्यवच्छेदेन घटयति, तद्धटना च
दर्शनमोहोपशमक्षयक्षयोपशमसद्भावे तत्त्वश्रद्धानंसम्यग्दर्शनं
प्रादुर्भावयति । तेनोपपत्तिचक्षुषा समीक्षां विदधानःसम्यग्दृष्टिः
समंतभद्रः स्याद् इति प्रतिपद्येमहि बाधकाभावात् । न हिपरी
-
क्षायाम् उपपत्तिबलान् नैरात्म्यम् एवोपशमविधेर् मार्ग इतिव्यवतिष्ठते ।
२०
स्यान् मतं, जन्मप्रबंधस्य कारणम् अहंकारस् तद्भावेभावात् तद
-
भावे चाभावात् तस्य चाहंकारस्य कारणमात्मदृष्टिः साच
-
[? :ओम्.]
नैरात्म्यभावनया तद्विरुद्धया प्रशम्यते तदुपशमाच्चाहंकारश् चे
-
१७६
तसि समूलतलम् उपशाम्यति तदुपशमाच् च देहिनांजन्मप्रबंध
-
स्योपशमो निश्चीयते तेन तत्कारणाभावात् तेनोपपत्तिवलादेवो
-
पशमविधेर् नैरात्म्यभावनैव मार्गः समवतिष्ठते । तदसद् एव, आ
-
त्मदर्शनस्यैव जन्मप्रबंधोपशमविधिमार्गत्वोपपत्तेस्तथा हि — ज
-
०५
न्मप्रबंधस्य हेतुर् अहंकारो मोहोदयनिमित्तोऽहंतामात्रनिमित्तो
वा ? प्रथमपक्षे नात्मदृष्टिहेतुकः स्याद् अविद्यातृष्णाक्षयेऽपि चि
-
त्तमात्रनिबंधनत्वप्रसंगात् । सत्य् एवाविद्यातृष्णोदयेचित्तम् अहंका
-
रस्य हेतुर् इति चेत्, तर्हि सत्येव मोहोदये ऽहंकारहेतुरात्मदृष्टि
-
र् इति किम् अनुपपन्नं । द्वितीयपक्षे तु युक्तिविरोधःसंसारस्याहं
-
१०
तामात्रनिमित्तत्वे मुक्तस्यापि संसारप्रसंगात्, ततोनाहंतामात्रं
जन्मप्रबंधहेतुर् अविद्य तृष्णाशून्यात्वात्सुगतचित्ताहंतामात्रवद् इत्य् उ
-
पपत्त्याऽहंतामात्रहेतुत्वं संसारस्य बाध्यत एव । न चसुगतचि
-
त्तस्याहंतामात्रम् अपि नास्तीति युक्तं वक्तुं, स्वसंवेदनस्याहं सु
-
गत इति प्रतिभासमानस्याभावप्रसंगात् । न ह्य् अहम् इतिविक
-
१५
ल्पो ऽहंतामात्रं सकलविकल्पशून्यस्य योगिनस्तदसंभवात्, ना
-
ऽप्य् अहम् अस्य स्वामीति ममेद
[? :ṃ]
भावो ऽहंतामात्रं तस्यमोहोदयनि
-
त्तस्य क्षीणमोहे योगिनि संभवाभावात् । ततो न साध्यशून्यो
दृष्टान्तः साधनशून्यो वा सुगतचित्ते स्वयमविद्यातृष्णाशून्य
-
त्वस्य सौगतैर् अभीष्टत्वात् । नन्व् आत्मदृष्टेरविद्यातृष्णाशून्यत्वासं
-
२०
भवाद् आत्मदृष्टेर् एवाविद्यात्वाद् अविद्याया एव च तृष्णाहेतुत्वादविद्या
-
तृष्णाशून्यत्वम् असिद्धम् एवेति चेत्, नात्मदृष्टेरविद्यात्वासिद्धेश् चित्त
-
क्षणदृष्टिवत् यथैव हि प्रतिक्षणं चित्तदर्शनं विद्यातदन्तरेण
१७७
बुद्धिसंचरणानुपपत्तेस् तथानाद्यनंतात्मदृष्टिरपि तदभावे ऽहंताप्र
-
त्यभिज्ञानस्यानुपपत्तेः । चित्तसंतानोऽहंताप्रत्यभिज्ञानहेतुर् इति
चेत् न, तस्यावस्तुत्वात्, वस्तुत्वे वा स एवात्मा स्यान् नाम
-
मात्रभेदात् । ततः कथंचिन् नित्यस्य क्षणिकस्य चात्मनोदर्श
-
०५
रहंकारनिबंधनजन्मप्रन्यस्यमाहहेतुकाहंकारनिवृत्तिहेतुत्वसिद्धे
-
नस्याविद्यातृष्णाशूबंधस्योपशमोपपत्तेर् ननैरात्म्यभावनोपशम
-
विधेर् मार्गः सिध्येत् पुरुषाद्वैतभावनावत् ।
न हि पुरुषाद्वैते संसारमोक्षतत्कारणसंभवोद्वैतप्रसंगात् ।
नाऽपि केचिल् लोकाः सन्ति तेजोनिधिर् वा यस् तान् ज्वालयति
१०
भाति च परमात्मनि सत्य् एव नासतीति मोहान्धकारापहोबोध
-
मयप्रकाशविशदो ऽन्तर्यामी पुरुषः सिद्ध्येत्, तस्मिंश् च येसंशे
-
रते ते हताः स्युः । सर्वस्यास्य प्रपंचस्यानाद्यविद्यावलात्परिक
-
ल्पने च न परमार्थतः कश्चिद् उपशमविधेर् मार्गः स्यान्नैरात्म्यदर्श
-
नवत् । एतेनेश्वरादिर् एवोपशमविधेर् मार्ग इतिब्रुवन्निरस्तः, तस्या
-
१५
प्य् उपपत्तिवाधितत्वात् सुगतादिवद् इत्य् आप्तपरीक्षायांविस्तरतस् त
-
त्त्वार्थालंकारे च निरूपितं ततः प्रतिपत्तव्यं ।
नन्व् एवं भगवति वर्द्धमाने रागाद् एव भवतांस्तोत्रं द्वेषाद् एव
वान्येषु दोषोद्भावनं न पुनः परमार्थत इत्य् आशंकांनिराकुर्वन्तो
वृत्तम् आहुः —
२०
न रागान् नः स्तोत्रं भवति भवपाशच्छिदि मुनौ
न चान्येषु द्वेषाद् अपगुणकथाभ्यासखलता ।
१७८
किमु न्यायान्यायप्रकृतगुणदोषज्ञमनसा
हितान्वेषोपायस् तव गुणकथासंगगदितः ॥
६४
॥
टीका —
न रागान् नो ऽस्माकं परीक्षाप्राधानानं भवति व
-
र्द्धमाने ऽस्तोत्रं प्रवृत्तं कीर्त्या महत्या भुविवर्धमानम् इत्य् आदिकं
०५
भवतो मुनेर् भवपाशच्छेदित्वात् तदर्थितयास्तोत्रस्योपपत्तः, ऽ न चा
-
न्येष्व् अनेकान्तवादिषु द्वेषादेवापगुणकथाभ्यासेन खलतान
-
स्तत एव किमुत न्यायान्यायज्ञमनसांप्रकृतगुणदोषज्ञमनसां च
च
[? :ओम्. च]
हिताहितान्वेषणोपायस् तव गुणकथासंगेनगदित इति ना
-
प्रेक्षापूर्वकारिता सूरेः, श्रद्धागुणज्ञतयोर् एवपरमात्मस्तोत्रे युक्त्य
-
१०
नुशासने प्रयोजकत्वात् । साम्प्रतं स्तोत्रफलं सूरयःप्रार्थयन्ति ।
इति स्तुत्यः स्तुत्यैस् त्रिदशमुनिमुख्यैः प्रणिहितैः
स्तुतः शक्त्या श्रेयःपदम् अधिगतस् त्वं जिन मया ।
महावीरो वीरो दुरितपरसेनाभिविजये
विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ ॥
६५
॥
१५
टीका —
भवतो जिनस्य पथि मार्गे सम्यग्दर्शनज्ञानचारि
-
त्रलक्षणो ऽप्रतिनिधौ — प्रनिनिधिर् अहितेऽन्ययोगव्यवच्छेदेन नि
-
र्णीते भक्तिम् आराधनां विधेयास् त्वं जिन ? मे भगवन्निति स्तो
-
त्रफलप्रार्थना परमनिर्वाणफलस्य तन्मूलत्वात् । कुतःस्वपथि
भक्तिं विधेयास् त्वम् इति चेत्, यतो दूरितपरसेनाभिविजयेवी
-
२०
रस् त्वं यतश् च महावीरः श्रेयःपदम् अधिगतत्वात् यतश्च स्तुतः
शक्त्या मयेति । कस्मात् त्वं स्तुत इति चेत्, स्तुत्यो यस्मात्
१७९
स्वयं स्तुत्यैर् अपि त्रिदशमुख्यैः सुरेन्द्रैर्मुनिमुख्यैश् च गणधरदेवा
-
दिभिः प्रणिहितैर् एकाग्रमनस्कैर् इति हेतुहेतुसद्भावेनपदघटना
विधेया । न हि दुरितपरसेनाभिविजयो वीरत्वम् अन्तरेणसंभव
-
ति, अवीरेषु वीर्यातिशयशून्येषु तदघटनात्, यतो ऽयंवीरत्वे
-
०५
नानतवीर्यत्वलक्षणे साध्ये हेतुर् न स्यात् । न चायंकर्मरिपुसे
-
नाभिविजयो जिनस्यासिद्ध एव ।
"त्वं शुद्धिशक्त्योर् उदयस्य काष्ठां तुलाव्यतीतां जिन ?
शान्तिरूपाम् । अवापिथ ब्रह्मपथस्य नेता महानितीयत् प्रति
-
b
[? :व्]
अक्तुम् ईशाः" ॥
१०
इत्य् अनेन तस्य साधितत्वात् । तथा महावीरत्वे सकल
-
वीराधिपतित्वलक्षणे साध्ये श्रेयःपदाधिगतस्यापि हेतुत्वमुप
-
पन्नम् एव तदंतरेण तदनुपपत्तेः । न च भगवतःश्रेयःपदाधि
-
गतत्वम् असिद्धं ब्रह्मापथस्य नेतेन्यनेन तस्य साधनात् । तथाऽ
-
न्येषां स्तुत्यैस् त्रिदशमुख्यैर् मुनिमुख्यैश् च प्राणिहितैरनन्यमनोवृत्ति
-
१५
भिः स्तुत्यत्वे साध्ये महीवीरत्वं हेतुर् उपपद्यतएवान्यस्य तैर् अ
-
स्तुत्यस्य महावीरत्वानुपपत्तेर् इति यः स्तुतिगोचरत्वंनिनीषुरा
-
चार्यो भगवंतं वीरम् आसीत्
(? )
तेन स्तुतो भगवान् एवेतिभगवत एव
पथि भक्तिं प्रार्थितवान्, तस्याप्रतिनिधित्वात्तदाराधनाप्राप्तौ
कर्मरिपुसेनाभिविजयस्य तत्कार्यस्य संप्राप्तिसिद्धेश् चश्रेयःप
-
२०
दाधिगमोपपत्तेर् जिनत्वस्योपमेयस्यावश्यंभावित्वात् । कथं पुन
-
र् असौ भगवतः पन्थाः सम्यग्दर्शनज्ञानचारित्रात्मकोऽप्रतिनि
-
धिः सिद्ध इति चेत् । तदपरस्य ज्ञानमात्रस्यवैराग्यमात्रस्य
१८०
वा तदुभयमात्रस्य वा परमात्मोपायस्यासंभवात्, सकलसंसा
-
रकारणं हि मिथ्यादर्शनज्ञानचारित्रलक्षणं तत् कथंज्ञानमा
-
त्रान् निवर्त्तते मिथ्याज्ञानस्यैव ततो निवृत्तेः, न चमिथ्याज्ञाननि
-
वृत्तौ रागादिदोषादिकं मिथ्याचारित्रं निवर्त्तते;समुत्पन्नतत्त्व
-
०५
ज्ञानस्यापि रागादिदोषसद्भावसिद्धेः । प्रक्षीणमोहात्तत्त्वज्ञाना
-
न्निवृत्तिर् इति चेत्, स एव मोहप्रक्षयः कुतः स्यात् । तत्त्वज्ञा
-
नातिशयाद् एवेति चेत्; कः पुनस् तत्त्वज्ञानातिशयः ? प्रक्षीणमोहत्व
-
म् इति चेत्, परस्पराश्रयः सति मोहप्रक्षयेतत्त्वज्ञानातिशयः
सति वाऽतिशये मोहप्रक्षय इति । साक्षात्सकलपदार्थपरिच्छे
-
१०
दित्वं तत्त्वज्ञानातिशय इति चेत्; तत् कुतः सिद्ध्येत् ? धर्मवि
-
शेषाद् इति चेत्; सो ऽपि कुतः स्यात्? समाधिविशेषाद् इति
चेत्, स एव समाधिविशेषस् तत्त्वज्ञानाद् अन्यो वा ? तत्त्वज्ञानम् एव
स्थिरीभूतं समाधिर् इति चेत्, तत् किम् आगमज्ञानंयोगिज्ञानं वा ?
यद्य् आगमज्ञानं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानांकार्यकारण
-
१५
भावविषयं तदा न्यायदर्शनविदां तद् अस्तीति धर्मविशेषंजन
-
येत् । स च योगिज्ञानम् इति तद्भव एव मुक्तिप्रसंगः । अथ
योगिज्ञानं समाधिविशेषस् तद् एवेतरेतराश्रयः स्यात् — सतियोगिज्ञाने
स्थिरीभूते समाधिविशेषे धर्मविशेषः, तस्माच् च यथोक्तःसमा
-
धिविशेष इति नैकस्यापि प्रसिद्धिः । यदि पुनस्तत्त्वज्ञानाद् अन्य
२०
एव समाधिविशेषस्तदा स को ऽन्यो ऽन्यत्र सम्यक्चारित्रात् ? ।
सम्यक्चारित्रोपहिताद् एव तत्त्वज्ञानात्तत्त्वश्रद्धानाविनाभाविनः
संसारकारणत्रयस्य परिक्षयः सिद्ध्येत्, न तत्त्वज्ञानादेव केवला
-
१८१
दतो न तत्सकलसंसारहेतुप्रतिपक्षः, नाऽपिवैराग्यं तत्प्रतिपक्षः
कस्यचिन् मूर्खस्य तपस्विनः सत्य् अपि वैराग्येमिथ्याज्ञानस्य स
-
द्भावात् । तत्त्वज्ञानम् एव वैराग्यं तस्मिन् सतिमिथ्याज्ञानस्य संसा
-
रकारणस्य निवृत्तेस् तद् एव संसारकारणप्रतिपक्षभूतमिति चेत्,
०५
किं पुनस् तत्परं तत्त्वज्ञानं । रागादिदोषरहितंतत्त्वज्ञानम् इति
चेत्, तर्हि सम्यक्चारित्रं तत्त्वज्ञानसहितंतत्त्वश्रद्धानाविना
भावि संसारकारणप्रतिद्वन्द्वि सिद्धं, न पुनर्वैराग्यमात्रं, एतेन
तदुभयमात्रस्य संसारकारणप्रतिद्वन्द्वित्वम् अपास्तंतत्त्वश्रद्धानशू
-
न्यस्य तदुभयस्यापि संसारहेतुत्वदर्शनात् । सतिश्रद्धाविशेषे
१०
तत्त्वज्ञानपूर्वकं वैराग्यं न पुनस् तत्त्वश्रद्वानशून्यंतस्य वैराग्या
भासत्वाद् इति चेत्, तर्हि सम्यग्दर्शनज्ञानचारित्रत्रयम् एवसंसा
-
रकारणस्य मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्ररूपस्यत्रया
-
त्मकस्य त्रयात्मकेनैव प्रतिद्वन्द्विना निवर्त्तयितुंशक्यत्वात् ।
मिथ्याज्ञानस्यैवविपरीतत्वाभिनिवेशविपरीताचरणाकरणशक्ति
-
१५
युक्तस्यैकस्य संसारकारणत्वव्यवस्थायां तु तत्त्वज्ञानमेव तत्त्व
-
श्रद्धानसम्यगाचरणशक्तियुक्तं तन्निवर्त्तकम् इति युक्तमुत्पश्या
-
मस् तत्त्वज्ञानस्य तत्त्वप्रकाशनशक्तिरूपत्वात्, तत्त्वश्रद्धानशक्तेः
सम्यग्दर्शनत्वात् सम्यगाचरणाशक्तेः सम्यक्चारित्रत्वात्त्रयात्म
-
कत्वानतिक्रमात्, संसारकारणस्य मिथ्याज्ञानस्यविपरीततत्त्व
-
२०
प्रकाशनविपरीताभिनिवेशविपरीताचरणशक्त्यात्मनस्तथात्मक
-
त्वानतिक्रमवत् ।
ततः सम्यग्दर्शनज्ञानचारित्रात्मक एव परमात्मत्वस्य
१८२
पंथाः समवतिष्ठते न ज्ञानमात्रादिर् इति स एवाप्रतिनिधिः
सिद्धः ।
ततस् तत्रैव भक्तिं प्रार्थयमानः समन्तभद्रस्वामीन प्रेक्षा
-
पूर्वकारितां परित्यजतीति प्रतिपत्तव्यम् ।
०५
स्थेयाज् जातजयघ्वजाप्रतिनिधिः प्रोद्भूतभूरिप्रभुः,
प्रध्वस्ताखिलदुर्नयद्विषदिभः सन्नीतिसामर्थ्यतः ।
सन्मार्गस्त्रिबिधः कुमार्गम् अथनोऽर्हन्वीरनाथः श्रिये
शश्वत्संस्तुतिगोचरो ऽनघधियां श्रीसत्यवाक्याधिपः । १ ।
श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षेक्षणैः
१०
साक्षात् स्वामिसमन्तभद्रगुरुभिस् तत्त्वं समीक्षयाखिलम् ।
प्रोक्तं युक्त्यनुशासनं विजयिभिः स्याद्वादमार्गानुगै
-
र् विद्यानंदबुधैर् अलंकृतम् इदं श्रीसत्यवाक्याधिपैः ॥ २ ॥
इति ऽश्रीमद्विद्यानंद्याचार्यकृतोऽ युक्त्यनुशासनालङ्कारःसमाप्तः ।
समाप्तो ‘यं ग्रंथः